BharatKosha
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)

DevanagariHindipublished1,267 pages

Page 52 of 1267

Read in context
Page 52

[अधि - १. सू - १. ] दीपिकासहितम्. ५ तज्ज्ञापनार्थं वेदममुत्सन्नं व्यञ्जयंश्चतुर्धा व्यभजत्, 'इष्टानिष्टप्राप्तिपरिहारेच्छूनां' इष्टप्राप्तिश्चानिष्टपरिहारश्च ताविच्छूना म् । तत्त्वप्रदीपेरीत्या अप्राप्तसुखप्राप्तिदुःखपरिहारेच्छूनावतामिति वा । मोक्षस्य पुरुषार्थतासमर्थनार्थं वादिविप्रतिपत्तेः तत्स्वरूपनिरूपणार्थं चैवमुक्तम् । अन्यथा मुमुक्षूणामित्येव ब्रूयात् । नैतावताऽलं 'आत्य न्तिक' इति चोपस्कर्तव्यम् । 'तद्योगं' तयोरुपायविशेषं निवृत्तधर्मे परापरतत्त्वज्ञानरूपं 'अविजानतां' अजानानां सज्जनानां 'तज्ज्ञाप नार्थं' इष्टानिष्टप्राप्तिपरिहारोपायज्ञापनार्थं । 'उत्सन्नं' अपपाठादिना तिरोहितं 'वेदं चतुर्धा' — 'व्यभजत्' इत्यावर्तते, 'ततः प्रागेव वि भक्तं' इति