BharatKosha
Back to the archive

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

by महाकवि भास / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished204 pages

षष्ठ अङ्क: घोषवती वीणा प्राप्ति, प्रत्यभिज्ञान व उपसंहार

Page 166Permalink

पञ्चमोऽङ्कः । १९ राजा — वयस्यै¹! मा मैवम् , शय्यायामवसुप्तं मां बोधयित्वा सखे! गता । दग्धेति ब्रुवता पूर्वं वञ्चितोऽस्मि रुमण्वता ॥ ८ ॥ विदूषकैः —² (क) अविहा असम्भावणीअं एदं³ ण । आ उदअण्णाणसङ्कित्तणेण तत्तहोदिं चिन्तअन्तेण⁵ सा सिविणे दिट्ठा भवे । राजा — यदि तावदयं स्वप्नो धन्यमप्रतिबोधनम् । अथायं विभ्रमो वा स्याद् विभ्रमो ह्यस्तु मे चिरम् ॥ ९ ॥ विदूषकः — (ख) मा दाणि भवं अत्ताणं⁴ ओहसिअं कादुं । किन्तु इमस्सिं राअउळे अवन्तिसुन्दरी णाम जक्खिणी पडिव- सदि । सा तुए दिट्ठा⁶ भवे । राजा — न न, स्वप्नस्यान्ते विबुद्धेन नेत्रविप्रोषिताञ्जनम् । चारित्रमपि रक्षन्त्या दृष्टं दीर्घाळकं मुखम् ॥ १० ॥ अपिच वयस्य ! पश्य पश्य, (क) अविहा असम्भावनीयमेतद् न । आ उदयज्ञानसङ्कीर्तनेन तत्रभवतीं चिन्तयता सा स्वप्ने दृष्टा भवेत् । (ख) मेदानीं भवानात्मानमवहसितं कर्तुम् । किन्त्वस्मिन् राजकुलेऽवन्तिसुन्दरी नाम यक्षिणी प्रतिवसति । सा त्वया दृष्टा भवेत् । १. ‘स्य ! श’ क. पाठः. २. ‘वः — आ’ ख. पाठः. ३. ‘दम् । ण अ’ क. पाठः ४. ‘हा’ क. पाठः. ५. ‘अणत्थं चिन्तिआइ’ ख. पाठः. ६. ‘ष्ठा । रा’ ख पाठः.

Page 167Permalink

१० स्वप्नवासवदत्ते योऽयं सन्त्रस्तया देव्या तया बाहुर्निपीडितः । स्वप्नेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति¹ ॥ ११ ॥ विदूषकः — (क) मा दाणि भवं अणत्थं चिन्तिअ । एदु एदु भवं । चउस्साळं पविसामो । (प्रविश्य) काञ्चुकीयः — जयत्वार्यपुत्रः । अस्माकं महाराजो दर्शको भवन्तमाह — एष खलु भवतोऽमात्यो रुमण्वान् महता बलस- मुदयेनोपयात: खल्वारुणिमभिघातयितुम्³ । तथा हस्त्यश्वरथपदा- तीनि मामकानि विजयाङ्गानि सन्नद्धानि । तदुत्तिष्ठतु भवान्⁴ । अपिच, भिन्नास्ते रिपवो भवद्गुणरताः पौराः समाश्वासिताः पार्ष्णी चापि* भवेत्⁵प्रयाणसमये तस्या विधानं कृतम् । यद्यत् साध्यमरिप्रमाथजननं तत्तन्मयानुष्ठितं तीर्णा चापि बलैर्नदी त्रिपथगा वत्साश्च हस्ते तव ॥ १२ ॥ राजा⁶ — बाढम् । अयमिदानीम्, (क) मेदानीं भवाननर्थं चिन्तयित्वा । एत्वेतु भवान् । चतुःशालं प्रविशावः । १. 'ति । प्रवि' ख. पाठः. २. 'रि' क. पाठः. ३. 'म् । ह' क. पाठः. ४. 'न् । भि' ख. पाठः. ५. 'वान् प्र' ख. पाठः. ६. 'जा-अ' ख. पाठः.

  • 'चापि' इत्यस्य स्थाने 'यापि' इत्येव पाठः स्यात् । उत्थास्यतः पार्ष्णिशुद्धिरपेक्षितानेन वा- क्येन प्रतिपाद्यते । स्त्रीलिङ्गेऽपि पार्ष्णिशब्दोऽस्ति । ततः 'कृदिकारादक्तिन' इति ङीषि पार्ष्णी- शब्दोऽपि भवति । 'पार्ष्णीर्यापि' इत्येव वा पाठो भवेत् ।
Page 168Permalink

पञ्चमोऽङ्कः । ६१ उपेत्य नागेन्द्रतुरङ्गतीर्णे तमारुणिं दारुणकर्मदक्षम् । विकीर्णबाणोग्रतरङ्गभङ्गे महार्णवाभे युधि* नाशयामि ॥ १३ ॥ (निष्क्रान्ताः सर्वे) पञ्चमोऽङ्कः । १. 'कौ' ख. पाठः.

  • अस्मादेव प्रयोगाद् युच्छब्दः पुंस्यपि द्रष्टव्यः । संयच्छब्दवत् । संयच्छब्दव्याख्यायां हि अमरटीकासर्वस्वकार आह — “रवेजि संयत्यतुलाङ्गगौरवे’ इति दण्डिना पुमान् संयत् प्रयुक्तः” इति ।
Page 169Permalink

अथ षष्ठोऽङ्कः । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः — क इह भोः ! रै¹त्नतोरणद्वारमशून्यं कुरुते । (प्रविश्य) प्रतीहारी — (क) अय्य ! अहं विजआ । किं करीअदु । काञ्चुकीयैः — भवति ! निवेद्यतां निवेद्यतां वत्सराज्यलौ³- भप्रवृद्धोदयायोदयनाय — एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयः प्राप्तः, तत्रभवत्या चाङ्गारवत्या प्रेषितार्य्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतीहारमुपस्थिता इति । प्रतीहारी — (ख) अय्य ! अदेसकालो पडिहारस्स । काञ्चुकीयः — कथमदेशकालो नाम । प्रतीहारी — (ग) सुणादु अय्यो । अज्ज भट्टिणो (सु?स)- य्याँमहाप्पासादगदेण केण वि वीणा वादिदा । तं च सुणिअ भट्टिणा भणिअं — घोसवदीए सद्दो विअ सुणीअदि त्ति । काञ्चुकीयः — ततस्ततः । (क) आर्य ! अहं विजया । किं क्रियताम् । (ख) आर्य ! अदेशकालः प्रतिहारस्य । (ग) शृणोत्वार्यः । अद्य भर्तुः शय्यामहाप्रासादगतेन केनापि वीणा वादिता । तां च श्रुत्वा भर्त्रा भणितं घोषवत्याः शब्द इव श्रूयते इति । १. ‘काञ्चनतो’ ख. पाठः. २. ‘यः - विजय ! नि’ ख. पाठः. ३. ‘लो’ ख. पाठः. ४. ‘यै’ ख. पाठः. ५. ‘वि’ ख. पाठः. ६. ‘णा’ क. पाठः ७. ‘आमुण्णपा’ ख. पाठः. ८. ‘अ भणि’ ख. पाठः.

Page 170Permalink

षष्ठोऽङ्कः । ६३ प्रतीहारी — (क) तदो तहिं गच्छिअ पुच्छिदो — कुदो इमाए वीणाए आगमो त्ति । तेण भणिअं — अम्हेहिं णम्मदा- तीरे कोय्यगुम्मळग्गा दिट्ठत्ति । जइ प्पओअणं इमाए, उव- णीअदु भट्टिणेत्ति । तं च उवणी²दं अङ्के करिअ मोहं गदो भट्‍टा । तदो मोहप्पच्चागदेण *बप्पपय्याउ(ळेण मुच्छहण?) भट्टिणा भणिअं — दिट्ठासि घोसवदि ! सा हु ण दिस्सदि त्ति । अय्य ! ईदिसो अणवसरो । कहं णिवेदे³मि । काञ्चुकीयः — भवति ! निवेद्यताम् । इदमपि तदाश्रय- मेव । प्रतीहारी — (ख) अय्य ! इअं णिवेदेमि ४ । एसो भट्‍टा (सु?स) य्यामहप्पासादादो ओदरइ । ता इह एव्व णिवेदइस्सं । काञ्चुकीयः — भवति ! तथा । (उभौ निष्क्रान्तौ) विष्कम्भः । (क) ततस्तत्र गत्वा पृष्टः — कुतोऽस्या वीणाया आगम इति । तेन भणितम्— अस्माभिर्नर्मदातीरे (कोय्य?)गुल्मलग्ना दृष्टेति । यदि प्रयोजनमनया, उपनीयतां भर्त्रेति । तां चोपनीतामङ्के कृत्वा मोहं गतो भर्ता । ततो मोहप्रत्यागतेन बाष्पपर्याकुलोच्छूनमु- खेन भर्त्रा भणितं — दृष्टासि घोषवति ! सा खलु न दृश्यत इति । आर्य ! ईदृशो- ऽनवसरः । कथं निवेदयामि । (ख) आर्य ! इयं निवेदयामि । एष भर्ता शय्यामहाप्रासादादवतरति । तदिहैव निवेदयिष्यामि । १. 'णो' ख. पाठः. २. 'रणिदं' क. पाठः. ३. 'दि' ख. पाठः. ४. मि । (निष्क्रा- न्ता) मिश्रवि' ख. पाठः.

  • 'ळेणमुच्छुहण' इत्यस्य स्थाने 'लोच्छुणमुहेण' इति पठनीयं भाति । बाष्पपर्याकुलोच्छू- नमुखेन' इति च संस्कृतं समग्रपदस्य बोद्धव्यम् ।
Page 171Permalink

६४ स्वप्नवासवदत्ते (ततः प्रविशति राजा विदूषकश्च) राजा -- श्रुतिसुखनिनादे¹! कथं नु देव्याः स्तनयुगले जघनस्थले च सुप्ता। विहगगणरजोविकीर्णदण्डा प्रतिभयमध्युषितास्यरण्यवासम् ॥ १ ॥ अपिच, अस्निग्धासि घोषवति! या तपस्विन्या न स्मरसि, श्रोणीसमुद्वहनपार्श्वनिपीडितानि स्वेद²स्तनान्तरसुखान्यपगूहितानि । उद्दिश्य मां च विरहे परिदेवितानि वाद्यान्तरेषु कथितानि च सस्मितानि ॥ २ ॥ विदूषकः — (क) अलं दाणि भवं अदिमत्तं³ सन्तप्पिअ । राजा — वयस्य! मा मैवं; चिरप्रसुप्तः कामो मे वीणया प्रतिबोधितः । तां तु देवीं न पश्यामि यस्या घोषवती प्रिया ॥ ३ ॥ वसन्तक! शिल्पिजनसकाशाद्भवयोगां घोषवतीं कृत्वा शीघ्र- मानय । विदूषकः — (ख) जं भवं आणवेदि⁴। (वीणां गृहीत्वा निष्क्रान्तः) (क) अलमिदानीं भवानतिमात्रं सन्तप्य । (ख) यद् भवानाज्ञापयति । १. 'रखमथुरो' (?) ख. पाठः. २. 'खे' क. पाठः. ३. 'वं। रा' ख. पाठः. ४. 'दि। नि' ख. पाठः.

Page 172Permalink

षष्ठोऽङ्कः । ६५ (प्रविश्य) प्रतीहारी — (क) जेदु भट्टा । एसो खु महासेणस्स सआ- सादो रब्भसगोत्तो कञ्चुईओ देवीएँ अङ्गारवदीए पेसिदा अय्या वसुन्धरा णाम वासवदत्ताधत्ती अ पडिहारं उवद्विदा । राजा — तेन हि पद्मावती तावदाहूयताम् । प्रतीहारी — (ख) जं भट्टा आणवेदि । (निष्क्रान्ता) राजा — किन्न्वखलु शीघ्रमिदानीमयं वृत्तान्तो महासेनेन विदितः । (ततः प्रविशति पद्मावती सपरिवारा) प्रतीहारी — (ग) एदु एदु भट्टिदारिआ । पद्मावती — (घ) जेदु अय्यउत्तो । राजा — पद्मावति ! किं श्रुतं महासेनस्य सकाशाद् रैभ्य- सगोत्रः काञ्चुकीयः प्राप्तस्तत्रभवत्या चाङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थिताविति । पद्मावती — (ङ) अय्यउत्त ! पिअं मे णाँदिकुळस्स कुसळ- वृत्तन्तं सोदुं । (क) जयतु भर्ता । एष खलु महासेनस्य सकाशाद् रैभ्यसगोत्रः काञ्चुकीयो देव्याङ्गारवत्या प्रेषितार्या वसुन्धरा नाम वासवदत्ताधात्री च प्रतिहारमुपस्थितौ । (ख) यद् भर्ताज्ञापयति । (ग) एत्वेतु भर्तृदारिका । (घ) जयत्वार्यपुत्रः । (ङ) आर्यपुत्र ! प्रियं मे ज्ञातिकुलस्य कुशलवृत्तान्तं श्रोतुम् । १. 'ई दे' क. पाठः. २. 'ए पे' ख. पाठः. ३. 'ज्ञा' क. पाठः.

Page 173Permalink

६६ स्वप्नवासवदत्ते राजा — अनुरूपमेतद् भवत्याभिहितं — वासवदत्ता- स्वजनो मे स्वजन इति । पद्मावति ! आस्यताम् । किमिदानीं नास्यते । पद्मावती — (क) अय्यउ(त्त?त्तो) किं मए सह उवविट्ठो एदं जणं पेक्खिस्सदि । राजा — कोऽत्र दोषः । पद्मावती — (ख) अय्यउत्तस्स अवरो परिग्गहो त्ति उदा- सीणं विअ होदि । राजा — कलत्रदर्शनाहं जनं कलत्रदर्शनात् परिहरतीति बहुदोषमुत्पादयति । तस्मादास्यताम् । पद्मावती — (ग) जं अय्यउत्तो आणवेदि । (उपविश्ये) अय्यउत्त ! तादो वा अम्बा वा किंणुखु भणिस्सदि त्ति आवि- ग्गा विअ संवृत्ता । राजा — एवमेतत् । किं वक्ष्यतीति हृदयं परिशङ्कितं मे कन्या मयाप्यपहृता न च रक्षिता सा । (क) आर्यपुत्रः किं मया सहोपविष्ट एतं जनं प्रेक्षिष्यते । (ख) आर्यपुत्रस्यापरः परिग्रह इति उदासीनमिव भवति । (ग) यदार्यपुत्र आज्ञापयति । आर्यपुत्र ! तातो वाम्बा वा किन्नुखलु भणिष्यती- त्याविग्ने १ संवृत्ता । १. 'काञ्चुकीयः—अ' क. पाठः. २. 'शति)' क. पाठः.

Page 174Permalink

षष्ठोऽङ्कः। ६७ भाग्यैश्चलैर्महँ*दवाप्तगुणोपघातः पुत्रः पितुर्जनितरोष इवास्मि भीतः ॥ ४ ॥ (ततः प्रविशति काञ्चुकीयः धात्री प्रतीहारी च) काञ्चुकीयः — भोः! सम्बन्धिराज्यमिदमेत्य महान् प्रहर्षः स्मृत्वा पुनर्नृपसुतानिधनं विषादः । किं नाम दैव ! भवता न कृतं यदि स्याद् राज्यं परैरपहृतं कुशलं च देव्याः ॥ ५ ॥ प्रतीहारी — (क) एसो भट्टा, उवसप्पदु अय्यो । काञ्चुकीयैः — (उपेत्य) जयत्वार्यपुत्रः । धात्री — (ख) जेदु भट्टा । राजा — (सबहुमानम्) आर्य ! पृथिव्यां राजवंश्यानामुदयास्तमयप्रभुः । अपि राजा स कुशली मया काङ्क्षितबान्धवः ॥ ६ ॥ (क) एष भर्ता, उपसर्पत्वार्यः । (ख) जयतु भर्ता । १. 'तः ॥ पद्मावती—अय्यउत्त ! कीस किक्खिदु पत्तकाळे । प्रताहारी — असौ कञ्चुकीओ धत्ती अ पडिहारं उवविट्ठा। राजा—शीघ्रं प्रवेश्यताम्। प्रतीहारी—जं भट्टा आणवेदि (निष्क्रान्ता) (त' ख. पाठः. २. 'यः—ज' ख. पाठः.

  • महदिति भयक्रियाविशेषणम् ।
Page 175Permalink

१८ स्वप्नवासवदत्ते काञ्चुकीयः— अथकिम् । कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति । राजा— (उत्थाय) किमाज्ञापयति महासेनः । काञ्चुकीयः— सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थे- नैव भवता श्रोतव्यो महासेनस्य सन्देशः । राजा— यदाज्ञापयति महासेनः । (उपविशति) काञ्चुकीयः— दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीत- मिति । कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते । प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥ ७ ॥ राजा— सर्वमेतन्महासेनस्य प्रभावैः । अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो मया न च रक्षिता । निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥ काञ्चुकीयः— एष महासेनस्य सन्देशैः । देव्याः सन्दे- शमिहात्रभवती कथयिष्यति । राजा— हा अम्ब ! षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता । मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ ९ ॥ १. 'जा- (आसनादुत्था' ख. पाठः. २. 'वः । कुतः, अ' ख. पाठः. ३. 'शः । तत्रभवत्याः स' ख. पाठः.

Page 176Permalink

षष्ठोऽङ्कः । ३९ धात्री — (क) अरोआ भट्टिणी भट्‍टारं सव्वगदं कुसळं पुच्छदि । राजा — सर्वगतं कुशलमिति । अम्ब! ईदृशं कुशलम् । धात्री — (ख) मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं । काञ्चुकीयः — धारयत्वार्यपुत्रः । उपरताप्यनुपरता महा- सेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मा वनानां काले काले छिद्यते रुह्यते च ॥ १० ॥ राजा — आर्य ! मा मैवम् । महासेनस्य दुहिता शिष्या देवी च मे प्रिया । कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥ ११ ॥ धात्री — (ग) आह भट्टिणी — उवरदा वासवदत्ता । मम वा महासेणस्स वा जादिसो गोवाळअवालओ† तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुआत्ति । एदण्णिमित्तं उज्जइणिं (क) अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । (ख) मेदानीं भर्तातिमात्रं सन्तप्तुम् । (ग) आह भट्टिनी — उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशो गोपालकपालकस्तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमा- १. 'प्पिअ । (ही ? ईरि ) सं दाणिं एदं' ख. पाठः. २. 'ना ह्यार्ये' ख. पाठः. ३. 'कु' ख. पाठः. † गोपालको वासवदत्ताभ्राता ।

Page 177Permalink

७० स्वप्नवासवदत्ते आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा। अत्तणो चवळदाए अणिव्वुत्तविवाहमङ्गळो एव्व गदो। अहअ अम्हेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफळआए आलिहिअ विवाहो णिव्वुत्तो। एसा चित्तफळआ तव सआसं पेसिदा। एदं पेक्खिअ णिव्वुदो होहि। राजा — अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या। वाक्यमेतत् प्रियतरं राज्यलाभशतादपि। अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥ १२ ॥ पद्मावती — (क) अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि। ⁺धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ। (चित्रफलकां दर्शयति) पद्मावती — (दृष्ट्वा आत्मगतम्) (ग) हं अदिसदिसी खु इअं अय्याए आवन्तिआए। (प्रकाशम्) अय्यउत्त! सदिसी खु इअं अय्याए। नीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथचावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव। (क) आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि। (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका। (ग) हम् अतिसदृशी खल्वियमार्याया आवन्तिकायाः। आर्यपुत्र! सदृशी खल्वि- यमार्यायाः। ⁺ एतदारभ्य णेवेत्तीत्यन्तं ख. पुस्तके नास्ति।

Page 178Permalink

षष्ठोऽङ्कः । ७१ राजा — न सदृशी । सैवेति मन्ये । अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् । इदं च मुखमाधुर्यं कथं *जूषितमग्निना ॥ १३ ॥ पद्मावती — (क) अय्यउत्तस्स पडिकिदिं पेक्खिअ जा- णामि इअं अय्याए सदिसि ण वेत्ति । धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ । पद्मावती¹ — (दृष्ट्वा) (ग) अय्यउत्तस्स पडिकिदीए सदिस- दाए जाणामि इअं अय्याए सदिसि² त्ति । राजा³ — देवि ! चित्रदर्शनात् प्रभृति४ प्रहृष्टोद्विग्नामिव त्वां पश्यामि । किमिदम् । पद्मावती — (घ) अय्यउत्त ! इमाए पडिकिदीए ‡सदिसी इह पडिवसदि । राजा — न किं वासवदत्ता । (आम् ?) (क) आर्यपुत्रस्य प्रतिकृतिं प्रेक्ष्य जानामीयमार्यया सदृशी नवेति । (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका । (ग) आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयमार्यया सदृशीति । (घ) आर्यपुत्र ! अस्याः प्रतिकृत्याः सदृशीह प्रतिवसति । १. 'ती—अय्यउत्तपडिकिदिसदितिसाभाए जा' ख. पाठः. २. 'सी किं।' ख. पाठः. ३. 'जा—पद्मावति ! चिं' ख. पाठः. ४. 'ति हृ' ख. पाठः.

  • 'यूष हिंसायां, जूष च' इति भ्वादौ । ‡ एतदारभ्य 'आनीयताम्' इत्यन्तं ख. पुस्तके त्रुटितम् ।
Page 179Permalink

७२ स्वप्नवासवदत्ते पद्मावती — आम। राजा — तेन हि शीघ्रंमानीयताम्। पद्मावती — (क) अय्यउत्त! मम कण्णाभावे केण वि बह्मणेण मम भइणिअत्ति ण्णासो णिक्खित्तो। पोसिद्भत्तुआ परपुरुसदंसणं परिहरदि। ‡ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो। राजा — यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति। परस्परगता लोके दृश्यते रूपतुल्यता॥ १४॥ (प्रविश्य) प्रतीहारी — (ख) जेदु भट्टा। एसो उज्जइणीओ बह्मणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडि- ग्गाहिदुं पडिहारं उवट्ठिदो। राजा — पद्मावति! किन्नु स ब्राह्मणः। पद्मावती — (ग) होदव्वं। (क) आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षि- प्तः। प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तदार्या मया सहागतां प्रेक्ष्य जाना- त्वार्यपुत्रः। (ख) जयतु भर्ता। एष उज्जायनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः। (ग) भवितव्यम्। १. 'णीह' ख. पाठः. २. 'त्ये ण्णा' ख. पाठः. ३. 'दुं उ' ख. पाठः. ‡ 'ता' इत्यादि वाक्यं ख. पुस्तके नास्ति।

Page 180Permalink

षष्ठोऽङ्कः । ७३ राजा — शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः । प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता) *राजा — पद्मावति ! त्वमपि तामानय । पद्मावती — (ख) जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) (ततः प्रविशति यौगन्धरायणः प्रतीहारी च) यौगन्धरायणः — (टो?भोः) (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य । सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ १५ ॥ प्रतीहारी — (ग) एसो भट्टा । उवसप्पदु अय्यो । यौगन्धरायणः — जयतु भवान् जयतु । राजा — श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । यौगन्धरायणः — अथकिम् । (क) यद् भर्ताज्ञापयति । (ख) यद् आर्यपुत्र आज्ञापयति । (ग) एष भर्ता । उपसर्पत्वार्यः । १. 'णः प्र' क. पाठः. * 'राजे'त्यादि 'निष्क्रान्ता' इत्यन्तं ख. पुस्तके नास्ति ।

Page 181Permalink

७४ स्वप्नवासवदत्ते राजा — तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका । प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता) (ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च) पद्मावती — (ख) एदु एदु अय्या । पिअं दे णिवेदेमि । आवन्तिका — किं ३ किं । पद्मावती — (ग) भादा दे आअदो । आवन्तिका — (घ) दिट्ठिआ ४ इदाणिं पि सुमरदि । पद्मावती — (ङ) जेदु अय्यउत्तो ५ । एसो णासो । राजा — पद्मावति ! साक्षिमान् ६ न्यासो निर्यातयितव्यः ।

  • १ अत्रभवान् रैभ्यः, ७ अत्रभवती चाधिकरणं भविष्यतः । पद्मावती — (च) अम्बँ ! इअं दाणि अय्या । धात्री — (आवन्तिकां निर्वर्ण्य) ८ (छ) अम्मो ९ भट्टिदारिआ वासव- दत्ता । (क) यद् भर्त्ताज्ञापयति । (ख) एत्वेत्वार्या । प्रियं ते निवेदयामि । (ग) भ्राता ते आगतः । (घ) दिष्ट्येदानीमपि स्मरति । (ङ) जयत्वार्यपुत्रः । एष न्यासः । (च) अम्ब ! इयमिदानीमार्या । (छ) अम्मो भर्तृदारिका वासवदत्ता । १. 'जा-त्व' ख. पाठः. २. 'ए' क. पाठः. ३. 'किं ।' ख. पाठः. ४. 'ट्टी दाणिं सु' ख. पाठः. ५. 'त्तो । रा' क. पाठः. ६. 'म' क. पाठः. ७. 'भ्य' क. पाठः. ८. 'त्री नि' ख. पाठः. ९. 'ह्यो' ख. पाठः.
Page 182Permalink

षष्ठोऽङ्कः । ७५ राजा — कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायणः — नखलु नखलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । राजा — §किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः — भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥ १६ ॥ राजा — भवतु पश्यामस्तावद्¹ रूपसादृश्यम् । संक्षिप्यतां यवनिका । यौगन्धरायणः — जयतु स्वामी । वासवदत्ता — (क) जेदु अय्यउत्तो । राजा — अये असौ यौगन्धरायणः, इयं महासेनपुत्री । (उभौ समाश्लिष्य) किन्नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया । अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा‡ ॥ १७ ॥ यौगन्धरायणः — स्वामिन् ! देव्यपनयेन कृतापराधः ख- ल्वहम् । तत् क्षन्तुमर्हति स्वामी । (पादयोः पतति) (क) जयत्वार्यपुत्रः । १. ‘त्र सा’ ख. पाठः. §. राजवचनं नास्ति ख. पुस्तके । ‡ तदा स्वप्नसमये ।

Page 183Permalink

७६ स्वप्नवासवदत्ते राजा — (उत्थाप्य) यौगन्धरायणो भवान् ननु । मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः । भवद्बलैः खलु वयं †मज्जमानाः समुद्धृताः ॥ १८ ॥ यौगन्धरायणः — स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती — (क) अम्मेहे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि* । वासवदत्ता³ — (पद्मावतीमुत्थाप्य) (ख) उट्ठेहि उट्ठेहि अवि- हवे! उट्ठेहि । अत्थिँसं⁴ णाम सरीरं अवरज्झइ । राजाँ⁵ — वयस्य यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः — कौशाम्बीमात्रं परिपालयामीति । राजा — अथ पद्मावत्या हस्ते किं न्यासकारणम् । यौगन्धरायणः — पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वा- मिनो देवी भविष्यतीति । राजा — इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणँः⁶ — स्वामिन्! सर्वैरेव ज्ञातम् । (क) अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणातिक्रान्तः समुदाचा- रः, तत् शीर्षेण प्रसादयामि । (ख) उत्तिष्ठोत्तिष्ठाविद्यवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति । १. 'वयस्य ! यौ' ख. पाठः. २. 'म्मो अ' ख. पाठः. ३. 'त्ता उत्था' ख.पाठः. ४. 'विक्ख' ख. पाठः. ५. 'जा—यौ' ख. पाठः. ६. 'णः स्' ख. पाठः. † मज्जमाना मज्जनशीलाः । * एतदुत्तरं ('पादयोः पतति' ) इति पठितुमर्हम् ।

Page 184Permalink

षष्ठोऽङ्कः । ७७ राजा — अहो शठः खलु रुमण्वान् । यौगन्धरायणः -- स्वामिन् ! देव्याः कुशलनिवेदनार्थ- मद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च । राजा -- सर्व एव वयं यास्यामो देव्या पद्मावत्या सह । (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । इति स्वप्ननॉटक(म)वसितम् । शुभं भूयात् । १. 'भ्य इहात्र' क. पाठः. २. 'जा-न्तु स' ख. पाठः. ३. 'न्तां' क. पाठः. ४. 'वासवदत्ता समाप्ता ।' ख. पाठः.

Page 185Permalink

इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है (यह पृष्ठ रिक्त/ब्लैंक है)।