BharatKosha
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

by श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य)

DevanagariHindipublished1,267 pages

Page 6 of 1267

Read in context
Page 6

( ५ ) कृत्य एतन्नयायोपपत्ति मतभेदेन स्थापयामासुः । तेषां सिद्धान्तान् ( १, २, ३, ) परिशिष्टेषु संकुचिततया प्रश्नोत्तररूपेण अलिखम् । त त्रापि सङ्ग्रहः । जीवब्रह्मणोः भेदो नास्ति । जगत् भ्रान्तिकल्पितम् । भ्रान्तौ निवृत्तायां जगत् न स्फुरतीति, भ्रान्तिकाल तु जगत् सत्यमि ति, जीवेश्वरौ भिन्नावितिं च मत्वा विहितकर्मानुष्ठानं ज्ञानसाधनं च कार्यमिति शङ्कराचार्यः। ईश्वरः जीवः प्रकृतिः एते अनादय इति अत्य न्तभिन्नाश्चेति तत्र जीवः अल्पशक्त्यादिमान् ईश्वरः पूर्णशक्त्यादि मान् ईश्वरप्रसादार्थं सत्कर्मानुष्ठानं कार्यं श्रवणमननादिविचारश्च क र्तव्य इति, ईश्वरप्रसादेन अपरोक्षद्वारा जीवाः शाश्वतसुखं प्रतिपद्य न्त इति, मध्वाचार्यः । ईश्वरः जीवः जडं च एतानि अनादीनि, तत्र चेतनाचेतनात म्कप्रपञ्चः ईश्वरस्य शरीरमिति, शरीरशरीरिणोः भेद इति, ईश्वरप्र सादार्थं सत्कर्मानुष्ठानं श्रवणमननादिकं च कार्यमिति भगवत्प्रसादे नैव जीवाः नित्यसुखं प्राप्नुवन्तीति, रामानुजाचार्यः ॥ ( १० ) सूत्रपाठे विशेषभेदाभावेऽपि विरुद्धसिद्धान्ताः कथं आवि र्भासन् इति चेत् तस्य उपपत्तिकारणानि अनेकानि सन्ति, तानि स ङ्ग्रहेण वदामि ॥ ॥ प्रथमकारणम् ॥ ब्रह्मसूत्रेषु इदं सूत्रं सिदान्तसूत्रं इदं सूत्रं पूर्वपक्षसूत्रं इति वि भागो नास्ति, अतः सर्वाणि सूत्राणि सिद्धान्तसूत्राणीति मध्वाचार्यो मन्यते, कानिचित् सूत्राणि पूर्वपक्षसूत्राणि कानिचित् सूत्राणि सि द्धान्तसूत्राणीति शङ्कररामानुजौ मन्येते, पूर्वपक्षसूत्राङ्गीकारविषये शङ्कररामानुजौ एकतात्पर्यवन्तावपि इदं सूत्रं पूर्वपक्षसूत्रं इति विष ये तयो रैकमत्यं नास्ति । यथा प्रान्तस्थितं प्रथमसूत्रं पूर्वपक्षसूत्र १. नाणुरतच्छ्रुतेरिति मिति शङ्करः, सिद्धान्तसूत्रमिति रामा चेन्नेतराधिकरणात नुजः मन्यते ॥ २-३-२१ शङ्करः २-३-२२ रामानुजाः