BharatKosha
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages

Page 79 of 804

Read in context
Page 79

२ ] प्रथमाध्याये द्वितीयपादः २७ सन्ति। शालावृकाणां हृदयान्येता स्त्रियः इति च वेदेऽनुवादात्सुरूपं वा कुरूपं वा पुमानित्येव भुञ्जत अशास्यं मन इत्यादिस्मृतेश्च। व्यभिचारस्वभावत्वावधारणाददृष्ट- व्यभिचारास्वपि स्त्रीत्वेन व्यभिचारोऽनुमास्यते पलाशत्वेनेव वृक्षत्वमित्याशङ्कयाह— न चेति। स्त्रीत्वस्य व्यभिचाराप्रयोजकत्वसूचनाथंनुमाने कल्पनाशब्दः। न च निर्मूलकत्वेन लोकस्याप्रामाण्यम्, प्रयत्नेन रक्षणे योग्यानुपलब्धेर्मूलत्वसम्भवादिति दर्श- यितुमाह--विशिष्टेन हीति। महाकुलीनानां पुरुषाणां स्त्रीरक्षणमेवात्मरक्षणम्, जायायां रक्ष्यमाणायामात्मा भवति रक्षित इति स्मरणात्। यद्वा दुष्कुलप्रसूतत्वं व्यभिचारशीलत्वे प्रयोजकम्, न स्त्रीत्वमिति दर्शयितुं महा- कुलीनत्वं स्त्रीणामुक्तम्। व्यभिचाराभावनिश्चयमेवाभियुक्तवृद्धव्यवहारेण द्रढयति-- अनेनैवेति। व्यभिचाराभावानिश्चये हि निर्मूलत्वात् पितृपितामहादिपरम्परालेखनात्मक- समूहलेख्यं व्यर्थं स्यादिति भावः। कुलपरीक्षापूर्वकेंदानींतनपुरुषगतविवाहादिव्यवहारेणापि तमेव द्रढयति--तथा चेति। एतावत्प्रयत्नान्वेषणे योग्यानुपलब्धिपूर्वकिया लोकप्रसिद्ध्या व्यभिचाराभावनिश्चयान्न स्त्रीत्वमात्रेणादृष्टव्यभिचारासु व्यभिचारानुमानं युक्तमित्युक्तम्। इदानीमनुमीयमानोऽपि व्यभिचारोऽनेकान्ततो वर्णसङ्करमापादयतीत्याह--न चेति। न च व्यभिचारोत्पन्न- त्वाभावेऽपि मातृव्यभिचारमात्रेणापत्ये वर्णसङ्करः शङ्क्यः। सावर्ण्योत्पत्तिकारणस्यो- त्पादकसंवर्णत्वस्याविघातादित्याह--तदपराधनिमित्तस्त्विति । व्यभिचारोत्पन्नस्यापि वर्णान्तरव्यभिचारानिश्चये वर्णसङ्करानिश्चय इत्याह--न चेति। ननु विन्नास्वेव विधिः स्मृति इत्यादिवचनाद्भर्तृव्यतिरिक्तसवर्णोत्पन्नस्यापि वर्णा- न्तरापत्तिः स्यादित्याशङ्कयाह--सवर्णेन चेति। गवाद्व्युत्पादकसजातीयापत्योत्पाद- कत्वदर्शनेनेहापि तथानुमानान्न वर्णान्तरापत्तिः सम्भवतीति ब्राह्मणादिविहितकर्म्मा- नधिकारप्रतिपादनपरं विन्नास्वितिवचनं व्याख्येयं कुण्डगोलकवचनमपि सत्येव ब्राह्मण्ये- ऽवान्तरसंज्ञाविशेषप्रतिपादनपरमिति उत्पादकासावर्ण्येऽपि क्वचिदन्यतरसवर्णोत्पत्ति- स्मरणान्नात्यन्तं तदुच्छेदः किमुत तत्सावर्ण्य इत्यतिशयार्थमाह--सङ्करजातानामपि चेति। एवं हि स्मर्यते । जात्युत्कर्षो युगे ज्ञेयस्सप्तमे पञ्चमे ऽपि वा। व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरमिति ॥ या० स्मृ० अस्यार्थः--क्षत्रियायां ब्राह्मणादुत्पन्ना कन्या मूर्धावसिक्ता ब्राह्मणाय दीयमाना मूर्द्धावसिक्तजातेरुत्कृष्टाम्१ कन्यां जनयति, सापि ब्राह्मणाय दीयमाना कन्यान्तरमेवेत्येवं पञ्चमे युगे पुरुषान्तरे ब्राह्मण्योत्पत्त्या जात्युत्कर्षः। एवं वाशब्दात् षष्ठे वैश्यायां सप्तमे शूद्रायामिति। मूर्द्धावसिक्तादिपुत्रपरम्परायास्तु क्षत्रियादिस्त्रीणां तथैव पञ्चमादिषु क्षत्रियादिजातीयापत्योत्पत्तेरपकर्ष इति पूर्ववच्चाधरोत्तरमित्युत्तरत्रातिदेशात्सूचितम्, १. ब्राह्मणजातितोरपकृष्टानित्यधिकम् २ पु०।