BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 885 of 1079

Read in context
Page 885

८१६ कथासरित्सागर मन्त्रिभिर्वारितः कोपाद्राजासौ सव्व्रजेति तम्। वीरबाहुः स धवलमुखोऽथ प्राहिणोद् गृहम्॥२३३॥ एव सदन्तरः तन्वि मित्रयोरेतयोर्मम। इति भार्याश्च धवलमुखेनोक्ता तुतोष सा।२३४॥ हृद्य यदुपचारेण मित्रमन्यत् सस्नेहं। तुल्येऽपि स्निग्धतायोगे तैलं तैलं घृत घृतम्॥२३५॥ इत्याख्याय कथामेतां मन्त्री मुग्धकथा क्रमात्। नरवाहनदत्ताय गोमुखोऽकथयत्पुनः ॥२३६॥ जलभीतमूर्खस्य कथा कश्चिन् मुग्धोऽध्वगस्तीर्त्वा कृच्छ्रात्तृष्णार्तरोऽटवीम्। नदीं प्राप्यापि न पपौ वीक्षाञ्चक्रे परं जलम्॥२३७॥ तृषितोऽपि पिबस्यम्भः किं नेत्युक्तोऽत्र केनचित्। इयत्कथं पिबामीति मन्दबुद्धिरुवाच तम्॥२३८॥ किं दण्डयति राजा त्वां सर्वं पीतं न चेत्त्वया। इति तेनोपहसितोऽप्यम्बु मुग्धः स नापिबत् ॥२३९॥ एव न शक्नुवन्तीह यद्यत्कर्तुमशेषतः। यथाशक्ति न तस्यांशमपि कुर्वन्त्यबुद्धयः ॥ २४० ॥ पुत्रघातिनो मूर्खस्य कथा जलभीत श्रुतो देव श्रूयतां पुत्रघात्ययम्। बहुपुत्रो दरिद्रश्च मूर्खः कश्चिदभूत् पुमान् ॥२४१॥ स एकस्मिन्मृते पुत्रे द्वितीयमवधीत् स्वयम्। कथं बालोऽयमेकाकी पथि दूरे व्रजेदिति ॥२४२॥ तत स निन्द्यो हास्यश्च देशांन्निर्वासितो जनैः। एव पशुश्च मूर्खश्च निर्विवेकमती समौ ॥ २४३॥ भ्रातृमूर्ख कथा श्रुतस्त्वया पुत्रघाती भ्रातृभीतमिमं शृणु। जनमध्ये कथा कुर्वन् कोऽप्यासीत् क्वापि मुग्धधीः ॥२४४॥ स भव्यं पुरुषं दूराद्दृष्ट्वा मूर्खोऽब्रवीदिदम्। एष मे भवति भ्राता रिक्थमस्य हराभ्यहम् ॥२४५॥ अह तु कश्चिदप्येतन्मम हेत नैतदृणं मम। इत्युक्तवान् स मूढोऽत्र पाषाणान्यग्रहामयत् ॥२४६॥ एवं मूढस्य मूढस्य स्वार्थाभिस्यातिचित्रता। भ्रातृभीत श्रुतो देव ब्रह्मचारिसुतं शृणु ॥२४७॥