कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८)
by महाकवि सोमदेव भट्ट
Source: कथासरित्सागर : द्वितीय खण्ड (लम्बक ६ से १८) · बिहार राष्ट्रभाषा परिषद्, पटना · 1961 (origin)
Page 956 of 1079
Read in context१२ कथासरित्सागर कृशीभूतोऽस्मि रजकस्यास्य भारं वहन् सदा। इत्युक्तवन्तं च खरं तमुवाच स जम्बुकः ॥१३३॥ इह किं वहसि क्लेशमेहि त्वां प्रापयाम्यहम्। वनं स्वगसुखं यत्र खरीभिः सह वर्धसे ॥१३४॥ तच्छ्रुत्वा स तथेत्युक्त्वा गर्दभो भोगलोलुपः। वनं सिंहस्य तस्यागात्तेन गोमायुना सह ॥१३५॥ तं च दृष्ट्वैव तस्येत्य पृष्ठतो गर्दभस्य सः। सिंहो ददौ कराघातं प्रागवैक्लव्यदुर्बलम् ॥१३६॥ स तेन वीक्षितस्त्रस्तः पलाय्य सहसा खरः। आगच्छन्तं च तं सिंहोऽन्वपतद्विह्वलाकुलः ॥१३७॥ सिंहस्त्वसिद्धकार्यः स्वां त्वरितं प्राविशद् गुहाम्। ततस्तं जम्बुको गन्त्री सोपालम्भमभाषत ॥१३८॥ न हतो गर्दभोऽप्येष पराक्रम्येत त्वया प्रभो। हरिणादिवधे का सद्वात्ता तव भविष्यति ॥१३९॥ तच्छ्रुत्वा सोऽब्रवीत् सिंहो यथा वेत्सि तथा पुनः। तमानय खरं तावत् सञ्जो भूत्वा निहन्म्यहम् ॥१४०॥ इति स प्रेषितस्तेन पुनः सिंहेन जम्बुकः। गत्वा खरं तमवदद् विद्रुतं किं भवानिति ॥१४१॥ अहं सत्त्वेन केनापि ताडितोऽत्रेति वादिनम्। तं च भूयः स गोमायुर्विहस्य खरमब्रवीत् ॥१४२॥ मिथ्यैव विभ्रमो दृष्टस्त्वया न त्वत्र तादृशम्। सत्त्वमस्ति सुखं ह्यत्र वसाम्यहमपीदृशम् ॥१४३॥ तदेहाव मया साकं तन्निर्बाधिसुखं वनम्। इति वञ्चनया मूढस्तत्रागात् स खरः पुनः ॥१४४॥ आगतं तं च दृष्ट्वैव स निर्गत्य गुहामुखात्। निपत्य पृष्ठे व्यबधीदुपारिवारितं खरम् ॥१४५॥ निकृत्य गर्दभं तं च स्थापयित्वा च रक्षकम्। तस्यै व जम्बुकं भ्रान्तं सिंहः स्नातुं जगाम सः ॥१४६॥ तत्कालं जम्बुकस्तस्य स मायावी खरस्य तत्। भक्षयामास हृदयं कर्णौ पाप्यात्मतृप्तये ॥१४७॥