कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 928 of 1079
Read in context८०८ कथासरित्सागर घर्मस्वाङ्गेषु नश्यन्ति वस्त्राणीति मयोदितम्। वस्त्राणामेव रक्षार्थमुक्तं भो न तु घर्मणाम्॥२०१॥ इत्युक्त्वा भायकरभन्यस्तभारो वणिक्ततः। स गत्वा स्वगृहं भृत्यान् स्वस्वं तानवण्डयत्॥२०२॥ एवमज्ञातहृदया मूर्खा कृत्वा विपर्ययम्। घ्नन्ति स्वार्थं परार्थं च तावद्भवति नोत्तरम्॥२०३॥ अपूपमुग्धकथा अथ चापूपिकामुग्ध संक्षेपेण निशम्यताम्। क्रीणाति स्माप्यगं कश्चित्पणेनाष्टावपूपकान्॥२०४॥ तेषां च यावत् षड्भुङ्क्ते तावन्मेने न तृप्तताम्। सप्तमेनाथ भुक्तेन तृप्तिस्तस्योदपद्यत॥२०५॥ ततश्चक्रन्द स जडो मुषितोऽस्मि न किं मया। एष एवादितो भुक्तोऽपूपो येनास्मि तर्पितः॥२०६॥ नाशिता किं वृथैवाये मया हस्तेन किं कृताः। इति शोचन् क्रमात्तृप्तिमजानञ्जहसे जनैः॥२०७॥ । ॥२०८॥ कस्यापि मूर्खसेवकस्य कथा कश्चिद्दासो हि वणिजा मूर्खः केनाप्यमन्त्र्यत। रक्षेस्त्वं विपणीद्वारं क्षणं गेहं विशाम्यहम्॥२०९॥ इत्युक्तवति यातेऽस्मिन्वणिजि द्वारपट्टकम्। विपणीतो गृहीत्वाऽंसे वासो द्रष्टमगान्नटम्॥२१०॥ आगच्छंश्च ततो दृष्ट्वा वणिजा तेन भर्त्सितः। त्वदुक्तं रक्षितं द्वारं मयेदमिति सोऽब्रवीत्॥२११॥ हरयनर्थाय व्यर्थकपोरोक्षतात्पर्यविज्जडः। एवं च महिषीमुग्धमपूर्व शृणुताधुना॥२१२॥ १ मूलपुस्तके श्लोकोऽयं त्रुटितः।