पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)
Paraskara Grihyasutra Hindi
by महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा)
Source: Paraskara Grihyasutram with Margadarshini Hindi Commentary (origin)
Page 206 of 263
Read in context( १८४ )
एव—अवधारणे एकवर्णद्विवर्णमध्ये गतत्वेऽपि रोहितस्य वैशिष्ट्यात् पृथङ्निर्देशः कृतः एवकारश्च प्रदत्तः । सर्वाङ्गैः — चक्षुःकर्णादिभिः उपेतः—युक्तः, न तु न्यूनाधिकाङ्गवानित्यर्थः । यश्च जीववत्सयाः—जीवाः-प्राणवन्तो वत्साः—प्रसूतिः यस्याः सा जीववत्सा तस्याः, पयस्विन्याः—बहुक्षीरायाः गोः पुत्रः, यूथे—गोवर्गे, रूपस्वितमः—रूपमस्यास्तीति रूपस्वी, अतिशयेन रूपस्वी रूपस्वितमः, स्यात्—भवेत्, तम्—एतल्लक्षणलक्षितं वृषमलंकृत्य— वस्त्रमाल्यहेमपट्टिकाग्रैवेयकघण्टादिभिः वृषोचितभूषणैः भूषयित्वा, यूथे—स्ववर्गे, मुख्याः—गुणैः श्रेष्ठाः, चतस्रः—चतुःसंख्योपेताः, वत्सतर्र्यः—अप्रसूतायाः, ताः वत्सतरीः चकारः समुच्चये, अलंकृत्य—वस्त्रमाल्यस्वर्णादिभिर्भूषयित्वा “एतं युवानमित्येतया ऋचा वत्सतरीचतुष्टयसहितं वृषम् उत्सृजेरन्—त्यजेयुः पुत्रादयः इति शेषः । एवकारः उत्सृष्टानां पुनर्ग्रहणनिषेधार्थः ।
मन्त्रार्थः ( प्रजापतिः, त्रिष्टुप्, गावः, उत्सर्गे ) भो वत्सतर्र्यः ! एतं —पुरतो वर्त्तमानं, युवानं —तरुणं, पतिं—भर्त्तारं वृषं वः—युष्मभ्यं ददामि—प्रयच्छामि । तेन—मद्दत्तेन, प्रियेण—भर्त्रा वृषेण, सह क्रीडन्तीः—क्रीडन्त्यः विहारं कुर्वाणाः, अत्र प्रथमार्थे द्वितीया, यूयं “चरथ—चरत तृणानि खादत” नः—अस्माकं सम्बन्धेन, साप्तजनुषा—सप्तजन्मसम्वद्धेन पत्या सह असुभगाः— न दुर्भगाः, दुर्भाग्ययुक्ताः न भवत इति भावः । वयमपि युष्माकं प्रसादात्, रायस्पोषेण—धनपुष्ट्या, समिषा—समीचीनेन अन्नेन च मदेम—तृप्याम इति ।
नाभ्यस्थमभिमन्त्रयते मयोभूरित्यनुवाकशेषेण । ७
नाभ्यस्थं — वत्सतरीमध्यस्थं वृषम् अभिमन्त्रयते—आभिमुख्येन स्तौति —“मयोभूरित्यनुवाकशेषेण—मयोभूरित्यादिना अनुवाकशेषेण । मयोभूरित्याद्या मन्त्रा यथा—
‘‘मयोभूरभि मा वाहि स्वाहा । अवस्यूरसि
दुवस्वाञ्छम्भूर्मयोभूरभिमा वाहि स्वाहा’’ ।। (शु.य. १८–४५)
‘‘यास्ते अग्ने सूर्ये ऋचो दिवमातन्वन्ति रश्मिभिः ।
ताभिर्नो अद्य सर्वाभी ऋचे जनाय न स्कृधि । (शु.य. १८–४६)