कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 715 of 1079
Read in context१६८ कथासरित्सागर
भीमेनापि विचित्य क्ष्मां ववृषे तेन राजसु। न नलादपरो राजा तुल्यः स्वदुहितुः पतिः ॥२४०॥ अत्रान्तरे स्वनगरं दमयन्ती सरोवरम्। भीमात्मजा जलक्रीडाहेतोरवततार सा ॥२४१॥ तत्रैकं राजहंस सा दृष्ट्वा दष्टोत्पलाम्बुजम्। बबन्ध क्रीडया बाला युक्तिक्षिप्तोत्तरीयका ॥२४२॥ स बद्धो दिव्यहंसस्तामुवाच व्यक्तया गिरा। राजपुत्र्युपकारं ते करिष्यामि विमुञ्च माम् ॥२४३॥ नैषधोऽस्ति नलो नाम राजा भुवि वहन्ति यम्। सद्गुणैर्गुम्फितं हारमिव दिव्याङ्गना अपि ॥२४४॥ तस्य त्वं सदृशी भार्या भर्ता स सदृशस्तव। तदत्र तुल्यसंयोगे कामदूतो भवामि वाम् ॥२४५॥ तच्छ्रुत्वा दिव्यहंसं सा मत्वा सत्याभिभाषिणम्। मुमोच दमयन्ती तमेवमस्त्विति वादिनी ॥२४६॥ न मया वरणीयोऽन्यो नलादिति जगाद च। श्रुतिमार्गप्रविष्टेन तेनापहृतमानसा ॥२४७॥ स च हंसस्ततो गत्वा निषधेष्वथ शिप्रिये। जलक्रीडाप्रवृत्तेन नलेनाध्यासितं सरः ॥२४८॥ नलः स राजा दृष्ट्वा तं राजहंसं मनोरमम्। बबन्ध स्वोत्तरीयेण लीलाक्षिप्तेन कौतुकात् ॥२४९॥ सोऽथ हंसोऽब्रवीन्मुञ्च नृपते मामहं यतः। इह त्वदुपकारार्थमागतः शृणु वच्मि ते ॥२५०॥ विदर्भेष्वस्ति भीमस्य राज्ञः क्षितितिलोत्तम। दमयन्तीति दुहिता स्पृहणीया सुरैरपि ॥२५१॥ त्वमेव च श्रवात्तद्गुणो बद्धानुरागया। तया भर्ता वृतस्त्वञ्च त्वाहं वक्तुमागतः ॥२५२॥ इति हंसोत्तमस्यास्य वचोभिः सत्कृतोऽभवत्। विधिवच्च स पुष्पोपेतेऽर्के सममभिष्यत ॥२५३॥ अब्रवीत् स च हंसं तं धन्योऽहं विहगोत्तम। यो मनोरथसम्पत्त्या मूर्त्येव वृतस्तया ॥२५४॥