BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 681 of 1079

Read in context
Page 681

७४ कथासरित्सागर अवाप च स वासरैः कतिपयैर्गृहं श्वशुरं बिदर्भविषयाश्रितं तदथ कुण्डिनाख्यं पुरम् । समुचितमिति तत्र च श्वशुरसत्कृतः कानिचित् दिनान्यभजत स्थितिं तनयदारसेनायुतः ॥२३४॥ प्रस्थाय सतश्च शनैः कनकपुरं प्राप्तवान्निजं नगरम् । पौरवधूजन नयन विचरोत्सुकैः पीयमान इव ॥२३५॥ अविशच्च राजधानीं सुतसहितो मदनसुन्दरीयुक्तः । उत्सव इव विग्रहवान् प्रमोषशोभान्वितो नृपतिः ॥२३६॥ अभिषिच्य बद्धपट्टां तत्र च तां मदनसुन्दरीमकरोत् । सर्वान्तःपुरमुख्यामभ्युदये मानितप्रकृतिः ॥२३७॥ वध्वा तया सह सुतेन च तेन बद्ध नित्योत्सवः पुनरदृष्टवियोगदुःखः । निष्कण्टकं कनकवर्धनरेश्वरोऽथ भूमण्डलं सञ्चतुरन्तमिव शशास ॥२३८॥ इति गोमुखतः स्वमन्त्रिमुख्यादुचिरां तत्र कथामिमां निशम्य । नरवाहनदत्तराजपुत्रः सवरूङ्कारवतीयुतस्तुतोष ॥२३९॥ इति महाकविश्रीसोमदेवभट्टविरचिते कथासरित्सागरेऽलङ्कारवतीसम्बके - पञ्चमस्तरङ्गः । षष्ठस्तरङ्ग नरवाहनदत्त कथा (पूर्वानुवृत्ता) ततः स गोमुखाख्यात कथातुष्टः प्रियासखः । दृष्ट्वा सकोपविकृतिं मरुभूतिं सधीर्र्यया ॥१॥ नरवाहनदत्तस्तं निजगादानुरञ्जयन् । मरुभूते त्वमप्येकां किं नाख्यासि कथामिति ॥२॥ ततः स बाढमाख्यामीत्युक्त्वा तुष्टेन चेतसा । समाख्यातुं कथामेतां मरुभूतिः प्रचक्रमे ॥३॥