मनुस्मृति (कुल्लूकभट्ट टीका व हिन्दी अनुवाद सहित)
Manusmriti with Kulluka Bhatta Tika & Hindi Translation
by महर्षि मनु
Source: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (origin)
Page 368 of 649
Read in context२२८ : मनुस्मृति । राजा कर्मसु युक्तानां स्त्रीणां प्रेष्यजनस्य च । प्रत्यहं कल्पयेद्वृत्तिं स्थानकर्मानुरूपतः ॥ १२५ ॥ पणो देयोऽवकृष्टस्य षडुत्कृष्टस्य वेतनम् । षाण्मासिकस्तथाच्छादो धान्यद्रोणस्तु मासिकः १२६॥ और जो पापी पुरुष, रिश्वत आदि ही लिया करते हैं उनको, सब कुछ छीनकर, राजा देश से निकाल देवे। कार्यों में लगे स्त्री और पुरुषों को उनके कर्म के अनुसार सदा वृत्ति नियत करे अर्थात् कभी तनख़्वाह बढ़ावे कभी घटावे। निकृष्ट नौकर को एक पण देवे और छ महीने में दो कपड़े और एक महीने में द्रोण भर अन्न देवे। उत्तम कार्यवालों को छ गुना देवे । मध्यम नौकर को मध्यम श्रेणी का सब पदार्थ देवे ॥ १२४-१२६ ॥ क्रयविक्रयमध्वानं भक्तं च सपरिव्ययम् । योगक्षेमं च संप्रेक्ष्य वणिजो दापयेत्करान् ॥ १२७ ॥ यथा फलेन युज्येत राजा कर्ता च कर्मणाम् । तथावेक्ष्य नृपो राष्ट्रे कल्पयेत्सततं करान् ॥ १२८ ॥ यथाल्पल्पमदन्त्याद्यं वार्योकोवत्सषट्पदाः । तथाल्याल्पो ग्रहीतव्यो राष्ट्राद्राज्ञाब्दिकः करः॥१२६॥ पञ्चाशद्भाग आदेयो राजा पशुहिरण्ययोः । धान्यानामष्टमो भागः षष्ठो द्वादश एव वा ॥ १३०॥ आददीताथ षड्भागं द्रुमांसमधुसर्पिषाम् । गन्धौषधिरसानां च पुष्पमूलफलस्य च ॥ १३१ ॥ पत्रशाकतृणानां च चर्मणो वै दलस्य च । मृन्मयानां च भाण्डानां सर्वस्याश्ममयस्य च ॥ १३२॥