BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 629 of 1079

Read in context
Page 629

५८२ कथासरित्सागर ततो गत्वाथ कलशपुराख्यं नगरं क्रमात्। हस्तस्थकण्ठको देवकुलमेकं विवेश सः॥१०८॥ तत्र छायोपविष्टं स वारिव्यायामतों भृशम्। परिश्रान्तं शनैर्निद्रा ययौ विधिविमोहितं ॥१०९॥ सुप्तस्य तत्र चाकस्मादागताः पुररक्षिणः। ददृशुस्तस्य हस्तस्थं कण्ठकं तमनावृतम्॥११०॥ अयं स कण्ठको राजसुताया इह कण्ठतः। हारितश्चन्द्रसेनाया ध्रुवं चोरोऽयमेव सः॥१११॥ इत्युक्त्वा तं प्रबोध्यासौ निन्ये राजकुलं वणिक्। तत्र पृष्टं स्वयं राज्ञा स यथावृत्तमभ्यधात्॥११२॥ मिथ्या वक्ष्येष चोरोऽयमिमं पश्यत कण्ठकम्। इति प्रसार्य तं राजा यावत् सभ्यान् ब्रवीति सः॥११३॥ तावत् प्रभास्वरं दृष्ट्वा निपत्य नभसो जवात्। गृध्रस्तं कण्ठकं हृत्वा जगाम क्वाप्यदर्शनम्॥११४॥ अथार्यात्तस्य वणिजः क्रन्दतः शरणं शिवम्। वधे राज्ञा कृतादिष्टे शुश्रुवे भारती दिवः॥११५॥ मा स्म राजन्वधीरेनमसौ हर्षपुराद्वणिक्। साधुः समुद्रशूराख्यो विषयंऽभ्यागतस्तव॥११६॥ कण्ठको येन नीतोऽभूत् स चौरः पुररक्षिणाम्। भयेन विह्वलो नश्यन्निपत्याम्भौ मृतो निशि॥११७॥ अयन्तु तस्य चौरस्य भार्यं प्राप्याधिशेष च। मज्जन्मग्नप्रवहणस्तत्तीर्त्वाम्भोधिमिहागतः ॥११८॥ तदा च तत्स्त्रीबद्धशाटकग्रन्वितोऽमुना। वणिजा कण्ठकः प्राप्तो न नीतोऽनेन वो गृहात्॥११९॥ तदचोरमिमं राजन्वणिजं मुञ्च धार्मिकम्। सम्भाव्य प्रहिणुष्वैनमित्युक्त्वा विरराम वाक्॥१२०॥ एतच्छ्रुत्वा स सन्तुष्य मुक्त्वा तं वणिजं नृपात्। समुद्रशूरं सम्भाव्य धनै राजा विसृष्टवान्॥१२१॥ स च प्राप्यधनः प्रीतभाञ्ज भूयो भयङ्कुरम्। स्वदेशमप्यन्ववहत्तादृशातान्यम्बुधि वणिक् ॥१२२॥