किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
by महाकवि भारवि
Source: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (origin)
Page 119 of 707
Read in contextसर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् ५१
यद्वा नृपेति पृथक्पदः। तस्मात्पौरुषं कर्तव्यमेवेत्यर्थः। अत्र पूर्वपूर्वस्यातिक्रमसद्भावे- रुत्तरोत्तरविपदादिकं प्रति कारणत्वात्कारणमालाख्योऽलङ्कारः तथा च सूत्रम्— 'पूर्वपूर्वस्योत्तरेहेतुत्वे कारणमाला ॥ १४ ॥'
अन्वयः—विपदः, अविक्रमम्, अभिभवन्ति, आपदुपेतम्, आयतिः, रहयति । निरायतेः लघुता नियता, अगरीयान्, नृपश्रियः, पदं, न ( भवति ) ॥ १४ ॥
सुधा—विपदः = आपदः नानाविधाः क्लेशा इत्यर्थः । अविक्रमं = निरुद्योगम्, पौरुषहीनमलसमिति यावत्, अभिभवन्ति = आक्रामन्ति, अथ चाविक्रमत्वेनापदा- ऽन्वितो भवति, तदा किं तदाह—आपदुपेतम् = विपद्युक्तम्, आयतिः = उत्तर- कालः, भाविसमय इति यावत् । रहयति = त्यजति, अर्थाद्धिरुद्योगिनो विपद्ग्रस्त- तया भाविसुभोदयोपि दूरीभवति । निरायतेः = अनागामिशुभस्य, अदृष्टेष्टार्थः । लघुता = क्षुद्रता, अवमानना, नियता = निश्चिता सा च महती न भवति । अतः, अगरीयान् = लघीयान्, नीचो जन इति शेषः । नृपश्रियः = राजलक्ष्म्याः, पदम् = स्थानम्, न भवति, अतो वसन्ते सर्वासामवनतीनां मूलं तु अनुद्योग एव, अतो भवता यत्नपरेण भाव्यमित्यर्थः ॥ १४ ॥
समासः—न विक्रमः यस्य असौ अविक्रमस्तमविक्रमम् । आपदा उपेत आप- दुपेतस्तमापदुपेतम् । निर्गता आयतिर्यस्मात्सः निरायतिः । अतिशयेन गुरुर्गरी- यान्, न गरीयान् अगरीयान् । नृपस्य श्रीः नृपश्रीः, तस्याः नृपश्रियाः ॥ १४ ॥
व्याकरणम्—अभिभवन्ति=अभि + भू + लट् । रहयति=रह + णिच् + लट् ॥ १४ ॥
वाक्यान्तरम्—अविक्रमो जनः विपद्भिः अभिभूयते । आपदुपैतो जनः आयत्या
रह्यते । निरायतेर्लघुता नियता भूयते । अगरीयसा नृपश्रियः पदेन न भूयते ॥ १४ ॥
कोषः—'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिसक्तिता' इत्यमरः । 'विपत्त्यां
विपदापदौ' इत्यमरः । 'उत्तरः काल आयतिः' इत्यमरः । 'पदं व्यवसितत्राणस्थान-
लक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १४ ॥
सारार्थः—य उद्योगं न कुरुते, स विपदधीनो भवति । तथा च विगतायत्याश्च अमान्यो जनो राज्यकरणयोग्यो नहि भवतीति । अतो भवता सम्यग्लोकः सुखः करणीयः ॥ १४ ॥
भाषार्थः—आलसी को विपत्तियाँ घेरती हैं, विपत्ति से ग्रसित को होनहार भी छोड़ देता है । बिना होनहार वाले की नीचता आ जाती है और नीच लोग राजपद के लायक नहीं रहते ॥ १४ ॥
फलितमाह—
सबलं प्रतिपक्षमुन्नतेरवलम्ब्य व्यवसायमक्षताम् ।
निवसन्ति पराक्रमाश्रया न विषादेन समं समृद्धयः ॥ १५ ॥
१ कि० सं० टि०