BharatKosha
मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

by महर्षि जैमिनि / शाबर स्वामी

Source: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (origin)

DevanagariSanskritpublished804 pages

Page 80 of 804

Read in context
Page 80

२८ मीमांसादर्शनम् [ सू० नन्वस्यार्थस्य प्रत्यक्षेण विवेक्तुमशक्यत्वाद् ब्राह्मण्यादेश्च शास्त्रविषयत्वानङ्गीकारेण निर्मूलमेतत्स्मरणं स्यादत आह—तत्र त्विति। क्वचित्प्रत्यक्षावगतायां जातौ सम्बन्ध- ग्रहणसम्भवात् गृहीतपदार्थकेन शास्त्रेणान्यत्र तत्प्रतिपादनं युक्तमिति मात्रशब्देन सूचितम्। प्रत्यक्षावगतिसम्भवादन्यत्र शास्त्रव्यापारो नाङ्गीकृतः, इह तु तदसम्भवाच्छास्त्रविषयत्वं नायुक्तमित्याह—न हीति। नन्वाकारसाम्येन क्वचिदपि ब्राह्मण्यादिविवेकस्य प्रत्यक्षेणा- वगत्यसम्भवात्सर्वत्रागमगम्यत्वमेवाङ्गीकार्यमित्याशङ्कां निराकुर्वन्नुपसंहरति-तस्मादिति। केनचिन्निमित्तेनेति स्वरविशेषादिनेत्यर्थः। स्मरणस्य स्वातन्त्र्येण प्रामाण्यायोगात्तन्मूल- प्रदर्शनार्थं दर्शनग्रहणम्, तस्याप्युत्पादकजातिस्मरणनिरपेक्षेन्द्रियजन्यत्वायोगात्पूर्वोत्पादक- जातिस्मरणं तत्सहकारीति निदर्शयितुं पारम्पर्यग्रहणम्, प्रत्यक्षत्वोपपादनफलमुपसंहरति- इति भवतीति । ननु— शमो दमस्तपः शौचं सत्यमार्जवमेव च। ज्ञानं विज्ञानमास्तिक्यं ब्राह्मं कर्म प्रचक्षते ।। इत्यादिस्मृतिपर्यालोचनया तपःप्रभृत्याचारयोगनिमित्तत्वेऽपि ब्राह्मणशब्दप्रवृत्तेस्तस्य प्रत्यक्षत्वेन दृष्टविरोधसम्भवात्किमिति महता क्लेशेन जातिः साध्यते । अत आह— येषामिति । प्रमाणाभावमुपपादयितुमाह—सिद्धानां हीति। अनवस्थितत्वापत्तेरप्याचार- निमित्तत्वं न युक्तमित्याह—स एवेति । कारणान्तरमाह तथेति । ननु तपःप्रभृत्याचारयोगिनि लोके ब्राह्मणशब्दप्रयोगदर्शनात् कथं तन्निमित्तत्वनिरासः, अत आह—एताभिरिति । ब्राह्मणत्वप्रतिपादने द्योतकत्वमात्रं तपःप्रभृतीनां न तु ब्राह्मण- शब्दप्रवृत्तिनिमित्तत्वमित्यर्थः। यद्वा का तर्ह्यस्याः स्मृतेर्गतिरित्याशङ्क्यैतदुक्तम्। द्योतक- त्वमात्रं स्मृत्या प्रतिपाद्यते, न तु तपआदीनां समुदायो ब्राह्मण्यं स्मृत्या प्रतिपाद्यत इत्यर्थः । यदा तु पूर्वोक्तार्थोपसंहारपरत्वेनेयं फक्किका व्याख्यायते, तदा नैताभिस्तपःप्रभृति- भिरुपपत्तिभिरयं ब्राह्मणः प्रतिपाद्यते द्योत्यत इति योज्यम्, किं त्वेताभिरितरेतराश्रय- प्रसङ्गादिभिरुपपत्तिभिरयमर्थः प्रतिपाद्यते, तदुच्यते न तप आदीनां समुदायो ब्राह्मण्यमिति । ननु तपःप्रभृतीनां आचाराणां व्यभिचारित्वेन प्रत्येकं ब्राह्मणशब्दप्रवृत्तिनिमित्तत्वा- योगात् युगपदनुष्ठानाभावेन च समुदायाभावान्नाभून्निमित्तत्वं तज्जनितस्य तु संस्कारस्य भविष्यति, अत आह—नेति । माभूच्छब्दप्रवृत्तिनिमित्तत्वम्, जात्यभिव्यञ्जकत्वं भविष्यत्यत आह-नेति। उभयत्र पूर्वोक्तमेवोपपत्तित्रयमिति द्रष्टव्यम्। एवं तर्हि व्यञ्जका- भावेनाप्रत्यक्षत्वं स्यादित्यशङ्कानिराकरणार्थं पूर्वोक्तमभिव्यञ्जकं स्मारयति—किं तर्हीति । नन्वाचारनिमित्तत्वाभावे । मासेन शूद्रो भवति ब्राह्मणः क्षीरविक्रयादिति ।

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित) · Page 80 of 804 · BharatKosha