भारतकोश
किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पृष्ठ 118, कुल 707 में से

संदर्भ में पढ़ें
पृष्ठ 118
८०किरातार्जुनीयम्[ द्वितीयः

स्वपुरुषकार एव विनिपातनिवर्तनक्षममनर्थप्रतिकारसमर्थमालम्बनं सहकारि ३.तमिष्टम् । यथा कस्यचित्तुङ्गमूारोहतः किञ्चित्पतनप्रतिबन्धकमनुचरहस्तादिक ३.लम्बनं तद्वदिति ध्वनिः । किं पौरुषादन्यैः शूराणामिति भावः ॥ १३ ॥

अन्वयः—अभिमानवतः, प्रियम्, उच्चैः, आरुरुक्षतः, मनस्विनः, विनिपातनिवर्तनक्षमम्, आत्मपौरुषम्, आलम्बनम्, मतम् ॥ १३ ॥

सुधाअभिमानवतः = मानधनस्य, जातिकुलाभिमानशालिन इत्यर्थः । प्रियम् = अभीष्टम्, उच्चैः = उन्नतम्, योग्यतायोग्यम्, आरुरुक्षतः = आरोढुमिच्छतः, मनस्विनः = गम्भीरस्य, विनिपातनिवर्तनक्षमम् = विपत्तिध्वंसयोग्यम्, वाऽनर्थप्रतीकारसमर्थम्, आत्मपौरुषम् = निजोद्योग एव, आलम्बनम् = अवलम्बनम्, सहायकमित्यर्थः, मतम् = इष्टम्, वा स्वीकृतम् ॥ १३ ॥

समासः—अभिमानोऽस्यास्तीति अभिमानवान् तस्याभिमानवतः । विनिपातस्य निवर्त्तनं विनिपातनिवर्त्तनम्, तस्य क्षमं विनिपातनिवर्त्तनक्षमम् । आत्मनः पौरुषम् आत्मपौरुषम् ॥ १३ ॥

व्याकरणम्—आरुरुक्षतः = आङ् पूर्वात् रुहेः=सन्नन्तात् शतृप्रत्ययः ॥ १३ ॥

वाच्यान्तरम्—अभिमानवतो मनस्विनः प्रियम् उच्चैः पदम् आरुरुक्षता विनिपातनिवर्तनक्षमेण आत्मपौरुषेण आलम्बनेन भूयते ॥ १३ ॥

कोषः—'गर्बोऽभिमानोऽहङ्कारो मानश्चित्तसमुन्नतिः' इत्यमरः । 'पदं व्यवस्थितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु' इत्यमरः ॥ १३ ॥

सारार्थः—यः स्वजातिकुलाभिमानवान् महीपतिः स्वाभीष्टस्थानलाभाय यतते, तेन अन्यसाहाय्याशा न कर्तव्या केवलं निजभुजविक्रमस्यैव साहाय्याशा विधेया, यत्कृत्यं स्वेन सिद्ध्यति, तद्रम्यं कथयेदिति ॥ १३ ॥

भावार्थः—अपनी जाति और कुल के अभिमान वाला जो राजा अभीष्ट स्थान को चाहे उसको चाहिए कि पराये की आशा छोड़कर केवल आपद् को दूर करने लायक अपने उद्योग का अवलम्बन करे ॥ १३ ॥

पौरुषानङ्गीकारे दोषमाह—

विपदोऽभिभवन्त्यविक्रमं रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायतेरगरीयान्न पदं नृपश्रियः ॥ १४ ॥

विपद इति । अविक्रमं पौरुषहीनं विपदोऽभिभवन्त्याक्रामन्ति । आपदुपेतं विपन्नम् आयतिः उत्तरकालः 'उत्तरकाल आपतिः' इत्यमरः । रहयति त्यजति । निरायतेः, आसन्नक्षयस्येत्यर्थः । लघुताऽगौरवं नियताऽवश्यम्भाविनी । न कश्चिदेनमाश्रियत इत्यर्थः । अगरीयाँल्लघीयमान्नृपश्रियी राजलक्ष्म्याः पदमास्पदं भवति

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित) · पृष्ठ 118, कुल 707 में से · BharatKosha