BharatKosha
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages

Page 194 of 804

Read in context
Page 194

१४२ मीमांसादर्शनम् [ सू० तानीत्यपेक्षायां विधेयस्तावकतया सार्थकं लौकिकं वाक्यमुदाहरति - तद्यथेति । लौकिकस्यापि स्तुतिपदस्यानर्थक्यात् साध्यविकलो दृष्टान्तमाह—क्रेतव्येति । क्रेतव्येत्युक्ते प्रवर्तमानाः क्रेतारो गुणाभिधानात् प्रवर्तन्तेतरां प्रवृत्त्यतिशयवन्तो दृश्यन्त इत्यर्थः, गुणाभिधानं चेह स्फुटमित्याह—बहुक्षीरेति । अतः प्रवृत्त्यति- शयाय वेदेऽपि स्तुतिरर्थवतीत्याह—तद्वदिति ॥ २० ॥ त० वा०—लोके तावद् बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां प्रयुञ्जते । तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेष- निमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः । एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥ न्या० सु०—लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाशङ्क्याह— लोके तावदिति । क्रेतव्येति भाष्यं व्याचष्टे—तत्र चेति । अस्यापि फलपरत्वाददृष्टान्त- त्वमाशङ्क्याह—न चेति । तद्वदिति भाष्यं व्याचष्टे—एवमिति । लक्षणादोषं परिहरति— श्रुतीति ॥२०॥ भा० प्र०—स्तुति को अनर्थक कहना ठीक नहीं है । लौकिक वाक्यों के विचार से ही उसकी सार्थकता के अनुसार इसकी भी सार्थकता सिद्ध होती है । गाय बेचने वाला गाय के सम्बन्ध में कहता है कि—यह गाय खरीदो, इसको अधिक दूध होता है, बछियावाली भी है और प्रतिवर्ष प्रसव करती है, तो सरलता से खरीदने में प्रवृत्ति होती है । वैसे ही 'उदम्बरो यूपो भवति' यहाँ औदुम्बरत्वरूप गुण विहित होता है, ऊर्क और अदुम्बर वाक्य उसी के स्तावक है । लोकवत्=लौकिक उक्ति के समान । इति चेत्=यदि कहा जाय । अर्थात् अर्थवाद की सार्थकता प्रदान की जाय तो किसी तरह अनर्थकत्व नहीं रह सकता है ॥ २० ॥ न पूर्वत्वात् ॥ १.२.२१ ॥ शा० भा०—नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन्पूर्व- वचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोच्यन्ते, नतरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधि- शब्देन प्ररोचितः, किमर्थवादशब्देन, अपि च वेदे व्यक्तमसंवादः, ऊर्गोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम्, ऊर्ध्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः तस्मात्तन्मयो यूपः कर्तव्य इत्यूर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परि- कल्प्येत ॥ २१ ॥