कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 891 of 1079
Read in context८४२ कथासरित्सागर अभिज्ञानकर्तु कथा अथेदानीमभिज्ञानकर्त्ता च श्रूयतां प्रभो। कस्यचित्स्नानपात्रेण मूर्खस्य व्रजतोऽम्बुधौ ॥२७८॥ राजतं भाजनं हस्तादपतत्तज्जलान्तरे। स तत्र मूर्खोऽभिज्ञानमावर्त्तादिकमग्रहीत् ॥२७९॥ आगच्छन्नुद्धरिष्यामि तदितोऽम्बिधजलादिति। पारं प्राप्याम्बुधेस्तीर्णो दृष्ट्वावर्त्तादि वारिणि ॥२८०॥ ममज्ज भाजनं प्राप्तुमभिज्ञानधिया मुहुः। पृष्टश्चोक्ताशयः सोऽन्यैरुपाहस्यत धिक्कृतः ॥२८१॥ प्रतिमांसप्रदस्य कथा एव च शृणुतेदानीं प्रतिमांसप्रदं नृपम्। मुग्ध कोऽपि नृपोऽस्त्यत्रासावावृद्धावभौ नरौ ॥२८२॥ । ॥२८३॥ तयोरेकेन च हृतं मांसं दृष्ट्वा महानसे। पक्व मांसपलायङ्गात्तस्य हर्तुर्व्यकर्त्तयत् ॥२८४॥ उत्कृत्तमांसं क्रन्दन्तं दृष्ट्वा स पतितं भुवि। जातानुकम्पो राजासो प्रतीहारं समादिशत् ॥२८५॥ छिन्ने पष्ठ्यपली मांसं नास्य शाम्यति सा व्यथा। तदत्तोऽप्यधिकं मांसममुष्मै दीयतामिति ॥२८६॥ किं जीवति शिरश्छिन्नो वस्तेदस्त शिरःक्षते। दास्यामि वेषेट्युक्त्वा स क्षत्ता गत्वाहसद्बहिः ॥२८७॥ तं समाश्वास्य वैद्यम्य कृतमांसं समर्पयत्। एवं मूढप्रभुर्नैति निग्रहं नाप्यनुग्रहम् ॥२८८॥ पुत्रास्तर काङ्क्षिणी कथा इयं चाकर्ण्यतां मन्दा स्त्री पुत्रास्तरकाङ्क्षिणी। एकपुत्रां स्त्रियं काञ्चिदन्यपुत्राभिकाङ्क्षया ॥२८९॥ पृच्छन्तीमब्रवीत् काचित्पाखण्डा क्षुद्रतापसी। योऽयं पुत्रोऽस्ति ते बालस्तं हत्वा देवताग्रतः ॥२९०॥ क्रियते चेत्ततोऽन्यस्ते निश्चितं जायते सुतः। एवं तमोक्ता यावत्सा तत्पाकर्तुमिच्छति ॥२९१॥ तावद् बुद्ध्वा हितान्त्या स्त्री वृद्धा तामवन्द्रहः। हंसि पापे सुतं जातमजातं प्राप्तुमिच्छसि ॥२९२॥