पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)
Page 50 of 1267
Read in context[ अधि - १. सू - १. ] दीपिकासहितम्. ३ नत्वा सूत्रार्थ उच्यते ॥ य इति वा, अराणामाश्रयो न भवतीति वा, विषयतया नरविशेषसं- बन्धिज्ञानाश्रय इति वा, अरविधुरमुक्ताश्रय इति वा योगेनोत्कृष्टगुण वाचक इत्युक्तं भवति । तेन नारायण एव शास्त्रार्थ इति प्रदर्शितम् । अनेनैव विशेषणचतुष्टयेन वन्द्यताप्रयोजकानि बहुगुणत्व-निर्दोषत्व- शास्त्रज्ञेयत्व-शास्त्रगम्यत्वानि चोक्तानि ॥ यद्वा—अत्र नारायणमित्यादिपदपञ्चकेन समुद्रशायित्वस- र्ववसनोत्कर्षब्रीडाज्ञानादिगुणैरूच्चत्व-सम्यग्दोषकर्षण-प्रकृष्टद्युतिमय- त्व-ज्ञानिनः प्रति प्राप्तिनिरोधरहितत्वाख्यनिमित्तपञ्चकयुतेन नारा- यणवासुदेवसंकर्षणप्रद्युम्नानिरुद्धाख्यमूर्तय उच्यन्ते; तासामेतच्छा- स्त्राध्यायपादेषु प्रतिपिपादयिषितेतत्त्वात् । तथा च ‘नारायणं नत्वा गु- णैरुदीर्णं नत्वा दोषवर्जितं नत्वा’ इत्यादिका तत्त्वप्रदीपिकोक्तयोजना द्रष्टव्या ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति वचनाद्गुरोर्ना- म नाग्रहीदाचार्यः । न च ‘गुरून् नारायणशब्दवाच्यान् नारायणपदेनै- व गुरुनाम चोवाच, आसमन्तात् सो विशिष्ट एव हि व्यासः’ इति तत्त्वदीपिकाविरोध इति वाच्यम्; गुरुदेवतयोर्वास्तवभेदविवक्ष- या तदुपपत्तेः, योगरूढव्यासकृष्णाद्यसाधारणनामविवक्षयैवमुक्तत्वा- त् । गुरुत्वनिमित्तशास्त्रप्रभवत्व-शास्त्रसंप्रदायप्रवर्तकत्व-साक्षादुप- देशकत्वाख्यप्रकारबाहुल्यात् गौरवाद्वा बहुमानार्थं वा बहुवचनप्रयो- गः । यद्यपि गुरुर्व्यासः, इष्टदेवताऽपि स एवेति न तयोर्भेदः, तथाऽ- पि विशेषानुग्रहार्थं पृथङ्नतिरिति । एवं स्वस्य गुरुदेवतयोः भेदे अरु- चिसूचनार्थोऽपिशब्दः । तथा च - ‘अपि’ तथाऽपि गुरुदेवताभेदाभावे- ऽपीत्यर्थः । तत्त्वप्रदीपकृत्तु अपिशब्दात्सूत्रकारमपीत्याह । तस्यापि विशेषानुग्रहार्थं पृथङ्नतिरित्येवाभिप्रायः । यद्वा — ‘अपिशब्दः विशे- षणान्तरसमुच्चयार्थः, तद्विवरणमस्येत्यादि’ इति सुधोक्तरीत्या गुणपू- र्णत्वोपपादकजगज्जन्मादिकारणत्वादिरूपानुक्तविशेषणान्तरसमुच्चया- र्थोऽपिशब्दः ॥ अनेनैव श्लोकेन श्रोतृप्रवृत्त्यङ्गभूताः शास्त्राधिकारिविषयप्रयोज- नसंबन्धाश्च शिष्यशिक्षार्थं सूचिता भवन्ति ॥