BharatKosha
रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

by सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री)

DevanagariHindipublished799 pages

Page 185 of 799

Read in context
Page 185

१० षष्ठस्तरङ्गः १४५

मिशिबालाभयाक्वाथैर्यवानीचूर्णेकेन वा। बिडाख्यलवणेनैव गुल्मे वा विनियोजयेत् ॥२२०॥ क्वाथेन दशमूलस्य शिरःशूले प्रयोजयेत्। व्रणेषु बृहतीनीरगुडूचीविश्वभेषजैः ॥२२१॥ गुडूचिकाशतावरीकणारसाभयान्वितैः। वचाब्दविश्वभेषजैः कषायकं प्रकल्पयेत् ॥२२२॥ रसोऽत्र तेन संयुतो यथाविधि प्रयोजितः। निहन्ति वै चिरोत्थितं प्रकाममामवातकम् ॥२२३॥ शाल्मलीमूलचूर्णेन विदार्यादिगणेन वा। प्रयुक्तो रससिन्दूरो वाजीकरण उत्तमः ॥२२४॥ भस्मना गगनस्येह काञ्चनेन मृतेन वा। उभाभ्यामेव वा युक्तो धातुवृद्धिकरो मतः ॥२२५॥ जातीफलं देवपुष्पं कर्पूरञ्चाहिफेनकम्। एषां चूर्णेन सहितो श्वप्रमेहहरो मतः ॥२२६॥ बलाक्वथिततोयेन सिन्दूररससेवनात्। विनश्यति चिरोद्भूतं शीर्षकम्पनमुद्धतम् ॥२२७॥ जरणत्र्यूषणक्षुद्रापथ्याधानेयकैः समम्। निषेवितोऽयं सिन्दूरो वान्तिशान्तिकरो मतः ॥२२८॥ हिङ्गुदीप्यकशुण्ठीभिश्चव्यधान्याकरुच्यकैः। प्रयुक्तो रससिन्दूरो द्रुतं पानात्ययं जयेत् ॥२२९॥ चव्यटंकणसंयुक्तः शीलितोदिनसप्तकम्। रसः सिन्दूरसंज्ञोऽयं पक्तिशूलं विनाशयेत् ॥२३०॥ वासाकषायसहितो लोध्रक्वाथान्वितोऽथवा। शीलितो रससिन्दूरो रक्तप्रदरमुद्धरेत् ॥२३१॥ वराक्वाथेन वा गेहनीरेण सहसैन्धवम्। शीलितो रससिन्दूरो बस्तिकुण्डलमुद्धरेत् ॥२३२॥ नवज्वरे प्रतिश्याये शिशूनां सुरसारसैः। कासे श्वासे च वितरेत् कण्टकारीरसेन च ॥२३३॥ परिच्छेदो न विज्ञेयः सहपानानुपानयोः। प्रकल्पयेद् यथारोगं सिद्धहस्तो भिषग्वरः ॥२३४॥