BharatKosha
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

by पण्डित विष्णु शर्मा

Source: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (origin)

DevanagariHindipublished536 pages

Page 525 of 536

Read in context
Page 525

(५१०) पञ्चतन्त्रम् । पृच्छकेन सदा भाव्यं पुरुषेण विजानता । राक्षसेन्द्रगृहीतोऽपि प्रश्नान्मुक्तो द्विजः पुरा ॥ ९५ ॥” ज्ञानी पुरुषको भी सदा पूछना चाहिये, राक्षसेन्द्रसे पूछा हुआ ब्राह्मण प्रश्नसे- ही छूटा ॥ ९५ ॥” अथ तेभ्यः तच्छ्रुत्वा राजा द्विजान् आहूय प्रोवाच,–“भो ब्राह्मणाः ! त्रिस्तनी मे कन्या समुत्पन्ना तत् किं तस्याः प्रति विधानम् अस्ति न वा ?” ते प्रोचुः-“देव ! श्रूयताम्– तब उनसे सुनकर राजा ब्राह्मणोंको बुलाकर बोला,-“भो ब्राह्मणो ! मेरे तीन स्तनकी कन्या उत्पन्न हुई है सो कोई उसका प्रतिविधान है वा नहीं ?” वे बोले,-“देव सुनिये- हीनाङ्गी वाधिकाङ्गी वा या भवेत्कन्यका नृणाम् । भर्तुः स्यात्सा विनाशाय स्वशीलनिधनाय च ॥ ९६ ॥ जो हीन अङ्गवाली वा अधिक अंगवाली कन्या मनुष्योंके हो वह भर्ताके और अपने शीलके नाशके लिये होती है ॥ ९६ ॥ या पुनस्त्रिस्तनी कन्या याति लोचनगोचरम् । पितरं नाशयत्येव सा द्रुतं नात्र संशयः ॥ ९७ ॥ और जो कहीं तीन स्तनवाली कन्या पिताके नेत्रगोचर हो तो वह शीघ्र अपने पिताको नाश करती है इसमें सन्देह नहीं ॥ ९७ ॥ तस्मात् अस्या दर्शनं परिहरतु देवः । तथा यदि कश्चित् उद्वाहयति तदेनां तस्मै दत्त्वा देशत्यागेन नियोजयितव्या इति । एवं कृते लोकद्वयाविरुद्धता भवति” । अथ तेषां तद् वचनम् आकर्ण्य स राजा पटहशब्देन सर्वत्र घोषणां आज्ञा पयामास-“अहो ! त्रिस्तनीं राजकन्यां यः कश्चित् उद्वाह- यति स सुवर्णलक्षम् आप्नोति देशत्यागञ्च” । एवं तस्याम् आघोषणायां क्रियमाणायां महान् कालो व्यतीतः । न क- श्चित् तां प्रतिगृह्णाति । सापि यौवनोन्मुखी सञ्जाता सुगुप्त- स्थानस्थिता यत्नेन रक्ष्यमाणा तिष्ठति । अथ तत्रैव नगरे कश्चित् अन्धः तिष्ठति । तस्य च मन्थरकनामा कुब्जोऽग्रेसरो यष्टिग्राही । ताभ्यां तं पटहशब्दमाकर्ण्य मिथो मन्त्रितम्