BharatKosha
कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)

by महाकवि सोमदेव भट्ट

Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)

DevanagariHindipublished1,079 pages

Page 954 of 1079

Read in context
Page 954

९ कथासरित्सागर आगमिष्य स्वमादाय हृत्पद्मं त्वत्प्रियाकृते। वासोदुम्बरवृक्ष हि तदिदानीं मम स्थितम्॥१२०॥ सञ्छ्रुत्वा शिश्रुमारस्तमार्त्तो मूर्खोऽब्रवीदिदम्। तर्ह्येतदानयेहि त्वमुदुम्बरतरोर्चिरे॥१२१॥ आनितायाम्बुधेस्तीरं शिशुमारः पुन' स तम्। तत्र तनान्तकेनेव मुक्तः स च कपिस्तटम्॥१२२॥ उत्पत्यारुह्य वृक्षाग्रं शिशुमारमुवाच तम्। गच्छ रे मूर्ख हृदयं यद्वाङ्ग्भवति किं पृथक् ॥१२३॥ मयैव मोचितो ह्यात्मा न चात्रैष्याम्यहं पुनः। किमत्र न श्रुता मूर्ख गर्दभाख्यायिका त्वया॥१२४॥ कर्णहृदयहीनस्य गर्दभस्य कथा आसीद्गोमायुसचिवः सिंहः कोऽपि वने क्वचित्। ॥१२५॥¹ स जात्वाखेटकायातेनात्र भूपेन केनचित्। आहतो ह्तिमिश्चिद्वन् कथमप्यविशद्गुहाम्॥१२६॥ तत्र स्थितः गते तस्मिन् राजन्याहारनिःसहम्। तच्छेयामिषवृत्तिं सन्गोमायुः सचिवोऽभ्यधात् ॥१२७॥ निर्गत्य किं यथाशक्ति नाहारं चिनुषे प्रभो। सीदत्येव शरीरं ते मम परिजनेन यत्॥१२८॥ इत्युक्तः स शृगालेन तेन सिंहो जगाद तम्। सद्य नाहं व्रणश्रान्तः शक्नोमि भ्रमितुं क्वचित्॥१२९॥ खरस्य कर्णहृदयं भक्ष्यं प्राप्नोमि चेदहम्॥ तन्मे व्रणानि रोहन्ति प्रकृतिस्थो भवामि च॥१३०॥ तदानय कुतोऽपि त्वं गत्वा गर्दभमाशु मे। इत्युक्तस्तेन गोमायुः स तथेति ययौ ततः ॥१३१॥ भ्रमञ्जलान्तिकं लब्ध्वा रजकस्य स गर्दभम्॥ प्रीत्येवोपेतय वक्ति स्म दुर्बलः किं भवानिति॥१३२॥ १ मूलपुस्तके पदार्धं त्रुटितमस्ति।