BharatKosha
Back to the archive

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages
Page 194Permalink

१४२ मीमांसादर्शनम् [ सू० तानीत्यपेक्षायां विधेयस्तावकतया सार्थकं लौकिकं वाक्यमुदाहरति - तद्यथेति । लौकिकस्यापि स्तुतिपदस्यानर्थक्यात् साध्यविकलो दृष्टान्तमाह—क्रेतव्येति । क्रेतव्येत्युक्ते प्रवर्तमानाः क्रेतारो गुणाभिधानात् प्रवर्तन्तेतरां प्रवृत्त्यतिशयवन्तो दृश्यन्त इत्यर्थः, गुणाभिधानं चेह स्फुटमित्याह—बहुक्षीरेति । अतः प्रवृत्त्यति- शयाय वेदेऽपि स्तुतिरर्थवतीत्याह—तद्वदिति ॥ २० ॥ त० वा०—लोके तावद् बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां प्रयुञ्जते । तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेष- निमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः । एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥ न्या० सु०—लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाशङ्क्याह— लोके तावदिति । क्रेतव्येति भाष्यं व्याचष्टे—तत्र चेति । अस्यापि फलपरत्वाददृष्टान्त- त्वमाशङ्क्याह—न चेति । तद्वदिति भाष्यं व्याचष्टे—एवमिति । लक्षणादोषं परिहरति— श्रुतीति ॥२०॥ भा० प्र०—स्तुति को अनर्थक कहना ठीक नहीं है । लौकिक वाक्यों के विचार से ही उसकी सार्थकता के अनुसार इसकी भी सार्थकता सिद्ध होती है । गाय बेचने वाला गाय के सम्बन्ध में कहता है कि—यह गाय खरीदो, इसको अधिक दूध होता है, बछियावाली भी है और प्रतिवर्ष प्रसव करती है, तो सरलता से खरीदने में प्रवृत्ति होती है । वैसे ही 'उदम्बरो यूपो भवति' यहाँ औदुम्बरत्वरूप गुण विहित होता है, ऊर्क और अदुम्बर वाक्य उसी के स्तावक है । लोकवत्=लौकिक उक्ति के समान । इति चेत्=यदि कहा जाय । अर्थात् अर्थवाद की सार्थकता प्रदान की जाय तो किसी तरह अनर्थकत्व नहीं रह सकता है ॥ २० ॥ न पूर्वत्वात् ॥ १.२.२१ ॥ शा० भा०—नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन्पूर्व- वचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोच्यन्ते, नतरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधि- शब्देन प्ररोचितः, किमर्थवादशब्देन, अपि च वेदे व्यक्तमसंवादः, ऊर्गोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम्, ऊर्ध्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः तस्मात्तन्मयो यूपः कर्तव्य इत्यूर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परि- कल्प्येत ॥ २१ ॥

Page 195Permalink

२१ ] प्रथमाध्याये द्वितीयपादः १४३ भा० वि०—न पूर्वत्वादित्यत्र नञर्थं दर्शयन् दृष्टान्तवैषम्यं प्रतिजानीते— नैतदिति । वैषम्यं दर्शयन् पूर्वत्वादिति व्याचष्टे—लोक इति । मानान्तरा- वगताथर्त्वेन बहुक्षीरादिवाक्यानामप्रमापकत्वात् प्रशंसार्थता युक्तेत्यर्थः, वेदे त्वविदितवादत्वादूर्जोवरुध्या इत्यादेर्न प्रशंसार्थतेत्याह—अविदितेति । पूर्व- वचनादिव—वैदिकविध्युद्देशादिवेत्यर्थः । न च वसन्तादिवाक्ये विध्युद्देशादेव स्तुतेरङ्गीकारात् कथमश्रद्धेति वाच्यम् । तत्रापि कल्पितेनैव स्तुतिपदेन प्ररोच- नाङ्गीकारादिति भावः । विदितत्वाद्बहुक्षीरादयः प्ररोचयन्त इत्येतदुपपादयति— विदितत्वादेवेति । नोक्तिमात्रेण, तथा सति विसंवादेऽपि प्ररोचनाप्रसङ्गा- दिति भावः । ननु वेदेऽपि विधितः प्रवृत्त्यवगमात् तत्समभिव्याहृतानामर्थवादानां ताद- र्थ्येन विधिसंभवादेव प्ररोचनार्थत्वं संभवतीत्यत आह—वैदिकेष्विति । न तरा- मर्थवादेन प्ररोचयिष्यत इत्यत्र हेतुमाह—जाताशङ्को हीति । यो हि साक्षात्प्र- वर्तकं विधिमुल्लङ्घ्यार्थवादं प्रवृत्त्यङ्गतया प्रार्थयते । स कथं विधावविस्रब्धोऽ- र्थवादे प्रत्ययं कुर्यादिति भावः । यदि विधेरेव प्रवर्तकत्वसिद्धये प्ररोचकत्व- मपीष्यते तत्राह—अथेति । एवमविदितपूर्वत्वादूर्गवरोधादीनां न प्रशंसार्थत्व- मिति सूत्रं व्याख्यायान्यथाविदितपूर्वादपि न तदर्थतेति व्याचष्टे—अपि चेति । संवादविरुद्धोऽसंवादः विसंवाद इति यावत् । विसंवादमुपपादयति—ऊर्जोवरुध्या इति । अप्रसिद्धत्वं योग्यानुपलब्धिविषयत्वम्, वर्तमानेनोर्गवरोधेन हि स्तुतिः, तस्य चानुपलब्धेः अनुपलब्धिविरोध इति भावः । स्तुतिवाक्ये विसंवादमुक्त्वा हेतुवाक्येऽपि तमाह-ऊर्ग् वा उदुम्बर इतीति । न ह्यूर्क् च्छन्दाभिधेयमन्नत्वमभक्ष्ये वृक्षे पक्षधर्मत्वेन प्रसिद्धम्, नापि यत्रान्नत्वम् तत्र यूपत्वमिति अन्वयप्रसिद्धिः, तेन हेतुत्वाप्रसिद्धिरित्यर्थः, हेत्वसिद्ध्या साध्यासिद्धिमाह—यस्मादिति । ऊर्गदुम्बर इत्यनृतवचनाद्यदन्यत् साध्यं यस्मादूर्गुदुम्बरस्तस्मात्तन्मय उदुम्बरमयो यूपः कर्तव्य इति । तदप्यनृतं परिकल्प्येतेति योजना ॥ २१ ॥ त० वा०—नायं दृष्टान्तः । स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाल्लोके तत्संभ- वादुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक एव यद्यविदितं कश्चिद्वदेत्तदा नैव श्रद्दधीरन् । पूर्ववचनादिवेति । विध्युद्देशादिव । अथ वा वैधर्म्योपमा । यथाऽधिगतपूर्ववचने श्रद्दधते नैवमविदितवादे । न चोक्तिमात्रेणैते बहुक्षीरादयः प्ररोचयन्ते । किं तर्हि । विदितत्वादेव । वेदे त्वर्थवादासत्यत्वेन विधौ जाताशङ्को न प्रवर्तेत । अथ वा यो विधिमुत्क्रम्यार्थवादं प्रार्थयते नूनमस्य विधावविश्रम्भः । तत्र चेदनाश्वासोऽर्थवादे कुतः प्रत्यय इति । अपि च व्यक्तमसंवादो वर्तमाने । नोर्जोऽ-

Page 196Permalink

१४४ मीमांसादर्शनम् [ सू० वरोधनेनेयं स्तुतिर्न च तदस्ति। तत्राविद्यमानबहुक्षीरसंकीर्तनवदेतत्स्यात् स्व- रूपतस्तावदुदुम्बरेऽन्नत्वं पक्षधर्मेणाप्रसिद्धम्। अन्वयाप्रसिद्धेश्च हेतुत्वाप्रसिद्धिः ! न हि यद्यदन्नम्, स स यूप इति लोके वेदे वा प्रसिद्धमित्यसंबद्धम्। तस्मादसंवा- दाद्वरं विधिरेव, किं स्तुत्या संवादापेक्षिण्येति ॥ २१ ॥ न्या० सु०—नैतदेवमिति भाष्यं व्याचष्टे—नायमिति। लोके इति भाष्यं व्याचष्टे— स्तुतेरिति। अविदित इति भाष्यं द्वेधा व्याचष्टे—वेदे स्थित्विति। पूर्ववचनादिवेति। भाष्यं पूर्ववदेव द्वेधा व्याचष्टे—पूर्वेति। विदितत्वादेवेति भाष्यं व्याचष्टे—न चेति। वैदिकेष्विति भाष्यं जाताशङ्कत्वं द्विधोपपादयन् व्याचष्टे—वेदे स्थित्विति। न लौकिकी स्तुतिर्विरुद्धा, प्रमाणान्तरेणास्याविदितपूर्वत्वादिति, वैदिकायाः स्तुतेः दार्ष्टान्तिकत्वनिरा- करणपरतया सूत्रव्याख्यानार्थमपि चेति भाष्यं व्याचष्टे—अपि चेति। अधर्मशब्दवद्वि- रुद्धवचनेनासंवादशब्देन विसंवादोऽभिप्रेतः। विसंवादोपपादनाथंमुज्जॉवरुद्ध्या इति भाष्यं व्याचष्टे—वर्त्तमानेनेति। स्तुतौ स्वार्थसत्यत्वानादरत्वस्योक्तत्वादिसंवादेऽपि स्तुतिनिर्वाहमाशङ्क्य विदितत्वादित्येतद्भाष्योक्तलौकिकस्तुतिविषयस्वार्थसत्यत्वादर- न्यायेनात्रापि पूर्वपक्षे स्थित्वा तदादरमाह—तत्रेति। ऊगुंदुम्बर इति भाष्यं व्याचष्टे—स्वरूपत इति। ऊक्शब्दाभिधेयमन्नत्वं भवत्पक्षे पक्षधर्मत्वेनाप्रसिद्धम्। तस्य चाप्रसिद्ध्या यूपप्रकृतित्वेनौदुम्बरो यूपो भवतीत्यप्रसिद्धम्। अन्वयाप्रसिद्धिमेवोपपादयति—न हीति। पक्षधर्मत्वसूचितहेतुत्वान्यथानुपपत्तिकल्पितं यद्यदन्नं स स यूप इत्यन्वयवाक्यमङ्गीकृत्यैतदुक्तम्। हेतुत्वाप्रसिद्ध्या साध्याप्रसिद्धिप्रति- पादनार्थं तस्मादिति भाष्यम्। ऊर्गुदुम्बर इत्यनुतवचनादन्यदप्यस्य तत्साध्यं यस्मादूर्गु- दुम्बरः, तस्मात्तन्मयो यूपः कर्त्तव्य इति, तदप्यमृतमिति सुयोजत्वान्न व्याख्यातं विसंवा- दाभिधानस्य प्रकृतोपयोगमाह—तस्मादिति ॥२१॥ भा० प्र०—लौकिक वचन प्रत्यक्ष आदि प्रमाणों से गम्य रहने पर ही उसमें विश्वास किया जाता है। विक्रय योग्य गौ आदि के प्रशंसा-सूचक-वाक्य वक्ता एवं क्रेता को पूर्व से ही विदित रहता है। जाने हुए का ज्ञान निरर्थक है। इसीलिए उसकी प्रशंसा की जाती है। किन्तु वेदवाक्य का वचन अन्य प्रमाण से प्रमाणयुक्त नहीं है अर्थात् गम्य नहीं है और प्रमाणान्तर विरुद्ध होने पर भी प्रमाण नहीं होगा। इस स्थल में उदुम्बर का अन्न-सम्पादकत्व प्रमाणान्तरगम्य नहीं है। इसी प्रकार ऊर्ग्व वा (वै) उदुम्बरः। इस स्थल में 'वै' शब्द के द्वारा उदुम्बर की अन्न के प्रति हेतुता भी जो कही गई है, वह प्रमाणान्तर से गम्य नहीं है। अतः, उसका अब्याहत प्रामाण्य मानने के लिए उसको विधि ही मानना होगा, क्योंकि, विधि ही स्वार्थ में प्रमाण है अर्थवाद स्वार्थ में तात्पर्य- रहित रहता है, इसीलिए, स्वार्थ में प्रमाणविहीन होने से अर्थवाद नहीं हो सकता है।

Page 197Permalink

२२ ] प्रथमाध्याये द्वितीयपादः १४५ 'न'=नहीं । इस प्रकार की आशङ्का या उक्ति सङ्गत नहीं है । 'पूर्वत्वात्' क्योंकि लौकिक उक्ति पूर्वं अर्थात् प्रत्यक्ष आदि अन्य प्रमाणों से अवगत या अवगत होने की योग्यता से सम्पन्न है ॥ २१ ॥ उक्तं तु वाक्यशेषत्वम् ॥ १.२.२२ ॥ शा० भा०—उक्तमस्माभिर्वाक्यशेषत्वं—विधिना त्वेकवाक्यत्वादिति । नतूक्तं—फलवचनमिह गम्यते, न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य यूपस्य । न चाविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् । स्तुतिवचनः शब्दो नास्तीति चेत् ? इह फलवचनेन फलवत्ता प्रतीयते, फलवांश्च प्रशस्त इति । तत्र फलवत्तायामानर्थक्यमिति, यो द्वितीयोऽर्थः प्रशंसा नाम, स गम्यते । लक्षणेति चेत् । लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणाऽपि हि लौकिकी । नतूक्तमसंवादो वेदे, न ह्य ृगुंदुम्बर इति । गुणवादेन परोचनार्थतां ब्रूमहे । गौण- त्वात्संवादः । किं सादृश्यम् । यथाऽन्नं प्रीतेः साधनमेवमिदमपि प्रीतिसाधनशक्ति- युक्तं प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते । शक्यते हि तत्पक्वफलसम्बन्धा- दूर्गिति वक्तुम् ॥ २२ ॥ भा० वि०—यदुक्तं ह्यानर्थकमिति तत्राह—उक्तं तु वाक्यशेषत्वम् । तु शब्दः पक्षव्यावर्तकः, विधिना त्वेकवाक्यत्वादिति सूत्रेणार्थवादानां स्तुतिद्वारक- परोचनया विधिवाक्यशेषत्वस्यास्माभिरुक्तत्वात्, नानर्थक्यमिति सूत्रं योजयति— उक्तमस्माभिरिति । एवं स्तुतिद्वारा विध्यङ्गत्वप्रतिपादनेन अपूर्वत्वहेतोराद्यं व्याख्यानं दूषयित्वेदानीं स्तुतिद्वारविध्यङ्गत्वं युक्तं फलस्य श्रूयमाणत्वादिति व्याख्यान्तरमनुवदति—नतूक्तमिति । गम्यमानमपि फलवचनमानर्थक्यभयादन्य- विषयं वक्तव्यमिति दूषयति—यदिहेति । ततः किमत आह—न चेति । पशु- यागाङ्गतया विहितयूपशेषत्वादौदुम्बरस्य यूपस्य नासावविहितोऽस्तीत्यर्थः । ननु तर्हि विहितस्यौदुम्बरस्य यूपस्योर्गविरोधः फलं भविष्यतीत्यत्राह— तत्रेति । प्रकरणादेव यागोपकारप्रयोजनलाभात् फलान्तरोक्तिरनर्थिकैवेत्यर्थः । यदि वा न चेत्यादेरयमर्थः—औदुम्बरो यूपो भवतीति वर्तमानापदेशत्वादर्थ- वादेन विधिर्नेयः, अनर्थवादत्वे त्वविहितत्वान्नास्त्येव यूपः तथा सति फल- वचनमेवानर्थकमिति । ननु स्तुतिरित्यश्रूयमाणत्वादनादेयेति शङ्कते—स्तुतीति । वाचकशब्दा- भावेऽपि स्तुत्यवगतिं दर्शयन् फलवचनसिद्धमर्थं कथयति—इहेति । फलवत्ता औदुम्बरयूपस्य प्रशस्ता इति प्रतीयत इत्यनुषङ्गः । १०

प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः ।

Page 198Permalink

१४६ मीमांसादर्शनम् [ सू० ननु फलवत्ताप्राशस्त्ययोरवगमे किमिति । प्राशस्त्यपरत्वाग्रहस्तत्राह- तत्रेति । द्वितीयोऽर्थः फलवत्तया लक्ष्यमाणः अवगम्यते=तात्पर्येण प्रतिपाद्यते नाभिनिवेशमात्रात् प्राशस्त्यपरत्वाभ्युपगमः; किन्त्वानर्थक्यभयादिति भावः । नन्वेवमपि लक्षणया स्तुतिर्गम्यते श्रुतिश्च लक्ष्णया गरीयसीत्युक्तमनुवदति- लक्षणयेति । लक्षणयाप्यर्थवत्त्वसम्भवेन श्रुतिलोभादानर्थक्यमाश्रयणीयमिति दूष- यति-लक्षणायामिति । दृष्टा च मुख्यार्थासंभवे गङ्गायां घोष इत्यादौ लक्षणे- त्याह-लक्षणापीति । एवमूर्जोऽवरुध्याः इत्यादेः प्रधानफलानुवादेनौदुम्बरीयूप- स्तुत्यर्थत्वेनाविदितपूर्वत्वं दूषयित्वा, न पूर्वत्वादिति सूत्रात् द्वितीयवर्णकोक्तं वदति-नतूक्तमिति । ऊर्जोवरुध्या इति तावदङ्गे प्रधानगामिफलोपचार श्रुत्यर्थ- त्वेनाभिमतः तेनानुपलब्धिविरोधः पूर्णहुतिन्यायेन परिहृत एवेत्याह-नन्विति । यदुक्तमूर्गुदुम्बर इति हेतुत्वं चाप्रसिद्धमिति, तदपि न, गौणतया तत्सिद्धेरि- त्याह-ऊर्गिति । गुणः । सादृश्यम् । नन्वग्निमाणवकवदन्नयूपयोर्न सादृश्यमिति चोदयति-किमिति । प्रीति- साधनत्वं सादृश्यमित्याह-यथेति । इदमपि=उदुम्बरवस्त्वपि, प्रीतिसाधनत्व- मप्युदुम्बरवृक्षस्याभक्ष्यत्वान्नास्तीत्याशङ्क्याह-तदिति । प्रीतिसाधनोदुम्बर- फलोत्पादनशक्तियुक्तत्वादुपचारात् प्रशंसावाचिना प्रीतिसाधनवाचिनान्नशब्दे- नोच्यते प्रशंसितुमित्यर्थः सोऽयं-विवृतश्शक्यते हीति ॥ २२ ॥ त० वा०-ऊर्गुदुम्बर इत्यादि तावदूर्जोऽवरुद्ध्या इत्यस्योपपत्तितयैकवाक्य- भूतं न विच्छिन्नं स्तावकम् । न ह्यन्नमुदुम्बर इत्युक्ते पुरुषं प्रति प्रशस्तता गम्यते । ऊर्जोऽवरुद्ध्या इति तु प्ररोचयति । तदुपपत्तिरितरेति संगच्छते । तस्मात्कृत्स्नेन फलम्, प्ररोचना वा । तत्र यद्यपि तावल्लिङादिः स्यात् तथाऽपि सुतरामर्थवादतया गृह्णीयात् । किमुत वर्तमानापदेशो यो विधिसिद्ध्यर्थमेव । प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः । प्रकरणं वाक्येन बाध्यत इति चेत् । अविरोधात् । यदि ह्येकांशग्राहित्वेन वाक्य- प्रकरणे संनिपतेताम्, तथा सति बाधः स्यात् । इह तु प्रकरणमौदुम्बरताविधिं गृह्णाति, सोऽप्यूर्गुदुम्बर इत्यादिलभ्यां प्ररोचनाम् । तत्र तद्विशिष्टौदुम्बरत्वग्राहिणः प्रकरणस्य को विरोधः । तस्मात्फलविधिसामर्थ्याभावात्प्रकरणाबाधेन निवेश- सम्भवो नातिक्रमितव्यः । प्ररोचनाऽपि च वाक्यशेषादुपपद्यमाना नार्थापत्त्या विध्युद्देशादेव कल्पिता भविष्यति । अन्यत्र विधिरपि हि तावत्तां कल्पयेत् । इह तु स स्वयमेव दुःखितः किं प्ररोचनया करिष्यतीति । न च स्तुत्युपयुक्तस्य पुनः फलेऽपि प्रतिष्ठादाविव व्यापारो युज्यते । रात्रिसत्राणां ह्यनन्यपरत्वाद् गुर्य्यपि कल्पनाऽश्रीयते । अत्र तु प्रकरणादस्ति प्रयोजनसिद्धिरित्युक्तम् । जाति-

Page 199Permalink

२२ ] प्रथमाध्याये द्वितीयपादः १४७ विशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धम्, न फलार्थता । यूपशब्दोऽपि च कर्मा- विष्टकाष्ठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश्च प्रसिद्धे पारार्थ्येऽर्थवादता । यत्तु यूपे निराकाङ्क्षो जातिं प्रतीति शरवद्बाधो भविष्यति । न चाबाधप्रकारोऽस्ति, काम्यपक्षेऽपि तदभ्युपगमात् । एतावांस्तु विशेषः । तव पुरुषार्थत्वाद्विन्नविषयेण सता कथञ्चित्प्रसङ्गलभ्यसमानाश्रयत्वेन, मम तूभयोः क्रत्वर्थत्वात्समानविषयेणेति । न चात्र जातौ फलाय विधीयमानायां दध्न इव होम आश्रयो मनसि विपरिवर्तते । यो हि पशुयागः प्रकृतः स तावदयोग्यः । पशु- नियोजनं च यूपद्वारेण योग्यं तदपि सह यूपेनाप्रकृतम् । न चानर्थक्यात्तदङ्गेषु इति प्रधानादवतीर्य तदङ्गमाश्रीयते । यो हि प्रधानोपकारित्वेन श्रूयते, स तद- ङ्गेऽपि स्थित उपकरोतीत्येवं कल्प्यते, न त्विह तथा । अत्र हि प्राधान्यांशभाजा गुणेनाश्रयः प्रार्थ्यते । तत्र प्रधानं सन्निहितं तद्यदि न योग्यं ततो वचनव्यक्त्य- न्तरमाश्रीयताम्, न चावतरणं सम्भवति । न चानेनैव वाक्येनाऽश्रयो दीयते वाक्यभेदप्रसङ्गात् । द्वौ हि सम्बन्धौ तदा स्यातां गुणफलसम्बन्धस्तदाश्रयसम्बन्ध- श्चेति । युगपच्चौदुम्बरताफलयूपो प्रत्युपादीयमानोद्दिश्यमाना विरूपा स्यात् । अथोभयोद्देशेन विधीयते, तथाऽपि फलाननुरक्ता यूपेन सम्बध्येत यूपाननुरक्ता च फलेन । यत्तु विनैव विधायकात्स्वेच्छयैव प्रवर्तिष्यामह इति स्वच्छन्देन सह नास्ति विधिवादः । पुरुषार्थफलत्वं तु न प्राग्विधेः सिध्यति सन्निहिततरोदुम्बर- त्वादिसाध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु तस्य शक्तिः । असंयुक्तं प्रकरणादिति (जै. सू. ३.३.४) वक्ष्यति । यदि तु तेन विधीयते, सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्तमानापदेशेन सन्दिग्धम् । तस्माद्वर्त- मानफलाभिधायित्वाच्चतुर्थे चैवं कामशब्दरहितस्य फलविधित्वनिराकरणा- त्प्रधानफलमेवेदं परोचनायै संकीर्त्यत इति युक्तम् । सर्वत्र च स्तुतिपरत्वात्तदु- पायेषु सत्यासत्यान्वेषणं व्यर्थम् । ज्ञानमात्रौपयिकत्वात् । गुणवादेन च संवादात् । साधनत्वेऽपि च प्रीतिसाधनत्वेन, तृप्तिहेतुत्वेन वा संवादः ॥ २२ ॥ न्या० सु०—अत्र भाष्यकृता वाक्यशेषत्वे विध्येकवाक्यत्वं हेतुमनुवदता शेषशब्दः स्तुतिद्वाराङ्गत्वाभिप्रायो व्याख्यातः । तत्रोर्जं पशूनाप्नोतीत्येतदन्तेन स्तुतिसिद्धेरूर्जो ऽवरुद्ध्या इत्यस्य फलपरत्वमविरुद्धमित्याशङ्कयाह - ऊर्गुदुम्बर इति । उभयसम्भवे, तर्हि फलपरतैव कस्मान्नेष्यते अत आह—तत्रेति । यद्यप्यौदुम्बरो यूपो भवेदिति लिङ्गादि स्यात्, तथाप्यूर्गुदुम्बर इत्यादि कृत्स्नवाक्यशेषमर्थवादतयैव गृह्णीयान्न फलपरतयेति सावधारणं द्रष्टव्यम् । लिङादेर्विधायकत्वेनार्थवादापेक्षत्वात्सुतरामित्युक्तम् । फलाकाङ्क्षा- निवृत्तिस्तु प्रकरणात् क्रत्वर्थत्वावगतेः सेत्स्यतीति वक्ष्यमाणोऽभिप्रायः । भवतीति तु वर्त्तमानापदेशो न फलपरतया वाक्यशेषं ग्रहीतुं शक्त इत्याह—किमुतेति । विपूर्वस्य

Page 200Permalink

१४८ मीमांसादर्शनम् [ सू० दधातेः करोत्यर्थवाचित्वादुत्पादनं विधिशब्देनाभिप्रेतम् । तेनायमर्थः-न तावद्यावच्छ्रुतस्य भवतीति वर्त्तमानापदेशस्य फलाकाङ्क्षा, तदन्यथानुपपत्त्या कल्पिते भावनाविधौ सत्यामपि फलाकाङ्क्षायामौदुम्बरत्वस्वरूपोत्पादनार्थं कल्पितस्य लिङादेः तन्मात्रोपमान्न साधनत्व- बोधे व्यापारोऽस्तीति । नन्वौदुम्बरत्वकर्त्तव्यतार्थं कल्पितस्य विधेः फलपर्यन्तत्वानभ्युपगमे फलाभावादव- सादः स्यात् । अत आह—प्रकरणञ्चेति । वैकृतस्याप्यौदुम्बरत्वस्य प्राकृतयूपारूपाख्याङ्ग- सम्बन्धित्वेनोत्पत्तेः पृषदाज्यादिवत्प्रकरणग्रहणाविरोधः, विधिरहितस्य समभिव्याहार- मात्रस्य फलप्रतिपादकत्वमाशङ्क्य वाचकादित्य उक्तम् । अवाचकमितिपाठे नास्तिवाचकं यस्योगंवरोधादिनः फलस्य तदिति बहुव्रीहिः । समभिव्याहारात्मना वाक्येन फलार्थत्वा वगमात् प्रकरणबाधमाशङ्कते – प्रकरणमिति । समभिव्याहारावगतस्य फलार्थत्वस्य वक्ष्य- माणनिराकरणाभिप्रायेण परिहरति—नेति । अवाधमेवोपसंहरति—तस्मादिति । कृत्स्नस्य च वाक्यशेषस्य फलपरत्वे विध्युद्देशस्यैव शक्तिद्वयकल्पनापत्तेर्गौरवं स्यादित्यर्था- न्तरन्यासेनाह—प्ररोचनापि चेति । न च तत्कल्पनं विना विधिपर्यवसानमित्याह— अन्यत्रेति । अत्र तु प्ररोचनाकल्पनमप्यतिकलेशेन निर्वोढव्यम्, विधेरपि कल्प्यत्वादित्याह- इह त्विति । विध्युद्देशातिगौरवपरिहारार्थं तर्हि प्ररोचनापि वाक्यशेषादेव भविष्यतीत्याशङ्क्य, तन्निराकरणार्थं पर्णमय्यधिकरणन्यायमुपन्यस्यति—न चेति । अस्ति प्रयोजनसिद्धिरित्यनेन पारार्थ्यं दर्शितम्, काष्ठविशेषपरिच्छेदकत्वेन चोदुम्बरजातेर्बहादपि पारार्थ्यमवसीयत इत्याह—जातिविशेषस्येति । ऐकान्तिककाष्ठाङ्गतयाऽक्रियारूपत्वेन फलार्थत्वयोग्यता निराकृता सत्यपि काष्ठाङ्गत्वे यूपाङ्गत्वं कथं सिद्धयतीत्यपेक्षायाम्, यूपशब्दोऽपि चेत्याद्युक्तम् । पारार्थ्यसाधनस्योपयोगमाह—अतश्चेति । यत्तु पौनरुक्त्यपरिहारावसरे पारार्थ्याभावान्न प्राकृतखादिरादित्वालाभान्नैराका- ङ्क्ष्यमुक्तम्, तदनुभाष्य दूषयति—यत्त्विति । यथा श्येनेत्यस्य शरमयं बर्हिरिति प्रत्यक्षो- पदिष्टैः शरैरतिदेशप्राप्तानां कुशानां बाधस्तद्वदत्रापीत्यर्थः । बाधप्रसङ्ग एव तर्हि दोषः, अत आह—न चेति । वरं क्रत्वर्थत्वे समानविषयत्वाद् बाधो युक्ततर इत्याह— एतावांस्त्विति । प्रकृताश्रयालाभादप्यत्र गुणफलसम्बन्धो न युक्त इत्याह—न चात्रेति । तमेवोपपादयति—यो हीति । पशुविशेषणयागस्य सौमापौष्णं त्रैतमालभतेति त्रिवर्णपशु- द्रव्यकत्वेनोदुम्बरवृक्षद्रव्यसाध्यत्वायोग्यतोपपादनार्थम् । न चाप्रकृतस्यापि नियोजनस्याति- देशप्राप्तस्याश्रयत्वं शङ्कनीयम् । प्रकृतौ हि प्रत्यक्षोपदिष्टस्य होमप्रणयनादेः पश्चाद्धाना- पेक्षायां पयश्चमसादिवत्फलार्थस्यापि दधिगोदोहनादेराश्रयभूतसाध्यापेक्षादर्शनादुभया- काङ्क्षावशात्साधनत्वमवसीयते । न चैतावताऽङ्गत्वप्रसङ्गः, तादर्थ्येन विधानाभावात् । अत एव गुणकामप्रयोगे प्रासङ्गिकोपकारिणा गोदोहनादिना सिद्धौ चमसादेरनङ्गत्वेन तदभावे वैगुण्याभावादनादरः । विकृतौ त्वखण्डकरणोपकारमुखेन कॢप्तोपकारप्राकृत-

Page 201Permalink

२२ ] प्रथमाध्याये द्वितीयपादः १४९ खादिरत्वादिविशिष्टस्यैव नियोजनस्यातिदेशात्साधनानाकाङ्क्षस्य परार्थे विहितसाधनान्तर- ग्राहकत्वन्न युक्तम् । अन्यतराकाङ्क्षाहेतुकस्य सम्बन्धस्येतराकाङ्क्षोत्थापनपूर्वकत्वाद्विधि- मन्तरेणाकाङ्क्षोत्थापनायोगात् । ननु प्रकृतः पशुयागः साक्षादयोग्योऽप्यङ्गभूतयूपद्वारेणाश्रयो भविष्यत्यत आह— न चेति । एवं कल्प्यत इति प्रधानादवतीर्य तदङ्गाश्रयत्वेन कल्प्यत इत्यर्थः । वचनव्यक्त्य- न्तरमित्यौदुम्बरत्वेनोर्गवरोधं भावयेदितिवचनव्यक्त्यपेक्षयौदुम्बरत्वेन यूपं भावयेदित्यभि- प्रेतम् । न चावतरणमिति अचोदकाश्च संस्काराः (जै० सू० २-२-१८) इति वक्तुशब्दार्थे चशब्दः । न त्ववतरणं सम्भवतीत्यर्थः । यद्वा तेनाभ्युपगम्यावतरणं होमसाधनत्वेन साक्षादङ्गभूतायां जुह्वां सम्भवद्यूपे न सम्भवतीत्युच्यते । अस्मिन्व्याख्याने सम्मतं यूपे यदवतरणम्, तन्न सम्भवति-न सिध्यतीति सम्मतवचनः सम्भवशब्दः । अनेकार्थत्वान्निपातनोपसर्गाणां सम्यगर्थस्य वा संशब्दस्य लक्षणयात्र सम्मतवचनत्वमेष्टव्यम् । यूपानवतरणे च यूपशब्दानर्थक्यप्रसङ्गो दोषः । ननु प्रकृताश्रयालाभेऽपि वाक्येनाश्रयलाभो भविष्यत्यत आह—न चानेनैवेति । न केवलमनेकार्थविधिलक्षणो वाक्यभेदः, किं तु वैरूप्यलक्षणोऽपीत्याह—युगपच्चेति । यूपस्याश्रयभूतस्यौदुम्बरतोपकारित्वेन गुणभूततयोपादेयत्वात्तं प्रत्युदुम्बरताया उद्देश्यत्वा- दिति भावः । नन्वाश्रयस्यापि साध्यत्वेन प्रधानतयोद्देश्यत्वाद्वैरूप्यं स्यादत आह—अथेति । एवं सत्युद्देश्ययोः फलयूपयोर्गुणभूतौदुम्बरतावशीकाराभावेनान्योन्यनियमायोगादाश्रयाला- भस्तदवस्थ एवेति भावः । प्रत्युद्देश्यं वाक्यसमाप्तेर्वाक्यभेदोऽपि चशब्देन सूचितः । एवं पर्णमयीन्यायेन स्तुत्युपयुक्तस्य परावृत्त्य फलपरत्वायोगादूर्गुदुम्बर इत्यादेः फलपरत्वे प्ररोचनार्थत्वाभावाद्विध्युद्देशातिगौरवमपरिहार्यमिति प्रकृतोपयोगः । ननु समभिव्याहारादेव फलसाधनत्वावगतौ सत्यां विधिमन्तरेणेच्छयैव प्रवृत्तेर्न प्ररोचनया कार्यमत आह—यत्त्विति । साधनत्वप्रतिपत्तौ विधिव्यापारानभ्युपगमे भावना- या भाव्यापेक्षायामप्यौदुम्बरो भवतीत्यौदुम्बरत्वस्यैव भवनकर्तृत्वेन सन्निधावुपात्तस्य साध्यांशे निवेशापत्तेरूर्जोऽवरुध्या इति चतुर्थी व्यवधावुदात्तस्याप्यूर्गवरोधस्य तदवरुद्धायां भावनायां निवेशायोगद्यूूपविशेषणत्वापत्तेरपुरुषार्थोपयिकत्वान्नोदुम्बरत्वमावनायां बुद्धिपूर्व- कारी कश्चित्प्रवर्त्तेतेत्यर्थः । नन्वौदुम्बरो यूपो भवतीत्युत्पत्तिविधेः फलसाधनत्वबोधे व्यापाराभावादप्रसक्तत्वेऽपि प्रयोगवचनात्प्रवृत्तिः सेत्स्यतीत्युक्तम्, अत आह—यत्त्विति । संयोगपृथक्त्वभावात्पुरुषार्थत्वे सति क्रत्वर्थत्वायोगादिति भावः । पञ्चमलकारत्वस्य चाडागमादिचिह्नाभावेनानिश्चया- त्कल्पस्योत्पत्तिविधेर्विनियोगवत्प्रयोगेऽपि व्यापारो न युक्त इत्याह — पञ्चमेति । फलसङ्की- र्त्तनस्यालम्बनं दर्शयन् सिद्धान्तमुपसंहरति—तस्मादिति । एतदधिकरणव्युत्पाद्यं विधि-

Page 202Permalink

१५० मीमांसादर्शनम् [ सू० रहितस्य श्रेयःसाधनत्वबोधासामर्थ्यं तस्माच्छब्देन परामृष्टं फलाभावसूत्रोक्तानुपलब्धि- विरोधो वर्त्तमानफलाभिधायित्वादित्यनेन । चतुर्थे चेति प्रस्तुतसाधनांशनिराकरणहेतुत्वेन साध्यांशनिराकरणं वक्ष्यमाणमुक्तं सर्वेभ्यो दर्शपूर्णमासावित्यादौ चतुर्थ्या फलसमर्पकतद्वाभ्यु- पगमात्समाभिव्याहारमात्रस्य फलसपंकत्वनिराकरणपरमेवं कामशब्दरहितस्येति व्याख्ये- यम् । प्रधानफलमेवेदमित्यनेन फलकीर्त्तनालम्बनं दर्शितम् । सौमा पौष्णं त्रैतमालभेत पशुकाम इति पशूनामदनीयत्वेनोर्क शब्दवाच्यन्न रूपाणां प्रधानफलत्वादङ्गे पूर्णाहुतिवदुपचारः । न पूर्वत्वादिति सूत्रं द्वितीयवर्णकोक्तस्य विसम्वाद- स्यानुभाषणं पूर्वं निराकरणार्थम् । ननूक्तमित्यादिभाष्यं व्याचष्टे-सर्वत्र चेति । गुणवादेनेति गुणशब्देन फलसङ्कीर्त्तने सम्वादाभिधाने तावदङ्गे प्रधानगामिनि तत्फलोपचारोऽभिमतः । पूर्णाहुतिन्यायेनोक्तप्रायत्वान्नहेह भाष्यकृतोक्तः । पक्षधर्म्मान्वयकीर्त्तनसम्वादाभिधाने त्वग्निमाणवकवत्साहृश्यं गुणशब्देनाभिप्रेतम् । तत्र किं सादृश्यमित्यादिप्रश्नपूर्वकं सादृश्य- प्रतिपादनार्थं भाष्यं व्याचष्टे-- साधनत्वेऽपि चेति । साधनशब्देन हेतुत्वमुक्तम् । अन्नगतेन प्रीतिसाधनत्वेन तद्विशेषतृप्तिसाधनत्वेन वा गुणेनोदुम्बरेऽन्नशब्दाभिधेयत्वसम्भवात्साधनेऽपि सम्वाद इत्यर्थः । प्रीतिसाधनत्वमप्योदुम्बरवृक्षस्याभक्ष्यत्वा न्नास्तीत्याशङ्क्य प्रीतिसाधनौ- दुम्बरफलोत्पादनशक्तियुक्तं वृक्षं प्रशंसितुमुपचारात्प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते इत्युक्तम् । अनेन च नात्र यद्यदन्नम्, स स यूप इत्यन्वयवाक्यं कल्प्यते किं तु यद्यदन्नम्, तत्तत्प्रशस्तमित्येवम्, तच्च प्रसिद्धमेवेति सूचितम् ॥ २२ ॥ भा० प्र०—विधि के साथ एकवाक्यता सम्पन्न होकर ही विधेय विषय की प्रशंसा के द्वारा अर्थवाद सार्थक होता है—यह पूर्व में ही कहा गया है । इस स्थल में भी यही स्थिति है । ‘उर्कं उदम्बरः’ यह अंश अर्थवाद है । अवशिष्ट अंश इस अर्थवाद की ही उपपत्ति अर्थात् युक्ति है । ‘उर्कं उदुम्बरः’ यह उक्ति भी गुणवाद होने से सभी वाक्य लक्षणा के बल से उदुम्बरत्वविधि की स्थापक है । पूर्वपक्षी का यह कथन कि अन्न सम्पादन उदुम्बरत्व रूप गुण का फल है—यह कथन ठीक नहीं है, क्योंकि, क्रिया के बिना केवल गुण फलवान् नहीं हो सकता है । प्रकृत में कोई ऐसी विधि भी नहीं है, अन्न जिसका फल होगा । ‘उदुम्बरो यूपो भवति’ इसको विधि नहीं कहा सकता है, क्योंकि, इसमें लिङ् आदि विधि विभक्ति नहीं है । विधि की कल्पना करने पर अर्थवाद के द्वारा ही विधि की कल्पना होने से इस वाक्य को अर्थवाद मानना ही होगा । इस स्थल में प्रकरणवश उदुम्बरता विधि है और उसमें अर्थवाद अन्वित होता है । उक्तं=कथित होता है । ‘तु’=किन्तु । पूर्वपक्ष के निराश के लिए “विधिशेषत्वम्”= विधिशेषत्व । अर्थवाद विधिवाक्य का शेष या अङ्ग है एवं विधिवाक्यों की स्तुति के द्वारा ही वे सार्थक होते हैं, यह कहा गया है ॥ २२ ॥

Page 203Permalink

२३६] प्रथमाध्याये द्वितीयपादः १५१ विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् ॥१. २. २३॥ शा० भा०-अप्सुयोनिर्वा अश्वो अप्सुजो वेतसः (तै. सं. ५।३।१२) इति अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्त्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्प- यितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च सम्बन्धो यजमानस्य कष्टं शमय- तीति । तत्सामान्यादितरेषु तथात्वम् । तथेतियावत् तावत्तथात्वमिति । किं तत्सामान्यम् । विध्यसम्भवः, स्तुतिसम्भवश्च ॥ २३ ॥ भा० वि०-सम्भद्विध्येकवाक्यत्वानामपि पृथग्विधित्वमभ्युपगमे तुल्यन्या- यतयान्यत्रापि प्राप्तिमभिप्रेत्याह-विधिश्चेति । क्वचिदित्युक्तं विषयं दर्शयन् विधिश्चेति व्याचष्टे-अप्सित्वत्यादिना । अश्वस्य प्रयत्ननिष्पाद्यत्वात् तद्विधेर- शक्यत्वं वेतसादेस्तु स्वभावसिद्धत्वादिति मन्तव्यम् । तथा किमित्याशङ्क्य तस्मादित्यादि व्याचष्टे-तत्रेति । आनर्थक्यमेवास्त्वित्याशङ्क्य तन्निरासाया- वश्यमित्युक्तम् । स्तुतिमभिनयति-शमयित्रीभिरिति । अवकानां चेति चशब्दो वेतसविषयः, तेनैवमन्वयः अश्वस्य वेतसानां च शमयित्रीभिरद्भिः सम्बन्धो यजमानस्य कष्टं शमयत्यवकानां वेतसानां च ताभिस्सम्बन्धो यजमानकष्टं शमय- तीति स्तुतिः कल्पयितव्येति । यद्यप्यवकानां नोदाहरणे श्रवणमस्ति, तथाप्य- ब्योनित्वाविशेषाद्वेतसपदेनैव उपलक्षिताः । न च स्व एवैनं योनौ प्रतिष्ठापयती- त्यनेनाप्सु जाते वेतसेऽश्वस्य चयने कृते प्रकृतिविकारयोरभेदोपचारेण वेतस- प्रकृतिभूतास्वप्सु चयनात् स्वेयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिप्रतीयते । शमयित्रीत्वस्य चापामश्रवणात् कथं तद्द्वारा स्तुतिरिति वाच्यम्, स्वयोनि- प्रतिष्ठापनमात्रोक्त्या परोचनानुपपत्तेः 'वेतसशाखया वल्काभिश्चाग्निं विकर्षति' आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति' इति वाक्यान्तरगतार्थवाद- भणितशमयित्रीत्वस्य यजमानकष्टशमनसाधनत्वोपपादनार्थत्वेनोपादानात् । न च वेतसवाक्येन सहचारादुपलक्षितानामप्यवकानामविधेयत्वान्न स्तुत्यपेक्षेति वेदि- तव्यम् अत्रार्थवादान्तरेणापां शमयितृत्वे गदिते तत्राग्निविकर्षणसाधनत्वेन विहितयोः वेतसावकयोः स्तुत्यभावशङ्कानिरासायावकानाम् अद्भिरस्सम्बन्धेन स्तुतिप्रदर्शनोपपत्तेरिति द्रष्टव्यम् । तत्सामान्यादित्यादिसूत्रावयवमादाय व्याचष्टे- तथेति । यावत्सु फलविधि- सरूपेषु अर्थवादेषु तथेति अप्सु योन्याद्यर्थवादसमानाकारता तावत्सु तथात्वं स्तुतित्वमित्यर्थः प्रश्नपूर्वकं तत्सामान्यादिति व्याकुर्वन् तथेत्युक्तं प्रपञ्चयति- किमित्यादिना ॥ २३ ॥

Page 204Permalink

१५२ मीमांसादर्शनम् [ सू० त० वा०—यदि चैवंजातीयका विधयो भवेयुः, ततः पूर्वोदाहृताः सर्व एव द्रव्यगुणक्रिया विधयो भवेयुः । वायुः क्षेपिष्ठा देवता कर्तव्याः, अप्सुयोनिरश्वः कर्तव्यः, अप्सुजो वेतसोऽवकाश्च कर्तव्यः, आपः शान्ताः ऊर्गुदुम्बर इत्यादि । तत्र यद्यपि के चित्क्रियादिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः स्वभावसिद्धेः प्रयत्नेनापि चानिष्पत्तेः वायुवेतसावकादिषु स्वभावसिद्धिः । अश्वादुम्बरादीनाम- शक्यता । कीदृशी स्तुतिस्तां दर्शयति—शमयित्रीभिरद्भिरित्यादि । तत्रासंगतो ग्रन्थ इति व्याख्यातारः समर्थयन्ते । यस्मादिहावकातत्सम्बन्धयोः शमयितृत्वस्य च नैवोपन्यासः कृतो वेतस उपन्यस्तः सोऽपि स्तुतिवेलायां न प्रदर्शित इति । तत्र त्वियं गमनिका । वेतसोदाहरणेनैव तुल्यत्वादवकादीन्यप्यु- दाहृतानि । न चायमश्वावकयोः परस्परेण सम्बन्धः कथ्यते । केन तर्हि ? अद्भिः । तावता तु न स्तुतिः काचिदुन्मीलितेत्यर्थवादान्तरापेक्षाप्रवृत्तां तां दर्शयति—आपो वै शान्ता (तै० सं० ५.२.४) इति । अनेन हि विधित्वात्प्रच्युते- नापां प्राशस्त्यमुच्यते । तत्र कस्यचित्प्रसिद्धाप्सम्बन्धस्य तन्मात्रसंकीर्तनादेव स्तुतिर्भवति । अन्येषां तु सम्बन्धिसम्बन्धात्सम्बन्धः कीर्त्यते । प्रसिद्धशान्तत्व- सम्बन्धाभिरद्भिः सम्बन्धादश्वादिरपि शान्तात्मकस्तत्सम्बद्धेन च कर्मणा यज- मानस्य कष्टं शाम्यतीत्येवंविधप्राशस्त्यज्ञापनार्थम् । एवं क्षिप्रदैवतेन शीघ्रं फलप्राप्तिरन्नमयेन च यूपेनान्नप्राप्तिरिति स्तुतित्वे सिद्धे तत्समानन्यायानामप्येव- मात्मकत्वम् ॥ २३ ॥ न्या० सु०—अत्र भाष्यकृतऽप्सु योनिर्वा अश्व इत्यादीनामानर्थक्यापत्तेर्विधित्वं न सम्भवतीत्युक्तम् । तदयुक्तम् । फलविधिसरूपाणामेव पूर्वपक्षिणा विधित्वस्योक्तत्वादित्या- शङ्कयाह—यदि चेति । विध्यन्तरैकवाक्यभूतानामपि विधिपरत्वाङ्गीकारे तुल्यन्याया- त्सर्वत्राप्यापाद्य दूषणमुच्यत इत्यर्थः । सर्वग्रहणं वायुक्षेपिष्ठादीनामपि तर्हि कस्मान्न विधित्व- मापद्यत इत्याशङ्कानिवृत्त्यर्थं क्वचिद्ग्रहणम् । तर्हि सूत्रे किम् ? अत आह—तत्रेति । के- चिदिति । निवीतं मनुष्याणामित्यादय इत्यर्थः । शमयित्रीभिरित्यादिभाष्यं स्तुतिरूपप्रदर्श- नार्थत्वेन व्याचष्टे—कीदृशीति । आक्षिपति—तत्रेति । अग्रन्थः प्रतिभातीति मत्वा समर्थ- यन्तऽत्यर्थः । अग्रन्थत्वमेव वा समर्थयन्त इति । स्वयं समर्थयते—तत्र त्वियमिति । पूर्वव्याख्यायां समर्थनं दर्शयतीत्यवतारणीयम् । तत्रावकाशमयित्रीत्वानुपन्यासं तावत्प्रत्याचष्टे—वेतसेति । अश्वावकयोः सम्बन्धस्य तु भाष्यकारेणाकथितत्वादनुपन्यासो न दोषायेत्याह—न चायमिति । इह च वैतसे कटे अश्वं चिनोति, अप्सुयोनिर्वा अश्वोऽप्सुजो वेतसः स वैनं योनौ प्रतिष्ठापयतीत्येतावकानामह्निः सम्बन्धाश्रवणेऽपि, वेतसशाखयावकाभिश्चाग्निं विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीत्यत्र वेतसवत्तासामप्यद्भिः सम्बन्धस्य स्तुतिसिद्धयर्थं वाच्यत्वादप्सुजो वेतस इति अप्सुजत्वाभिधानमवकानाम्प्सुजार्थसाहचर्यादुपलक्षणमित्यभिप्रेत्यावकाग्रहणम् ।

Page 205Permalink

२३ ] प्रथमाध्याये द्वितीयपादः १५३ ननु वेतसग्रहणेनोपलक्षितत्वादवकानामग्निविकर्षणसाधनत्वेन विहितानां स्तुत्यर्थं भवतु नाम भाष्येऽद्भिः सम्बन्धकथनम्, शमयित्रीत्वविशेषणत्वमपां किमर्थम् अत आह— तावता त्विति । यद्यपि स एवैनं योनौ प्रतिष्ठापयति इत्यप्सुजे वेतसेऽश्वचयने कृते प्रकृति- विकारयोरभेदोपचारेण वेतसप्रकृतिभूतास्वप्सु चयनात्स्वयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिः प्रतीयते, तथापि स्वयोनिप्रतिष्ठापनमात्रेण परोचनाऽनुपपत्तेर्वैतसशाख्यावकाभि- श्चाग्निं विकर्षति, आपो वै शान्ताः, शान्ताभिरेवास्य शुचं शमयतीति वाक्यान्तरगतार्थ- वादाभिहितमपां शमयित्रीत्वं यजमानकष्टशमनसाधनत्वोपपादनाथं भाष्यकृतोक्तम् । अवकानां त्वप्सुजो वेतस इत्यनेन सहचरणलक्षणयाऽद्भिः सम्बन्धनाभिधानेऽपि अत्राविधानादनपेक्षित- स्तुत्यप्रतीतेर्वाक्यान्तरगतार्थवादेनापां शमयित्रीत्वेऽभिहितेऽप्यग्निविकर्षणसाधनत्वेन विहि- तयोर्वैतसावकयोः स्तुत्यप्रतीतेस्तत्प्रशंसोपपादनार्थमद्भिः सम्बन्धो भाष्यकृता कथितः । अर्थवादान्तरापेक्षाप्रवृत्तानामित्यश्वविषयेऽर्थवादान्तरस्यापेक्षया प्रवृत्तानामिति षष्ठीसमासग- र्भस्तृतीयासमासः । अवकाविषये त्वर्थवादान्तरेणेति तृतीयासमासगर्भः । अर्थवादान्तरमुदाहरति-आप इति । कथमस्यार्थवादान्तरस्याप्सुयोनिर्वा अश्व इत्यनेनापेक्षा, कथञ्चानेनार्थवादान्तरेणाप्सुजो वेतस इत्यस्यापेक्षा इत्याशङ्क्याह- अनेन हीति । अश्ववेतसामिजनभूतानामपां शमयित्रीत्वेन प्राशस्त्याभिधानेन तदभिजातयोरश्व- वेतसयोः प्राशस्त्यावगमात् तदर्थमपेक्षेत्यश्वविषये अर्थः । अवकाविषये त्वविधेयानामपां शमयित्रीत्वेन प्राशस्त्यमुच्यते, न विधेययोर्वैतसावकयोरिति तत्प्राशस्त्यावगमायाऽप्सुजत्वा- भिधानापेक्षेति व्याख्येयम् । कीदृशीं स्तुतिं दर्शयतीत्यपेक्षायामाह- तत्रेति । कस्यचित्प्र- सिद्धाप्सम्बन्धस्य वेतसावकस्याप्सुजो वेतस इत्यप्सम्बन्धमात्रकीर्त्तनादेवापो वै शान्ता इत्यर्थवादप्रतिपाद्या स्तुतिः सिद्ध्यति । अन्येषां त्वप्रसिद्धाप्सम्बन्धानामनश्वादीनां वस्तुतोऽ- सन्नप्यप्सम्बन्धः प्राशस्त्यज्ञानार्थं कीर्त्यते । कीदृशं प्राशस्त्यमित्यपेक्षिते प्रसिद्धेत्याद्युक्तम् । प्रसिद्धः शान्तत्वेन सह सम्बन्धो यासामपां तास्तथोक्ता इति व्याख्येयम् । भाष्यमेवं योज्यम् । अश्वस्यावकानां चेति चकारेणं वेतसग्रहणम् । तत्राश्वविषये अश्वस्य वेतसस्य च शमयित्रीभिरद्भिश्चशान्ताभिरेवास्य शुचं शमयतीति सहयोगतृतीयान्त- पदनिर्दिष्टामिः सह सम्बन्धोऽस्य शब्दनिर्दिष्टस्य यजमानस्य शुकशब्दवाच्यं कष्टं शमय- तीत्यर्थः । अवकाविषयत्वेऽवकानां वेतसस्य चाद्भिः सम्बन्ध इत्यर्थः । स्वयमुदाहृतेष्वर्थवादान्तरेषु स्तुतिस्वरूपमाह-एवमिति । तत्सामान्यादिति सूत्रा- वयवव्याख्यानार्थं तथोतभाष्यं व्याचष्टे-इति स्तुतित्वे इति । अनेन यावत्स्वर्थवादेषु अप्सु योन्याद्यर्थवादसमानप्रकारत्वम्, तावत्सु स्तुतित्वमिति व्याख्यातम् ॥ २३ ॥ भा० प्र०-पूर्वपक्षी के कथन का अभिप्राय यह है कि स्वतन्त्र रूप में अर्थवाद प्रमाण नहीं हो सकते हैं, उनके प्रमाण्य की स्थापना के लिए ही वाक्यार्थ में लक्षणा मानकर विधिवाक्य के साथ एक वाक्यता माननी पड़ती है । किन्तु, अर्थवाद को विधि के अर्थ

प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं

Page 206Permalink

१५४ मीमांसादर्शनम् [ सू० ० का प्रकाशक मानने पर इस प्रकार की क्लिष्ट अर्थ की कल्पना करने की आवश्यकता नहीं है, इसके समाधान में सिद्धान्ती का कथन है कि सर्वत्र अर्थवाद को विध्यर्थक मानने पर प्रदर्शित सिद्धान्त की स्थापना हो सकती है। किन्तु, अर्थवाद वाक्य को विधिरूप में परिणत नहीं किया जाता है। अनेक स्थलों में विधिरूप में अर्थवाद को परिणत करने पर विभिन्न दोषों की आपत्ति होती है। किन्तु, अर्थवाद को विधिवाक्य के स्तावक के रूप में अन्वित करने पर किसी प्रकार के दोष की आपत्ति नहीं होती है और एक ही तरह के नियम को मानने से काम चल जाता है। इसलिए, विधि के स्तावक रूप में ही अन्वय स्वीकार अर्थवाद का प्रामाण्य प्रदर्शन उचित है। अर्थवाद को विधिरूप में परिणत करने पर "अप्सु योनिर्वा अश्वः अप्सु योनिर्वैतसः" (तै० सं० ५।३।१२) इस स्थल मे अश्व को जल से उत्पन्न एवं वेतस को जल से उत्पन्न नहीं कहा जा सकता है, अतः, ये अर्थवाद विधि नहीं हो सकते हैं। "वायुर्वै क्षेपिष्ठा देवता" इस अर्थवाद को विधि के रूप में परिणत नहीं किया जा सकता है, क्योंकि, शीघ्रगामित्व वायु का स्वभाव है। इसी प्रकार "स्तेनं मनः अनृतवादिनी वाक्"। इस अर्थवाद को विधि मानने पर स्तेय एवं अनृत भाषण कर्तव्य है यह विरुद्ध अर्थ सिद्ध होगा। इसी तरह 'ऊर्ग॒ वा उद॒म्बरः' इत्यादि अर्थवाद को विधिरूप में परिणत करने पर उपस्थित दोषों का इस अधिकरण के सूत्रों की व्याख्या में प्रदर्शित किया है। विधि के स्तावक रूप में अर्थवादों का अन्वय मानने पर लक्षणा छोड़कर दूसरा उपाय भी नहीं है और एक रूपता नहीं हो सकती है। अतः, जिस स्थल में अर्थवाद की ज्ञाप्य फल या स्तुति अनर्थक है; उस स्थल में अर्थवाद को विधिरूप में परिणत नहीं किया जा सकता है। "प्रति तिष्ठन्ति ह वा य एता रात्रीरुपयन्ति" इत्यादि अर्थवाद ही इसका उदाहरण है। जै० सू० ४।३।१७-१९ में इसका विश्लेषण प्रस्तुत किया है। 'विधिः' = विधि, 'च' = और, 'अनर्थकः' अनर्थक (है), 'क्वचित्' = किसी स्थल में, 'तस्मात्' = इस कारण से। 'स्तुतिः - प्रशंसा के रूप में अर्थवाद, 'प्रतीयते' = प्रतीत होता है, "तत्सामान्यात्" = उसके समान "इतरेषु" = अन्य स्थलों में भी, तथात्वम्' = वैसा, प्रशंसात्मक अर्थवाद होगा। क्योंकि, किसी किसी स्थल में अर्थवाद को विधि मानने पर वह विफल होगा, इसलिए अर्थवाद को स्तुतिपरक मानना उचित है। अतः, उसी के समान अन्य स्थलों में भी अर्थवाद को विधि मानना उचित नहीं है, वरन् स्तुति के रूप में ही अर्थवाद को मानना उचित है ॥ २३ ॥ प्रकरणे सम्भवन्नपकर्षो न कल्प्येत विध्यानर्थक्यं हि तं प्रति ॥ १.२.२४ ॥ शा० भा०—इतश्च पश्यामः स्तुतिरिति । कुतः ? इदं समामनन्ति यो विदग्धः स नैर्ऋतो, योऽशृतः, स रौद्रो, यः शृतः, स दैवतः, तस्मादविदहता

प्रकरणं बाध्यते । न चाबाधसम्भवे तद्युक्तम् अतोऽर्थवादत्वादनपकर्ष इति ॥ २४ ॥

Page 207Permalink

२४ ] प्रथमाध्याये द्वितीयपादः १५५ श्रपयितव्यः, स दैवत्तत्वायैति (तै०सं०२।६।३) इति । यदि स्तुतिर्दर्शपूर्णमासयोरेव शृतः स्ताविष्यते । तथा सम्भवन्नपकर्षो न कल्प्येत । अपकृष्यते इत्यपकर्षः । विधिपक्षे तु यत्र नैर्ऋतः, तत्र विदग्धता नीयेत । तथा सति प्रकरणं बाधितं भवेत् । दर्शपूर्णमासकर्म प्रति नैर्ऋताभावाद् विदग्धविधानमनर्थकं स्यात् । तस्मात्स्तुतिरेव ॥ २४ ॥ भा० वि०---फलविधिसरूपाणामर्थवादत्वे हेत्वन्तरं दर्शयितुं प्रकरणे चेति सूत्रम् । तत्र चशब्दार्थमाह--इतश्चेति । न केवलमप्सु योन्त्याद्यर्थवादसामान्यादि- तरेषां स्तुतित्वं वाक्यान्तरसामान्यादपीत्यर्थः । किं तद्वाक्यान्तरमिति मन्वानः पृच्छति---कुत इति । वाक्यमुदाहरति--इदमिति । कथमस्य वाक्यस्य स्तुतित्वं येन तत्सामान्यादितरेषु तथात्वं स्यादित्याशङ्क्य प्रकरणे च सम्भवन्निति व्याचष्टे--यदीति । शृतः पुरोडाशादिः स्ताविष्यते, स्तुतो भविष्यति प्रकरण- निवेशाय स्तुतित्वाश्रयणं युक्तमिति भावः । ननु माभून्निवेशः पूषानुमन्त्रणमन्त्रवदुत्कृष्यतामत आह--तथेति । प्रकरण- विनिवेशितया सम्भवन्नित्यर्थः, नन्वयमपकृष्यमाणः कल्प्यतेऽर्थवादः नापकर्षस्त- त्राह--अपकृष्यत इति । ननु विधित्वेऽप्यनपकृष्यमाणोऽस्त्वित्याशङ्क्य, तत्र किं यथाश्रुतैव वचन- व्यक्तिः यो विशेषेण दग्धः स निर्ऋतिदेवताकः कार्य इति, किं वा यो नैर्ऋतस्स विशेषेण दह्य इति व्यत्ययेन । तत्राद्ये कल्पेऽनेन दर्शपूर्णमासप्रकरणगतेन विध्यु- द्देशेन देवतान्तरविधानात् उत्पत्तिवाक्यशिष्टाग्न्यादिदेवतापकर्षणं स्यात्, तच्च सम्भवत्प्रसजदपकर्षणं सति गत्यन्तरे न कल्पनीयमिति सूत्रयोजनया दूषणं वक्तव्यमिति मत्वा द्वितीये दोषमाह--विधीति । नयने दोषमाह - तथेति । ननु किमिति नीयते येन प्रकरणाम्नानविरोध इत्याशङ्क्य विधानार्थक्य- मित्यादि सूत्रावयवं व्याचष्टे--दर्शेति । सूत्रे तमिति प्रकरणिनोऽर्थस्थस्य परा- मर्शः दर्शपूर्णमांसयोर्निर्ऋतिदेवताभावात्नैर्ऋतानुवादेन विदग्धताविधानमनर्थक- मित्यर्थः, तेन प्रकरणे निवेशाय विदग्धवाक्यस्य स्तुतित्वे फलविधिसरूपाणा- मपि तथैव स्तुतित्वमिति मत्वोपसंहरति--तस्मादिति ॥ २४ ॥ त० वा०-विधिपक्षे चायमपरो दोषो यदि तावद्यथावस्थितवाक्यग्रहणं ततः प्रकरणगतविदग्धोद्देशेन देवतान्तरविधानादुत्पत्तिवाक्यशिष्टदेवतापकर्षणं स्यात्, इयं वा तामप्यपकर्षतीत्यपकर्षः । तत्र नैमित्तिकत्वादभ्युदितेष्टिवद्वाधोऽपि कल्प्येत, यदन्यथा न सम्भवेत्, सति तु सम्भवे न युक्तमेतत् । अथैतद्दोषभीतेरर्थं- लभ्यवचनव्यक्त्यन्तरं व्यवहितकल्पनयाऽऽश्रीयेत यो नैर्ऋतः स विदग्धः कर्तव्य इति । ततः प्रकरणे नैर्ऋताभावाद्यत्रासौ विहितस्तत्र विदग्धता नीयेत । तत्र प्रकरणं बाध्यते । न चाबाधसम्भवे तद्युक्तम् अतोऽर्थवादत्वादनपकर्ष इति ॥ २४ ॥

Page 208Permalink

१५६ मीमांसादर्शनम् [ सू० न्या० सु०—सूत्रतात्पर्यमाह—विधिपक्षे चेति । स्वयं यथाश्रुतवचनव्यक्तिपक्षे सूत्रं योजयति—यदीति । अपकर्षं स्यादित्यर्थकथनमात्रम् । व्युत्पत्तिस्तु यथाभाष्यं कर्म्मण्येव । यद्धेयमन्यां देवतामुत्पत्तिशिष्टामपकर्षंतीति कर्तृव्युत्पन्नोऽपकर्षशब्द इत्याह—इयं वेति । ननु विदाहादेर्निमित्तकत्वेन निर्ऋत्यादेर्देवतान्तरस्य नित्याग्न्यादिदेवताबाधकत्वं युक्तमेवेत्याशङ्कानिराकरणार्थत्वेन प्रकरणे च सम्भवादिति सूत्रावयवं व्याचष्टे—तत्रेति । अभ्युदितेष्टिवदिति । यदाऽमावास्याभ्रान्त्या चतुर्दश्यामन्वाधानं क्रियते, तदामावा- स्यायामुपसि तन्त्रप्रक्रमविधानात्प्रक्रान्ते तन्त्रे चन्द्रोदये सति 'यस्य हविर्निरुप्तं पुरस्ता- च्चन्द्रमा अभ्युदेति' स त्रेधा तण्डुलान्विभजेद्ये मध्यमाः, तानग्नये दात्रे पुरोडाशमष्टाक- पालन्निर्वपेत्, ये स्थविष्ठास्तानिन्द्राय प्रदात्रे दध्नंश्चरुं, येऽणिष्ठास्तान्विष्णवे शिपिविष्टाय श्रुते चरुमिति । तण्डुलग्रहणोपलक्षितानां सर्वेषामोषधि-दधिपयसां प्राकृतानां हविषां प्राकृताभ्यो देवताभ्यो विभजेदित्यनेनापनये विहिते, तस्मिन्नेव प्रक्रान्तेऽसमाप्ते कर्मणि मध्यमादिवाक्यैर्दात्रादिदेवतान्तरविधिरिति पक्षे वक्ष्यते । साभ्युदयेष्टिः । अभ्युदितश्चन्द्रमा यस्यामिष्टौ साभ्युदितेष्टिरिति व्युत्पाद्याऽमावास्येष्टिरेवोच्यते । यद्यपि विभजेदित्यपन- यनविधिना तत्र प्रकृतिगताग्न्यादिदेवताबाधो न देवतान्तरविधिना, तथापि नित्यदेवता- दिबाधेन नैमित्तिकदेवतान्तरविधिसाम्यात् दृष्टान्तता । भाष्यकृता तु यत्र नैर्ऋतः, तत्र विदग्धता नीयेतेति वदता यत्तदोर्व्यत्ययः कृतस्त- त्स्वाभिप्रायं व्याचष्टे—अथेति । विध्यानर्थक्यं हीति सूत्रावयवव्याख्यानार्थं दर्शपूर्णमास- कर्मेतिभाष्यं स्पष्टत्वान्न व्याख्यातम् । सूत्रं चैवं पूर्वसूत्राद्विधिः क्वचिदितिपदद्वयमनु- कृष्य यथाभाष्यं योज्यम् । विधिः सन् क्वचिद्दिग्धादावप्रकर्षः कल्प्येत । न चैतद्युक्तम् । कस्मान्न युक्तमित्यपेक्षिते, प्रकरणे च सम्भवादिति हेतुगर्भं विशेषणम् । विध्यानर्थक्यं हि तं कर्मशेषं प्रतीत्यपकर्षकारणमुक्तम् । यथावार्त्तिकं तु कर्तृव्युत्पत्तिपक्षे क्वचिन्नैर्ऋता- दावपकर्षः कल्प्येत विध्यानर्थक्यं हि तमाग्नेयादिपुरोडाशं प्रतीत्येतावान्विशेषः । कर्म्म- व्युत्पत्तौ त्वग्न्यादिरुत्पत्तिशिष्टेऽपकृष्टः कल्प्येत निर्ऋत्यादिविध्यानर्थक्यं हि तमनपकृष्टः स्वदेवतार्कं पुरोडाशं प्रतीति ॥ २४ ॥ भा० प्र०—इस सूत्र के द्वारा अर्थवाद विधि नहीं हो सकता है—इस विषय में अन्य कारणों का भी निर्देश किया गया है । दर्शपूर्णमास प्रकरण में “यो विदग्धः स नैर्ऋतो योऽशृतः स रौद्रो यः शृतः स दैवतः । तस्माद् विदहता श्रपयितव्यं सदैवतत्वाय” (तै० सं० २।६।३) जो विशेष रूप से दग्ध (पक्व) वह निर्ऋतिका=राक्षस का योग्य है, जो अशृत = अपक्व वह रौद्र = रुद्र देवता का, जो शृत अर्थात् पक्व = अच्छी तरह पकाया गया है वह दैवत = प्रकरण से प्राप्त देवता का है । अतएव विशेष रूप से दग्ध न कर पाक करना उचित है इस प्रकार का एक वाक्य है । इस वाक्य को अर्थवाद मानने पर ही इस का दर्शपूर्णमास प्रकरण में पठित होना सार्थक होगा । क्योंकि इसके द्वारा

प्रकरण के सम्बन्ध की रक्षा की ओर दृष्टि रखने पर इसको अन्यथा करना सम्भव नहीं

Page 209Permalink

२५ ] प्रथमाध्याये द्वितीयपादः १५७ अच्छी तरह पुरोडाश के पाक करने की प्रशंसा कथित होती है। फलतः, प्रकरण का सम्बन्ध अक्षुण्ण रहता है। किन्तु इसको विधि मानने पर दर्शपूर्णमास प्रकरण में इसका कोई भी सम्बन्ध नहीं रहेगा, क्योंकि, विधि “नैर्ऋतो विदग्धः कर्तव्यः” यही इसका याग स्वरूप मानना पड़ेगा, किन्तु दर्शपूर्णमास प्रकरण में निर्ऋत याग का उपदेश नहीं है। प्रकरण के सम्बन्ध की रक्षा की ओर दृष्टि रखने पर इसको अन्यथा करना सम्भव नहीं है, अर्थवाद को विधि मानने में यह भी दोष है। 'प्रकरणे'=दर्शपूर्णमास आदि प्रकरण में, 'सम्भवम्' = अन्वय सम्भव होने पर, 'अपकर्षः'=प्रकरण से विच्युति, 'न कल्प्येत'=कल्पना करना उचित नहीं है; “धियानर्थक्य”=विधि की व्यर्थता 'हि'=क्योंकि, “तं प्रति”=प्रकरण सम्बन्ध के पक्ष में, जो प्रकरण में अन्वित हो सकता है उसका अपकर्ष अर्थात् प्रकरण से विच्युति करना उचित नहीं है। प्रकरण का सम्बन्ध अक्षुण्ण रखने पर विधि मानना व्यर्थ है ॥ २४ ॥ विधौ च वाक्यभेदः स्यात् ॥ १.२.२५ ॥ शा० भा०—औदुम्बरो यूपो भवतीति विधावेतस्मिन्नाश्रीयमाणे ऊर्जोऽ- वरुद्ध्या इत्येतस्मिंश्च वाक्यं भिद्येत । इत्थमौदुम्बरो यूपः प्रशस्तः, स चोर्जोऽ- वरुद्ध्या इति । तस्माद् विधिवन्निगदानामपि स्तुतिरेव कार्यमर्थवादाना- मिति ॥ २५ ॥ भा० वि०—एवं फलविधित्वनिराकरणेन स्तुतित्वमुक्त्वा विधित्वे दोषान्तर- माह - विधौ वेति सूत्रं व्याचष्टे—औदुम्बर इति । एतस्मिंश्च विधावाश्रीयमाण इत्यनुषङ्गः वाक्यभेदमभिनयति - इत्थमिति । औदुम्बरो यूपो भवतीत्यस्यैव तावद्वर्तमानापदेशत्वसन्देहान्न विनार्थवादं पञ्चमलकारत्वेन विधित्वावसाय इति प्रथमं तावदर्थवादतया सम्बन्धनीयमूर्जोऽवरुध्या इत्यन्तेन, पुनश्च तस्यैवोर्जोव- रुध्यै यूपः कार्य इति विध्यन्तर्भावि वाक्यभेदः स्यादित्यर्थः; अधिकरणार्थमुप संहरति—तस्मादिति । वायुर्वेत्यादिसमुच्चयार्थोऽपि शब्दः ॥ २५ ॥ त० वा०—स्तुतित्वेन विधिविभक्तिमुपजनय्य पुनस्तेनैव फलकल्पनायां वाक्यभेदः तस्मादर्थवाद एवेति ॥ २५ ॥ (इति विधिवन्निगदाधिकरणम् ॥ २ ॥) न्या० सु०—औदुम्बर इत्यादिभाष्यादौदुम्बरो यूपो भवतीत्यस्यापि प्राशस्त्यपरत्वं प्रतिभाति । तच्चायुक्तम् । विध्येकवाक्यत्वं विनार्थवादत्वायोगात् । सोमापौष्णविध्येक- वाक्यत्वाभ्युपगमे त्वौदुम्बरो यूपः प्रशस्त इतिभाष्यानुपपत्तिप्रसङ्गादित्याशङ्कयाह—

Page 210Permalink

१५८ मीमांसादर्शनम् [ सू० स्तुतित्वेनेति । न स्तुत्यर्थत्वेनेदमुपन्यस्तम्, किन्तु स्तुत्यन्वयवशनास्मिन्वर्तमानापदेश- सन्दिग्धे पञ्चमलकारत्वनिश्चयात् विधावाश्रीयमाण इति स्तुतिनिश्चयेन विधित्वप्रतिपाद- नार्थमिति भावः—उपजनय्येति । निश्चाय्येत्यर्थः ॥ २५ ॥ इति न्यायसुधायां द्वितीयमौदुम्बराधिकरणम् । भा० प्र०—'युक्तं तुवाक्यशेषत्वम्' इस सूत्र में कहा गया है कि वाक्य को विधि मानने के लिए प्रथमतः इसको स्तुति अर्थात् अर्थवाद के रूप में इसको मानना होगा । ‘वै’ आदि वाक्य को स्तुति के द्वारा विधि मानने पर वाक्यभेद का प्रसङ्ग होगा । वेद में वाक्यभेद का परिहार ही समीचीन है । प्रकृत में ‘ऊग् वै’ इत्यादि वाक्य को स्तुति के द्वारा अन्न रूप फल की विधि मानना उचित नहीं है, क्योंकि अन्न रूप फल की विधि के लिए उदुम्बरत्व की प्रशंसा की गई है और उदुम्बरत्व का फल भी विज्ञापित होता है—इस रूप में दो अर्थ मानने से वाक्यभेद होगा । इसलिए यह विधि नहीं है, किन्तु अर्थवाद है । ‘विधौ’=‘ऊक् वै’ इत्यादि वाक्य को विधि मानने पर, ‘च’=और, ‘वाक्यभेदः’= वाक्यभेद नामक दोष, “स्यात्”=होगा, यदि विचार कर वाक्य को विधि मानने पर वाक्यभेद दोष होगा । इस प्रसङ्ग में ‘वाक्यभेद’ दोष की अवगति करना आवश्यक है । अपौरुषेय वेद वाक्य में वाक्यभेद एक दोष है । एक बार पठित वाक्य की आवृत्ति कर अनेक अर्थ ग्रहण करना वाक्यभेद है । यह सत्य है कि पौरुषेय वाक्य में वाक्यभेद दोषावह नहीं है । क्योंकि, अभिप्राय के अनुसार ही एक वाक्य के अनेक अर्थ की कल्पना की जा सकती है । आकार इङ्गित और प्रमाणान्तर की सहायता से मनुष्य के अभिप्राय की अवगति होती है । इन स्थलों में वक्ता के अभिप्राय के अनुसार एक वाक्य के अनेक अर्थ की कल्पना दोषावह नहीं है । इसीलिए, श्लेषालङ्कार का प्रामाण्य रक्षित होता है । किन्तु, वेद अपौरुषेय है, उसका कोई स्वतन्त्र वक्ता नहीं है और स्वतन्त्र वक्ता न होने से वेद में वक्ता के अभिप्राय के होने की सम्भावना ही नहीं है । वक्ता का अभिप्राय ही तात्पर्य है, अतः, इस तात्पर्य लक्षण के अव्याप्ति-दोषदुष्ट होने से मीमांसक मत में तत्प्रतीत गयोग्यत्व ही तात्पर्य है यह माना है । अनेक अर्थ मानने पर एक अर्थ को पौरुषेय मानना होगा और पौरुषेय वाक्य वेदवाक्य न होने से उसका अप्रामाण्य भी अनिवार्य है । ‘ग्रहं सम्माष्टि’ इस वाक्य में ग्रह=यज्ञीयपात्र विशेष का सम्मार्जन विहित है, किन्तु उसका एकत्व और अनेकत्व अविवक्षित है । क्योंकि ग्रह का मार्जन एवं ग्रह का एकत्व एक प्रयत्न से एक वाक्य के द्वारा विहित नहीं हो सकता है, क्योंकि ग्रह के एकत्व की विवक्षा करने पर “ग्रहं सम्माष्टिः तं च एकम्” इस प्रकार दो वाक्य होगा और द्वितीय वाक्य पौरुषेय अर्थात् पुरुषकृत आवृत्ति के द्वारा कथित होने से प्रमाण नहीं है । इसलिए

Page 211Permalink

२६ ] प्रथमाध्याये द्वितीयपादः १५९ भामती की टीका कल्पतरु में कहा है कि—"अपौरुषेयी श्रुतिः पौरुषेयीमावृत्तिं न सहते" अर्थात् अपौरुषेय वेद पुरुषकृत आवृत्ति का सहन नहीं करता है। अर्थात् आत्मीय रूप में उसका सहन नहीं हो सकता है। इसीलिए वेद वाक्य अर्थ "यावद्वचन" जितने पद हैं, उन कतिपय पदों से जो अर्थ होता है; वही ग्राह्य है और अध्याहार आदि के द्वारा अन्य अर्थ करना सर्वथा असङ्गत है। क्योंकि वह अध्याहृत अर्थ पौरुषेय होगा। किन्तु जहाँ कोई उपाय नहीं है, वहाँ वेद में भी अगत्या वाक्यभेद मानना ही पड़ता है, इसलिए उपायान्तर के सम्भव होने पर वाक्यभेद अवश्य ही परिहार्य है ॥ २५ ॥ [ ३] हेतुर्वा स्यादर्थवत्त्वोपपत्तिभ्याम् ॥ १.२.२६ ॥ शा० भा०—अथ ये हेतुवन्निगदाः 'शूर्पेण जुहोति, तेन ह्यन्नं क्रियत (तै०ब्रा० १।६।५) इत्येवमादयः, तेषु सन्देहः—किं स्तुतिस्तेषां कार्यमुत हेतुरिति । किं प्राप्तम् ? हेतुः स्यादन्नकरणं होमस्य । नन्वप्रसिद्धे कार्यकारणभावे न हेत्वपदेशः । सत्यमेवं लोके, विधायिष्यते तु वचनेन वेदे । शूर्पेण होमे कर्तव्येऽन्नकरणं हेतुरित्युपदिश्यते । किं प्रयोजनम् ? अन्यदपि दर्व्विपिठरादि अन्नकरणं यत्, तेनापि नाम कथं होमः क्रियेतेति । कुतः ? तस्याप्यन्नक्रियायामर्थवत्ता । शक्यते च तेनाप्यन्नं कर्तुम् । एतद्धि क्रियत इत्युच्यते । न हि वर्तमानकालः कश्चिदस्ति, यस्यायं प्रतिनिर्देशः । हेतौ च श्रुतिः, स्तुतौ लक्षणा । यदि च दर्व्विपिठरादि न साक्षादन्नं करोतीति, नान्नकरण- मित्यच्यते । व्यर्थे तस्मिन् शूर्पस्तुतिरनर्थिका स्यात् । शूर्पमपि हि न साक्षादन्नं करोतीति, तेन विनाऽर्थेन शूर्पस्य स्तुतिर्नोपपद्यते ॥ २६ ॥ भा० वि० अधिकरणस्य विषयमाह — अथेति । श्रेयस्साधनत्वप्रतिपादक- विधिविभक्त्यभावेन विधित्वाभावेऽपि हिशब्दादिभिः हेतुत्वं भविष्यतीति पूर्वा- धिकरणसिद्धान्तहेतुप्रत्युदाहरणेनात्र पूर्वपक्षोत्थानादस्य तत्सङ्गतिरिति प्रकृता- पेक्षितववाचिनाथशब्देन सूचितं ये हेतुवन्निगद्यन्ते, ननु 'चतुर्गृहीतान्याज्यानि भवन्ति, नह्यत्रानुयाजा इज्यन्ते' इतिवत् परमार्थहेतवः, ते हेतुवन्निगदास्तेनेति तृतीयाया शूर्पकरणमुच्यते करणमात्रं वेत्यपि निगमात् संशयमाह—तेष्विति । विमर्शपूर्वकं हेतुरिति पूर्वपक्षप्रतिज्ञां व्याचष्टे —किमित्यादिना । होमस्य=होम- सम्बन्धस्येत्यर्थः । अत्र च पूर्वाधिकरण-पूर्वपक्षसूत्रात् अपूर्वत्वादिति हेत्वाकर्षार्थं- स्सौत्रो वा शब्दः, स च भाष्यकृता स्यादित्यनेनैव व्याख्यातः । यद्यपि शूर्पेण जुहोतीति वर्तमानापदेशस्यार्थवादविधुरस्य विधायकत्वात् अर्थवादतयोपयुक्तस्य तेन हीत्यादेः पूर्वाधिकरणन्यायेन वाक्यभेदेन पुनर्हेतुविधित्वासंभवाद्विहिते शूर्पहोमसम्बन्धे निर्विषयस्य हेतुविधानस्यासम्भवः तथापि होमकर्तव्यताया

Page 212Permalink

१६० मीमांसादर्शनम् [ सू० वाक्यान्तरसिद्धत्वाच्छूर्पहोमसम्बन्धस्य च शूर्पेणेत्यस्मादवगतेः अनुष्ठानस्य च प्रयोगविधिना सिद्धेर्विध्यभावान्नार्थवादत्वम्, नाप्यानर्थक्यम्, तेन ह्यन्नमिति शूर्पहोमसम्बन्धे अन्नकरणत्वरूपहेत्वपदेशान्यथानुपपत्त्या यद्यदन्नकरणं तेन तेन होतव्यमिति विधिवाक्यानुमापकत्वात् अरयेति भावः ॥ २६ ॥ त० वा०—इह ये हेतुवन्निगद्यन्ते हिशब्दादिभिः न च परमार्थहेतवः, त उदाहरणम् । तत्र यदि तावद्धेतुत्वं विधीयते, ततः पूर्वेणैव गतम् । यदिह हेतुत्वं तच्छूर्पहोमसम्बन्धं प्रति, न चाविहितोऽसावस्तीति, कस्य हेतुरुच्यते ? अथ भूतानुवादमात्रम्, तत्तु वायुक्षेपिष्ठत्ववद्गतमित्यनारब्धव्यमेतत् । उच्यते । न तावदनेनैव वाक्येन हेतुत्वं विधीयते । न च भूतानुवादमात्रम्, किं तर्हि, हेतोः प्रसिद्धपूर्वकत्वादसिद्धवदुपदिष्टस्य यावत्यसिद्धचाशङ्का, तत्राथर्ापत्तिलभ्याद्वचना- त्सिद्धिः । याऽपि चार्थवादाकाङ्क्षा कस्मादिति ? साऽप्यनेनैव हेतुना निवर्त्यत इति मन्यते । अथाप्यर्थवादत्वम्, तथाऽपि तदन्तर्निर्णीतहेतुत्वमेवेति, सर्वान्नकरण- विषयं विज्ञायते । ततश्च हेतुरप्यस्तीति पूर्वः पक्षः । सम्बन्धस्य च विधेयत्वात्- दगतमेव हेतुत्वं होमस्येति वदति—नन्वप्रसिद्धे कार्यकारणभाव इति । केचि- दाहुः । कार्यकारणयोरेवानुमानम् । तथा च दध्नेन्द्रियकामस्येत्यत्रापि वक्ष्यति । तत्तवयुक्तम् । अकार्यकारणभूतानामपि कृत्तिकादीनामचिरोद्गतरौहिण्यादिप्रति- पत्तिहेतुत्वदर्शनात् । अतो गम्यगमकत्वमेव कार्यकारणभावं मन्यते । ननु सोऽप्यनुमानोत्तरकालीनत्वादनङ्गम् । सत्यम् । अन्यस्मिन्नेव तु सम्बन्धे सति पाश्चात्यप्रसिद्धयन्तमेनमनुमानव्यवहारोपलक्षणत्वेनोपन्यस्यति । यद्वा शक्त्य- भिप्रायम् । ययोरेव हि व्याप्तिग्रहणकाले गम्यगमकसामर्थ्यात्मना कार्यकारण- भावित्वेन साऽवधृता तत्रैव हेतुता । अथ वा उदाहृतविषयहेतुलक्षणमेतत् । अविनाभावो ह्यनेककार्यकारण- स्वस्वामिसहचरभावादिप्रभेदभिन्नः, तत्रान्नकरणता होमे हेतुत्वेनोच्यमाना सम्बन्धान्तराभावात्कारणत्वेन स्यात् । तच्चाप्रसिद्धं तस्मान्न हेत्वपदेशः सत्यम् । लोके हेतुव्यवहारकालात्प्रथमं प्रमाणान्तरेण सम्बन्धप्रसिद्धिरपेक्ष्यते । वेदे तु हिशब्दप्रतिपादितहेतुत्वान्यथानुपपत्त्या सम्बन्धाभिधायि दृष्टान्तवचनं कल्प्येत- यद्यदन्नकरणम्, तेन तेन जुहोतीति, तेन चोपपन्नं हेतुत्वम् । किं प्रयोजनमिति । यदि च हेतुरवतिष्ठेतेत्यनेनाभिप्रायेण । अपरस्त्वाह—व्याप्तौ सिद्धायां सर्वान्न- साधनसाधनको होमः सिद्धो भवति । कुत इति । स एव सिद्धान्ताभिप्रायः । अथ वा कुतो दर्व्विपिठरादेः साधकतमत्वम् । इतरस्त्वाह—अन्नक्रियायां तावत्तस्यार्थवत्ताऽस्ति, तावन्मात्रं वाश्रयिष्यते । शक्यते च तेनापीति । उपपत्ति-

Page 213Permalink

२६ ] प्रथमाध्याये द्वितीयपादः १६१ शब्दस्यार्थः । पूर्वेण तु समानार्थता गम्यते । तेन विवक्षा । शक्त्यभिप्रायमेतत् । यदेव हि तदुपयोगिमात्रम्, तदेव शक्यते कथञ्चित्साधकतमत्वेन विवक्षितुम् । अथवाऽर्थवत्त्वं करणविभक्तिनिर्देशालम्बनमुपपत्त्या पुनर्वर्तमानानन्नक्रियस्य हेतुत्वाभिधानात्तादृशस्य होमं प्रत्यनुपपत्त्याशङ्क्योपपत्तिं वदति—शक्यते च तेनेति । तत्र चोदयति । एतद्धि क्रियत इत्युच्यते । तत्कथं शक्यत इत्यभि- धीयते । वर्तमानक्रियास्यासम्भवादित्युत्तरम् । यद्वा स्वयमेवाऽऽशङ्क्य परिहरति— यदि च न दर्विपिठरादीति । उभयोः परामर्शः । साधकतमत्व-वर्तमानत्वे चेत्तत्र न विद्येते, शूर्पेऽपि तथैवेति स्तुतिर्न स्यात् । तेन यथा तव स्तुत्यर्थः, कथ- ञ्चिद्विद्यते तथा मम हेत्वर्थ इत्यविशेषः । हेतौ च श्रुतिरित्यादि असम्बद्धवाक्य- सम्बन्धिदोषादन्ते द्रष्टव्यम् । स्तुतौ लक्षणेति । अन्नकरणत्वेन सर्वजनाभिमतेन प्राशस्त्यं लक्ष्यते । शूर्पेणेति चास्मिन्पक्षे नित्यानुवादोऽन्नकरणसामान्येनैव प्राप्तस्य । इत्थं वा सूत्रगमनिका । तत्रार्थवादात्प्रयोजनवत्तरत्वमुपपत्तिरित्यप्रसिद्धं सम्बन्धोऽपि, काल्पनिकवाक्याश्रयणात् । तस्माद्धेतुः ॥ २६ ॥ अथ तृतीयं हेतुवन्निगदाधिकरणम् । न्या० सु०—अधिकरणविषयप्रदर्शनार्थमथेति भाष्यं व्याचष्टे—इहेति । पूर्वप्रकृता- पेक्षित्वावाच्यथशब्दप्रतिपादितपूर्वाधिकरणसङ्गतिसूचनार्थं हिशब्दादिभिरित्युक्तम् । पूर्वत्र श्रेयःसाधनत्वप्रतिपादकविधिशब्दाभावेनौदुम्बरो यूपो भवतीत्यादीनां विधित्वे निराकृते, तेन ह्यन्नं क्रियत इति हेतुत्वप्रतिपादकहिशब्दसद्भावेन हेतुत्वं भविष्यतीति पूर्वाधिकरण- सिद्धान्तहेतुप्रत्युदाहरणरूपेणात्र पूर्वपक्षोत्थानात्सङ्गतिः । न च परमार्थहेतव इत्यनेन हेतुवदिति वतेर्व्यावर्त्त्यं दर्शितम् । 'चतुर्गृहीतान्याज्यानि भवन्ति, न ह्यत्रानुयाजान् यक्ष्य- न्भवती'त्यादयः—परमार्थहेतवः । आतिथ्येष्वानूयाजाभावेऽपि अष्टावुपभृति गृह्णातीति प्रकृतौ विहितस्योपभृत्यष्टगृहीतस्य चोदकप्राप्तस्य निवृत्त्यर्थं चतुर्गृहीतत्वे विधीयमानेऽनु- याजाभावस्य हेतुत्वाभिधानात् यत्र यत्रानुयाजाभावः, तत्र तत्राष्टगृहीताभाव इति ज्ञायते । प्रकृतौ चाष्टग्रहणस्य चतुर्द्वयद्वयलक्षणार्थत्वद्योतनार्थप्रयाजार्थं जुह्वां समानयने नियोगतोऽर्द्ध- मेव समानेतव्यमिति ज्ञायते । हेतुः स्यादिति पूर्वपक्षभाष्यं हेतुविध्यभिप्रायम्, अनुवादाभिप्रायं वेति विकल्प्य विधि- पक्षे तावदौदुम्बराधिकरणनिरस्तत्वादयुक्तमित्याक्षिपति—तत्रेति । यथा तत्र यदिह फलवचनम्, तदौदुम्बरस्य यूपस्येत्यादिना प्रत्यक्षस्य विधेरभावात्कल्प्यस्य च कार्यविशेष- सम्बन्धित्वेनैव कल्पयितुं शक्यतया, कार्यान्तरं प्रत्यभावात्फलपरत्वे स्वरूपविधानाशक्ति- प्रसक्तेः फलवचनानर्थक्यमुक्तम्, तथेहापि प्रत्यक्षविध्यभावात्कल्प्यस्य च हेतुपरत्वेऽन्नकरण- ११