Skip to content
BharatKosha
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

by सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री)

DevanagariHindipublished799 pages

Page 140 of 799

Read in context
Page 140

६८ रसतरङ्गिणी भा. टो.—रसशास्त्र में निपुण वैद्य कच्छपयन्त्र के द्वारा भी बालुकायन्त्र की विधि से पारद में षड्गुण गन्धक का जारण कर सकता है ॥ १०५ ॥ षड्गुणबलिजीर्णस्य रसराजस्य गुणाः समे तु गन्धके जीर्णे सामान्यगदनाशनः । द्विगुणे तु विशेषेण महारोगविधूननः ॥ १०६ ॥ त्रिगुणे तु विशेषेणाच्चयपुंस्त्वप्रकाशनः । चतुर्गुणे महोत्साहमेधास्मृतिविवर्धनः ॥ १०७ ॥ तथा पञ्चगुणेऽशेषगदसन्तापनाशनः । रसेश्वरः षड्गुणे तु विविधाद्भुतकार्य्यकृत् ॥ १०८ ॥ इति पारदस्याष्टसंस्कारविज्ञानीयो नाम पञ्चमस्तरङ्गः अथ गन्धकजारणगुणाः—महारोगविधूननः महारोगविनाशनः, विविधा- द्भुतकार्य्यकृत् ‘भवतीति’ शेषः । तथोक्तं शिवागमेऽपि—“तुल्ये तु गन्धके जीर्णे शुद्धाच्छतगुणो रसः । द्विगुणे गन्धके जीर्णे सर्वथा सर्वकुष्ठहा ॥ त्रिगुणे गन्धके जीर्णे सर्वजाड्यविनाशनः । चतुर्गुणे तथा जीर्णे वलीपलितनाशनः ॥ गन्धके पञ्चगुणे जीर्णे क्षयक्षयकरो रसः । षड्गुणे गन्धके जीर्णे सर्वरोगहरो रसः । अवश्यमित्युवाचेदं श्रीदेवीं भैरवः स्वयम् ॥” इति । अथ व्याधिघात- कत्वेन परमावश्यका अष्टौ संस्कारा ग्रन्थकृता केवलमुक्ताः, रसतन्त्रप्रसिद्धा अव- शिष्टाश्च दश नोक्ता इति । वयन्तु जिज्ञासूनां मनोविनोदाय परिभाषाबोधाय च लक्षणतः फलतश्चावशिष्टानुदाहरामो मा भूच्छिन्नसम्प्रदायहानिरिति ॥ तत्र अनुवासन-गगनादिग्रासप्रमाण-चारणा-गर्भद्रुति-वाह्यद्रुति-जारणा-रञ्जन- सारणा-क्रामण-वेधनाख्या दशावशिष्टाः । केचित् शरीरयोगनामकम्परं संस्कारमिच्छन्ति, तन्मतेऽनुवासनं दीपनान्न पृथक् । तत्रादावनुवासनक्रमः— “दीपितं रसराजन्तु जम्बीररससंयुक्तम् । दिनैकं धारयेद् घर्मे मृत्पात्रे वा शिलो- द्भवे ॥” इति प्रथमः । तथा- “सहस्रनिम्बूफलतोयपिष्टो रसो भवेद् वह्निसम- प्रभावः । सव्योषराजीलवणः सचित्रः सरामठो विंशतिवासराणि ॥” इति रसचिन्तामणिप्रोक्तो द्वितीयः । अत्रेदमवधेयम्— “स्वेदनादिनवकर्मसंस्कृतः सप्तकञ्चुकविवर्जितो भवेत् । अष्टमांश इह शिष्यते यदा शुद्धसूत इति कथ्यते तदा ॥” इति रसरत्नाकरकारस्य नित्यनाथस्य वचनम् । अयमाशयः— सप्तभागाः सप्तकञ्चुकसम्बन्धिनोऽपयान्ति पारदस्याष्टमो भागोऽवशिष्यते ॥ अथ गगनादिग्रासप्रमाणम्—“यन्मानस्य सूतस्य भोजद्रव्यात्मिका मितिः ।