पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)
by पण्डित विष्णु शर्मा
Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)
Page 387 of 536
Read in context( ३७२ ) पञ्चतन्त्रम् ।
मकालमेव तत् सुवर्णीभूतं दृष्ट्वा व्याधो विस्मयमगमत् । “अहो ! मम शिशुकालात आरभ्य शकुनिबन्धव्यसनिनः अशीतिवर्षाणि समभूवन् । न च कदाचित् अपि पक्षिपुरीषे सुवर्णं दृष्टम्” । इति विचिन्त्य तत्र वृक्षे पाशं बबन्ध । अथ असौ अपि पक्षी मूर्खस्तत्रैव विश्वस्तचित्तो यथापूर्वमुपविष्टः। तत् कालमेव पाशेन बद्धः । व्याधस्तु तं पाशादुन्मुच्य पञ्जरके संस्थाप्य निजावासं नीतवान् । अथ चिन्तयामास । “किमनेन सापायेन पक्षिणा अहं करिष्यामि, यदि कदा- चित्कोऽपि अमुमीदृशं ज्ञात्वा राज्ञे निवेदयिष्यति, तत् नूनं प्राणसंशयो मे भवेत्, अतः स्वयमेव पक्षिणं राज्ञे निवेदया- मि” । इति विचार्य तथैव अनुष्ठितवान् । अथ राजापि तं पक्षिणं दृष्ट्वा विकसितनयनवदनकमलः परां तुष्टिमुपागतः, प्राह च एवं-“हंहो ! रक्षापुरुषाः ! एनं पक्षिणं यत्नेन रक्षत अशनपानादिकं च अस्य यथेच्छं प्रयच्छत” । अथ मन्त्रिणा अभिहितम्,-“किमनेन अश्रद्धेयव्याधवचनप्रत्ययमात्रपरि- गृहीतेन अण्डजेन । किं कदाचित् पक्षिपुरीषे सुवर्णं सम्भ- वति ? तन्मुच्यतां पञ्जरबन्धनादयं पक्षी” । इति मन्त्रिवच- नात् राज्ञा मोचितोऽसौ पक्षी उन्नतद्वारतोरणे समुपविश्य सुवर्णमयीं विष्ठां विधाय, 'पूर्वं तावत् अहं मूर्ख' इति श्लोकं पठित्वा यथासुखमाकाशमार्गेण प्रायात् । अतोऽहं ब्रवीमि- किसी एक पर्वतके एक देशमें महान् वृक्ष है । वहां सिम्भुक नामक कोई पक्षी रहता था । उसकी बीटमें सुवर्ण उत्पन्न होता था । एक समय उसके उद्देश्यसे कोई व्याधा वहां आया वह पक्षी उसके सम्मुख ही पुरीष करता भया उसे सोना हुआ देख व्याधा विस्मयको प्राप्त हुआ । “अहो ! मुझे बालकपनसे लेकर पक्षि पकड़नेका कार्य करते अस्सी वर्ष बीतगये । परन्तु कभी पक्षीके पुरीषमें सुवर्ण न देखा” ऐसा विचार उस वृक्षमें पाशको बांधता हुआ । तब यह मूर्ख पक्षी विश्वस्त चित्तसे वहां पूर्वकी समान बैठा रहा । और उसी समय पाशमें बंधगया। व्याधाभी उसको पाशसे खोलकर पाँजरेमें डाल अपने घर लाया और