कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 93 of 1079
Read in context७२ कथासरित्सागर तदलं देवि सेवित्वा मर्त्यं धरणिगोचरम्। पिता वेत्ति न यावत्ते तावदुत्पत्य भजस्व माम्॥२०९॥ इति तस्मिन्ब्रुवाणे सा कटाक्षार्धविलोकिती। अचिन्तयदयं युक्तो ममेति चपलाशया॥२१०॥ ततो लब्धाशयं चक्रे भार्या तेनैव तम सा। अपेक्षत द्वयोरेकचित्त्ये किं रहसि स्मरः॥२११॥ अथ विद्याधरे तस्मिन् सम्प्रत्यपसुते ततः। आगात्निश्चयवत्तोऽत्र सोमस्वामिसमीपतः॥२१२॥ आगतस्य च सा चक्रे विरक्तालिङ्गनादिकम्। अनुरागपरा तस्य व्यपदिश्य शिरोरुजम्॥२१३॥ स तु तद्व्याजमविदन्नृजुः स्नेहविमोहितः। अस्वास्थ्यमेव मन्वास्या युक्तस्तदनमद्दिनम्॥२१४॥ प्रातश्च दुर्मना भूयस्तं कपिं सुहृदं प्रति। स सोमस्वामिन प्रायान्नभसा विद्ययोर्बलात्॥२१५॥ यात तस्मिन्नुपागात्तां सानुरागपरा पुनः। कामी विद्याधरो रात्रिक्लान्तोऽनिद्रस्तया विना॥२१६॥ निशाविरहसोत्कण्ठः कण्ठे तामवलम्ब्य च। सुरतान्तपरिश्रान्तो निद्राक्रान्तो बभूव सः॥२१७॥ साप्यङ्कसुप्तं प्रच्छाद्य प्रियं विद्याबलेन तम्। रात्रिजागरणाद्निद्रामनुरागपरा ययौ॥२१८॥ तावन्निश्चयवत्तोऽपि प्राप तस्यान्तिकं नृप। सोऽपि पप्रच्छ च कृत्वा स्वागतं वानरः सुहृत्॥२१९॥ दुर्मनस्कमिवाद्य त्वां किं पश्याम्युच्यतामिति। ततो निश्चयवत्तोऽपि स तं वानरमब्रवीत्॥२२०॥ अनुरागपराद्यैषामस्वस्था मित्र वर्तते। तेनास्मि दुःखितः सा हि प्राणेभ्योऽपि प्रिया मम॥२२१॥