कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 71 of 1079
Read in context५० कथासरित्सागर परित्रातास्त्वया ह्येका महिषासुरसूदिनि । परित्रायस्व मां भक्तवत्सले शरणागतम् ॥४६॥ इत्यादि सम्यग्देवीं तां स्तुत्वा सहचरैः सह। सोऽथ निश्चयदत्तोऽत्र श्रान्तो निद्रामगाद्द्रुतम् ॥४७॥ उत्तिष्ठत सुता यात विगत बन्धन हि वः। इत्यादिदेश सा स्वप्ने देवी तं चापरांश्च तान् ॥४८॥ प्रबुध्य च तदा रात्री दृष्ट्वा बन्धान् स्वतश्च्युतान्। अन्योन्यं स्वप्नमाख्याय हृष्टास्ते निर्ययुस्ततः ॥४९॥ गत्वा दूरमथाध्वानं क्षीणायां निशि तेऽपरे। ऊचुर्निश्चयदत्तं तं दृष्टत्रासा वणिक्सुताः ॥५०॥ मास्तां बहुम्लेच्छतया दिगेषा दक्षिणापथम्। वय यामः सखे त्वं तु यथाभिमतमाचर ॥५१॥ इत्युक्तस्तैरनुज्ञाय यथेष्टागमनाय तान्। उदीचीमेव तामाशामवलम्ब्य पुनश्च सः ॥५२॥ एको निश्चयदत्तोऽथ प्रतस्थे प्रसभं पथि। अनुरागपराप्रेमपाशाकृष्टो निरस्तधीः ॥५३॥ क्रमशः गच्छन् मिलितैः स महाव्रतिकैः सह। चतुर्भिः प्राप्य सरितं वितस्तामुत्ततार सः ॥५४॥ उत्तीर्य च कृताहारः सूर्येऽस्ताचलचुम्बिनि। विवेश तैरेव समं वनं मार्गवशागतम् ॥५५। तत्र चाप्यागता केचित्समूचुः काष्ठभारिकाः। क्व गच्छथ दिने याते ग्रामः कोऽप्यस्ति नाग्रतः ॥५६॥ एकस्तु विपिनेऽमुष्मिन्नस्ति शून्यं शिवालयम्। तत्र तिष्ठति यो रात्रावन्तर्वा बहिरैव वा ॥५७॥ तं शृङ्गोत्पादिनी नाम शृङ्गोत्पादनपूर्वकम्। मोहयित्वा पशूकृत्य भक्षयत्येव यक्षिणी ॥५८॥ एतच्छ्रुत्वापि सामर्षास्ते महाव्रतिनस्तदा। ऊचुर्निश्चयदत्तं ते चत्वारः सहगामिनः ॥५९॥ एहि किं कुरुतेऽस्माकं वराकी साऽत्र यक्षिणी। तेषु तेषु श्मशानेषु निशासु हि वयं स्थिताः ॥६०॥