कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 719 of 1079
Read in context१७२ कथासरित्सागर अथैत्य दमयन्ती सा भ्रात्रा स्वनेकशो नृपान्। आवेद्यमानानुज्झन्ती क्रमात् प्राप नलान्तिकम् ॥२७०॥ दृष्ट्वा छायानिमेषादिगुणांस्तत्र च पञ्चसान्। सा भ्रातरि समुद्भ्रान्ते व्याकुला समचिन्तयत् ॥२७१॥ नूनं मे लोकपालैस्तैर्मयिषा पञ्चभिः कृता। षष्ठो मये नलो ह्यत्र न चान्यत्रास्ति मे गतिः ॥२७२॥ इत्यालोच्यैव साध्वी सा नलैकासक्तमानसा। आदित्याभिमुखी भूत्वा दमयन्त्येवमब्रवीत् ॥२७३॥ भो लोकपालाः स्वप्नेऽपि नलादन्यत्र चेन्न मे। मनस्तत्तेन सत्येन स्वं दर्शयत मे वपुः ॥२७४॥ वरात्पूर्ववृताच्चान्ये कन्यायाः परपूरुषाः। परदाराश्च सा तेषां तत्कथं मोह एष वः ॥२७५॥ श्रुत्वैतच्च शक्राद्याः स्वेन रूपेण तेऽभवन्। षष्ठः सत्यनलश्चाभूत्स्वरूपस्य स भूपतिः ॥२७६॥ तस्मिन् सा दमयन्ती तां फुल्लन्दीवरसुन्दरीम्। बुध्वा वरणमालां च सृष्टा राज्ञि नले व्यधात् ॥२७७॥ पपात पुष्पवृष्टिश्च नभोमध्यात्ततो नृप । विवाहमङ्गलं भीमश्चक्रे तस्या नलस्य च ॥२७८॥ विहितोचितपूजाश्च तेन वैदर्भभूभृता। नृपा यथागतं जग्मुर्देवाः शक्रादयश्च ते ॥२७९॥ शक्रादयस्तु ददृशुर्द्वा कलिद्वापरौ पथि। श्रुत्वा च दमयन्त्यर्थमागतौ तौ च तेऽब्रुवन् ॥२८०॥ न गन्तव्यं विदर्भेषु तत एवागता वयम्। वृत्तः स्वयंवरो राजा दमयन्त्या नलो वृतः ॥२८१॥ तच्छ्रुत्वैवोदतुः पापौ तौ कलिद्वापरौ रुषा। देवानामस्मदादीनांत्यक्त्वा यत्स मर्त्यो वृतस्तया ॥२८२॥ तदवश्यं करिष्यावो वियोगमुभयोस्तयोः। एवं कृतप्रतिज्ञौ तौ निवत्र्य ययतुस्ततः ॥२८३॥ नलश्च सप्त दिवसान् स्थित्वा श्वशुरवेश्मनि। दमयन्त्या समं बध्वा कृतार्थो निजधामगात् ॥२८४॥