पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
by पण्डित विष्णु शर्मा
Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)
Page 385 of 536
Read in context( ३७० ) पञ्चतन्त्रम् । सूर्य, मेघ, पवन, पर्वतको ( इस प्रकार ) भर्त्ता बनाना छोड़कर मूषिका अपनी जातिको प्राप्त हुई जाति अपनी नहीं छोडी जाती ॥ २२१ ॥” अथ रक्ताक्षवचनमनादृत्य तैः स्ववंशविनाशाय स स्वदु- र्गमुपनीतः । नीयमानश्च अन्तर्लीनमवहस्य स्थिरजीवी व्यचिन्तयत्- तब रक्ताक्षके वचनको अनादरकर उन्होंने अपने वंशको नाश निमित्त ही उस ( वायस मंत्री ) को अपने दुर्गमें प्राप्त किया । लेजाया हुआ भीतर बैठ हँसकर स्थिरजीवी मनमें सोचने लगा-- “हन्यतामिति येनोक्तं स्वामिनो हितवादिना । स एवैकोऽत्र सर्वेषां नीतिशास्त्रार्थतत्त्ववित् ॥ २२२ ॥ स्वामीका हित करनेवाले जिसने कहाथा कि इसे मारडालो वही एक इन सबमें नीतिशास्त्रके तत्त्वका जाननेवाला है॥ २२२ ॥ तद्यदि तस्य वचनमकरिष्यन् एते, ततो न स्वल्पोऽपि अनर्थोऽभविष्यत् एतेषाम्” । अथ दुर्गद्वारं प्राप्य अरिम- र्दनोऽब्रवीत्,-“भो ! भोः! हितैषिणोऽस्य स्थिरजीविनो यथा समीहितं स्थानं प्रयच्छत” । तच्च श्रुत्वा स्थिरजीवी व्यचि- न्तयत्, “मया तावत एतेषां वधोपायः चिन्तनीयः, स मया मध्यस्थेन न साध्यते । यतो मदीयमिङ्गितादिकं विचार- यन्तः तेऽपि सावधाना भविष्यन्ति, तद्दुर्गद्वारमधिश्रितो- ऽभिप्रेतं साधयामि” इति निश्चित्य उलूकपतिमाह,-“देव ! युक्तमिदं यत् स्वामिना प्रोक्तं परमपि नीतिज्ञस्ते अहितश्च । यद्यपि अनुरक्तः शुचिस्तथापि दुर्गमध्ये आवासो न अर्हः । तत् अहमत्र एव दुर्गद्वारस्थः प्रत्यहं भवत्पादपङ्कजरजःपवित्री- कृततनुः सेवां करिष्यामि” । तथेति प्रतिपन्ने प्रतिदिनमुलूक- पतिसेवकास्ते प्रकाममाहारं कृत्वा उलूकराजादेशात् प्रकृष्ट- मांसाहारं स्थिरजीविने प्रयच्छन्ति । अथ कतिपयैः एव अहोभिः मयूर इव स बलवान् संवृत्तः । अथ रक्ताक्षः स्थिर- जीविनं पोष्यमाणं दृष्ट्वा सविस्मयो मन्त्रिजनं राजानञ्च