कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 899 of 1079
Read in context८५ कथासरित्सागर तत्र शक्तियशः सोत्कं तं विनोदयितुं निशि । ततः स गोमुखो धीमानिमामकथयत् कथाम् ॥४॥ काकोलूकीयकथा बभूव क्वापि सञ्छायो महान्न्यग्रोधपादपः । शकुन्तशब्द्यैः पथिकान् विश्रमायाह्वयन्निव ॥५॥ तत्रासीन् मेघवर्णाख्यः काकराजः कृतालयः । तस्यावमर्द्दनामाभूदुलूकाधिपती रिपुः ॥६॥ स तस्य काकराजस्य तत्र रात्रावुलूकराट् । एत्य काकान् बहून् हत्वा कृत्वा परिभवं ययौ ॥७॥ प्रातः स काकराजोऽथ समाज्योवाच मन्त्रिणः । उड्डीम्पाडीविसण्डीविप्रडीविचिरजीविनः ॥८॥ स शत्रुः परिभूयास्मान् रूढशत्रुर्यो बली पुनः । आपतत्येव तत्तत्र प्रतीकारो निरूप्यताम् ॥९॥ तच्छ्रुत्वाभाषतोड्डीवी शत्रौ बलवति प्रभो । अन्यवेद्याद्य कार्यस्तस्यानुनयोऽथवा ॥१०॥ धूखैतदाडीब्याह स्म सह्यो न भयमप्यवः । पराश्रयं स्वशक्तिं च वीक्ष्य कुर्मो यथाक्षमम् ॥११॥ ततो जगाद सण्डीवी मरणं देव शोभनम् । न तु प्रणमनं शत्रोर्विषेणे वापि जीवनम् ॥१२॥ योद्धव्यं तेन साकं नः कृतावज्ञेन शत्रुना । राजा सहायवाञ्शूरः सोत्साहो जयति द्विषः ॥१३॥ अथ प्रडीवी वक्ति स्म न वध्यः स बली रणे । सन्धिं कृत्वा तु हन्तव्यः सम्प्राप्तावसरे पुनः ॥१४॥ चिरजीवी ततोऽवादीत् कः सन्धिर्धूत एव कः । आसृष्टि वैरं काकानामुल्लूकस्तत्र को ब्रजेत् ॥१५॥ मन्त्रसाध्यमिदं मन्त्रो मूलं राज्यस्य चोच्यते । श्रुत्वैतत्काकराजस्तं सोऽब्रवीच्चिरजीविनम् ॥१६॥ वृद्धस्त्वं वेत्सि चेत्तन्मे ब्रूहि त्वं केन हेतुना । काकोलूकस्य वैरिञ्च मन्त्रं वदयस्यतः परम् ॥१७॥