BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 833 of 1079

Read in context
Page 833

वचो दमनकस्यैतत् स पूर्वप्रत्ययादृजु । सत्यं विचिन्त्य वृषभो विमना निजगाद तम् ॥१४३॥ धिक्सेवाप्रतिपन्नोऽपि क्षुद्रः क्षुद्रपरिग्रहः । प्रभुर्वैरित्थमेवेति तथा चेमां कथां शृणु ॥१४४॥

मदोत्कटसिंहकथा

आसीन्मदोत्कटो नाम सिंहः क्वापि वनान्तरे । त्रयस्तस्यानुगाश्चासन् द्वीपिवायसजम्बुकाः ॥१४५॥ स सिंहोऽत्र वनेऽद्राक्षीददृष्टचरमेकदा । करभं सार्थविभ्रष्टं प्रविष्टं हासनाकृतिम् ॥१४६॥ कोऽयं प्राणीति साश्चर्यं वदत्यस्मिन् मृगाधिपे । उष्ट्रोऽयमिति वक्ति स्म देशदृष्टात्र वायसः ॥१४७॥ ततो दत्ताभयस्तेन सिंहेनानाय्य कौतुकात् । उष्ट्रः सोऽनुचरीकृत्य स्वान्तिकं स्थापितोऽभवत् ॥१४८॥ एकदा व्रणितोऽस्वस्थः स सिंहो गजयुद्धतः । उपवासान् बहूश्चक्रे स्वैश्चैस्तैः सहितोऽनुगैः ॥१४९॥ ततः क्लान्तः स भक्ष्यार्थं भ्रमन् सिंहोऽनवाप्य तत् । किं कार्यमित्यपृच्छत्तानुष्ट्रं मुक्त्वाऽनुगान्रहः ॥१५०॥ ते तमूचुः प्रभो वाच्यमस्माभिर्युक्तमापदि । उष्ट्रेण साकं किं सख्यं किं नासावेव भक्ष्यते ॥१५१॥ तृणाशी चायमस्माकं भक्ष्य एकाभिषाशिनाम् । बहूनामामिषस्यार्थे किं चक्रस्त्यज्यते न किम् ॥१५२॥ दत्ताभयः कथं हन्मीत्युच्यते प्रभुणा यदि । दापयामः स्ववाचा तद्युक्त्या सनुममूं वयम् ॥१५३॥ इत्युक्ते तैरनुज्ञातस्तेन सिंहेन वायसः । वधाय संविदं कृत्वा चरन् तमभाषत ॥१५४॥ एष स्वामी क्षुधाक्रान्तोऽप्यस्मान् वक्ति न किञ्चन । तदस्यात्मप्रदानेनोक्त्या प्रियं कुर्मो यथा वयम् ॥१५५॥ तथा त्वमपि कुर्वीथा येनासौ प्रीयते त्वयि । इत्युक्तो वायसनोष्ट्रं मायुस्तत्प्रत्यपद्यत ॥१५६॥