कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 613 of 1079
Read in context५६६ कथासरित्सागर प्रातश्च स महास्थान तस्मिन्वीरवरे स्थिते। तदीयं कथयामास तद्रात्रिचरितामृतम्॥१९०॥ ततः संस्तूयमानस्य सर्वैर्वीरवरस्य सः। बबन्ध तस्य संसुतस्यापि पट्टं नराधिपः॥१९१॥ प्रादाद् बहूश्च नियमानश्वान् रत्नानि वारणान्। दश काञ्चनकोटीश्च वृत्तिं षष्टिगुणामपि॥१९२॥ तत्क्षणाद्राजतुल्यश्च सोऽभूद्वीरवरो द्विजः। उच्छ्रितेनातपत्रेण कृतार्थः सकुदुम्बकः॥१९३॥ इति स कथां कथयित्वा विदधानः प्रस्तुतोपसंहारम्। नरवाहनदत्तं तं पुनरवदद् गोमुखो मन्त्री॥१९४॥ एवं देव क्षमामृतामेकवीरा भृत्याः केचित् पुण्ययोगामिलन्ति। ये स्वाम्यर्थं त्यक्तदेहाद्यपक्षाः सम्यग्लोकौ द्वौ सुखस्थौ जयन्ति॥१९५॥ तच्चैष शाङ्गिण्व एव दृश्यते द्विजप्रवीरस्तव देव सेवकः। भवागतः सत्त्वगुणाधिकाधिकः प्रलम्बबाहुः स्थिरसीठवाकृतिः॥१९६॥ इति निजसचिवावुदारसत्त्वो विपुलमतेरवधार्य गोमुखात्सः। नरवाहनदत्तराजापुत्रो हृदि परितोषमनुत्तमं बभार॥१९७॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीकम्बरे तृतीयस्तरङ्गः। चतुर्थस्तरङ्गः नरवाहनदत्तस्य मृगयावर्णनम् एवं स निवसंस्तत्र वत्सेशस्य पितुर्गृहे। गोमुखाद्यैः स्वसचिवैः सेव्यमानोऽनुरागिभिः॥१॥ विहरञ्जाप्यलङ्कारवत्या दम्यानुरक्तया। मानविम्नासहोट्याद्रात्तत्प्रेममुषितर्ध्यया॥२॥ नरवाहनदत्तोऽथ कदाचिन्मृगकाननम्। जगाम रथमारुह्य पश्चादारूढगोमुखः॥३॥ प्रलम्बबाहौ तस्मिंश्च विप्रवीरे प्रयायिनि। पवागगटरवत्रीदां स तत्र सहितोऽनुगे॥४॥