पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 51, कुल 1267 में से
संदर्भ में पढ़ें४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) द्वापरे सर्वत्र ज्ञाने आकुलीभूते तन्निर्णयाय ब्रह्मरुद्रे- न्द्रादिभिरर्थितो भगवान्नारायणो व्यासत्वेनावततार । ( ३ ) अथेष्टानिष्टप्राप्तिपरिहारेच्छूनां तयोरगमविजानतां ( २ ) ननु ब्रह्मसूत्राणां प्रामाण्ये सत्येव प्रेक्षावदुपादेयत्वम्, प्रा- योऽस्य प्रामाण्यप्रयोज्यत्वात् । सत्येव तस्मिन् प्रतीतिकार्थनिरासेन यथावद्व्याख्येयत्वं संभवति । प्रामाण्यमेव कथमित्याशङ्क्य आप्तिमूल- त्वादिनैवेति परिहारमभिप्रेत्य वक्तृश्रोतृप्रसङ्गदोषाभावरूपाप्तिमूल- त्वोपपादनाय सूत्रागतिक्रममाह – 'द्वापरे' इत्यादिना । द्वावेव धर्म- पादौ पराववशिष्टौ यस्मिन्युगे, द्वाभ्यां युगाभ्यां परस्मिन्नुत्तरस्मिन् युगे इति वा