BharatKosha
Back to the archive

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

by महाकवि भास / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished204 pages
Page 108Permalink

॥ श्रीः ॥ श्रीगणेशाय नमः । महाकविश्रीभासप्रणीतं स्वप्नवासवदत्तम् । (नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः — *उदयनवेन्दुसवर्णोवासवदत्ताबलो बलस्य त्वाम् । पद्मावतीर्णपूर्णौ वसन्तकम्रौ भुजौ पाताम् ॥ १ ॥ एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञा- पनव्यग्रे शब्द इव श्रूयते । अङ्ग ! पश्यामि । (नेपथ्ये) (क) उस्सरह उस्सरह अय्या ! उस्सरह । सूत्रधारः — भवतु, विज्ञातम् । (क) उत्सरतोत्सरतार्याः ! उत्सरत ।

  • उदयनवेन्दुसवर्णौ उदयकालनूतनचन्द्रतुल्यवर्णौ दत्तमासवं मद्यं यस्यै सा आसव- दत्ता । दत्तशब्दपरनिपात आहिताग्न्यादि(२. २. ३७)त्वात्, तथाभूताबला याभ्यां तौ आस- वदत्ताबलो पद्मावतीर्णपूर्णौ लक्ष्म्याविर्भावसमृद्धौ वसन्ते कम्रौ मनोज्ञौ तत्कालोचितशृङ्गारवेष- परिग्रहात्, वसन्ताख्यतालविशेषमनोज्ञौ वा बलस्य बलभद्रस्य भुजौ त्वां पातां रक्षताम् । अत्र मुद्रालङ्कारविधया प्रधानपात्राणाम् उदयन-वासवदत्ता-पद्मावती-वसन्तकानां निर्देशः कृतः ।
Page 109Permalink

२ स्वप्नवासवदत्ते भृत्यैर्मगधराजस्य स्निग्धैः कन्यानुगामिभिः । धृष्टमुत्सार्यते सर्वस्तपोवनगतो जनः ॥ २ ॥ (निष्क्रान्तः) स्थापना । (प्रविश्य) भटौ — (क) उस्सरह उस्सरह अय्या ! उस्सरह । (ततः प्रविशति परिव्राजकवेषो यौगन्धरायणः आवन्तिकावेषधारिणी वासवदत्ता च) यौगन्धरायणः — (कर्णं दत्त्वा) कथमिहाप्युत्सार्यते । कुतः, धीरस्याश्रमसंश्रितस्य वसतःस्तुष्टस्य वन्यैः फलै- र्मानार्हस्य जनस्य वल्कलवतस्त्रासः समुत्पाद्यते । उत्सिक्तो विनयादपेतपुरुषो भाग्यैश्चलैर्विस्मितः कोऽयं भो निभृतं तपोवनमिदं ग्रामीकरोत्याज्ञया ॥ ३ ॥ वासवदत्ता — (ख) अय्य ! को एसो उस्सारेदि । यौगन्धरायणः — योऽधर्मो(द्)दामात्मानमुत्सारयति । वासवदत्ता — (ग) अय्य ! ण हि ५ एव्वं वत्तुकामा, अहं वि णाम ६ उस्सारइदव्वा होमि त्ति । (क) उत्सरतोत्सरतार्याः ! उत्सरत । (ख) आर्य ! क एष उत्सारयति । (ग) आर्य ! न ह्येवं वक्तुकामा, अहमपि नामोत्सारयितव्या भवामीति । १. 'ततः प्रविशतः साधारणौ' ख. पाठः. २. 'साधारणौ — उ' ख. पाठः. ३. 'सो' ग. पाठः. ४. 'त्युत्सुको ॥' ख. पाठः. ५. 'हु' ख. पाठः. ६. 'दाव उ' ख. पाठः.

Page 110Permalink

प्रथमोऽङ्कः । ३ यौगन्धरायणः — भवति! एवमनिर्ज्ञातानि दैवतान्यवधू- यन्ते । वासवदत्ता —(क) अय्य ! तह परिस्समो परिखेदं ण उप्पा- देदि, जह अअं परिभवो । यौगन्धरायणः — भुक्तोज्झित एष विषयो३ऽत्रभवत्या । नात्र चिन्ता कार्या । कुतः, पूर्वं त्वयाप्यभिमतं गतमे(वा?वमा)सी- च्छ्लाघ्यं गमिष्य(ति?सि) पुनर्विजयेन भर्तुः । कालक्रमेण जगतः परिवर्तमाना चक्रारपङ्क्तिरिव गच्छति भाग्यपङ्क्तिः ॥ ४ ॥ भटौ — (ख) उस्सरह उस्सरहं । (ततः प्रविशति काञ्चुकीयः) काञ्चुकीयः — सम्भषक ! नखलु नखलूत्सारणा कार्या । पश्य, परिहरतु भवान्६ नृपापवादं न परुषमाश्रमवासिषु प्रयोव्यम्७ । ˙नगरपरिभवान्८ विमोक्तुमेते वनमभिगम्य मनस्विनो वसन्ति ॥ ५ ॥ (क) आर्य ! तथा परिश्रमः परिखेदं नोत्पादयति, यथायं परिभवः । (ख) उत्सरतोत्सरत । १. 'णः —एं' ख. पाठः. २. 'त्तहं प' ख. पाठः. ३. 'यस्तत्र' ख. पाठः. ४. 'उभौ— उ' ख. पाठः. ५. 'ह अय्या। उस्सरह । त' ख. पाठः. ६. 'वो नृ' क. पाठः. ७. 'ज्य।' क. पाठः. ८. 'द्वि मो' ख. पाठः.

Page 111Permalink

उभौ — (क) अय्य! तह। (निष्क्रान्तौ) यौगन्धरायणः — हन्त सविज्ञानमस्य दर्शनम्। वत्से! उपसर्पावस्तावदेनम्¹। वासवदत्ता — (ख) अय्य! तह। यौगन्धरायणः — (उपसृत्य) भोः! किङ्कृतेयमुत्सारणा। काञ्चुकीयः — भोस्तपस्विन्! यौगन्धरायणः — (आत्मगतम्) तपस्विन्निति गुणवान् खल्व- यमालापः। अपरिचयात्तु न श्लिष्यते‡ मे मनसि। काञ्चुकीयः — भोः! श्रूयताम्। एषा खलु गुरुभिरभिहि- तनामधेयस्यास्माकं महाराजदर्शकस्य भगिनी पद्मावती नाम। सैषा नो महाराजमातरं महादेवीमाश्रमस्थामभिगम्यानुज्ञाता तत्रभवत्या राजगृहमेव यास्यति²। तद् अद्यास्मिन्नाश्रमपदे वासो- ऽभिप्रेतोऽस्याः। तद्भवन्तः, तीर्थोदकानि समिधः कुसुमानि दर्भान् स्वैरं वनादुपनयन्तु तपोधनानाम्। धर्मप्रिया नृपसुता न हि धर्मपीडा- मिच्छेत् तपस्विषु कुलव्रतमेतदस्याः ॥ ६ ॥ (क) आर्य! तथा। (ख) आर्य! तथा। १. 'नम्। (उपगम्य) भोः' ख. पाठः. २. 'ति। अ' क. पाठः. ‡ कर्मवद्भावो बोद्धव्यः।

Page 112Permalink

प्रथमोऽङ्कः । *यौगन्धरायणः — (स्वगतम्) एवम् । एषा सा मगधराज- पुत्री पद्मावती नाम, या पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वामिनो देवी भविष्यतीति । ततः, प्रद्वेषो बहुमानो वा सङ्कल्पादुपजायते । भर्तृदाराभिलाषित्वादस्यां मे महती स्वता ॥ ७ ॥ वासवदत्ता -- (स्वगतम्) (क) राअदारिअत्ति सुणिअ भइ- णिआसिणेहो वि मे एत्थ सम्पज्जइ । (ततः प्रविशति पद्मावती सपरिवारा चेटी च) चेटी -- (ख) ऐँदु एदु भट्टिदारिआ, इदं अस्समपदं पविसदु । (ततः प्रविशत्युपविष्टा तापसी) तापसी — (ग) साअदं राअदारिआए । वासवदत्ता — (स्वगतम्) (घ) इअं सा राअदारिआ। अभि- जणाणुरूर्वं खु से रूवं । पद्मावती — (ङ) अय्ये ! वन्दामि । तापसी -- (च) चिरं जीव । पविस जादे ! पविस । तवो- वणाणि णाम अदिहिजणस्स सअगेहं । (क) राजदारिकेति श्रुत्वा भगिनिकास्नेहोऽपि मेऽत्र संपद्यते । (ख) एत्वेतु भर्तृदारिका, इदमाश्रमपदं प्रविशतु । (ग) स्वागतं राजदारिकायाः । (घ) इयं सा राजदारिका । अभिजनानुरूपं खल्वस्या रूपम् । (ङ) आर्ये ! वन्दे । (च) चिरं जीव । प्रविश जाते ! प्रविश । तपोवनानि नामातिथिजनस्य स्वगेहम् । १. 'सा रा' ख. पाठः. २. 'त्री या' क. पाठः. ३. 'टी ए' क. पाठः. ४. 'इदो इंदो भ' ख. पाठः. ५. 'ति ता' ख. पाठः. ६. 'सी प' क. पाठः. * इयं यौगन्धरायणोक्तिः समनन्तरवासवदत्तोक्त्युत्तरं पठ्यते ख. पुस्तके ।

Page 113Permalink

६ स्वप्नवासवदत्ते पद्मावती — (क) भोदु भोदु। अय्ये! विस्ससि(हे?)हि। १ इमिणा बहुमाणवअणेण अणुग्गहिदह्मि। वासवदत्ता — (स्वगतम्) (ख) ण हिं रूवं एव्व, वाआ वि २ खु से महुरा। तापसी — (ग) भद्दे! इम दाव भद्दमुहस्स भइणिआ। कोचि राआ ण व(दे?रे)दि। चेटी — (घ) अत्थि राआ पज्जोदो णाम उज्जइणीए। सो दारअस्स कारणादो दूदसम्पादं करेदि। वासवदत्ता — (आत्मगतम्) (ङ) भोदु भोदु। एसा अ अत्त- णीआ दाणिं संवुत्ता। तापसी — (च) अहो खु इमं आइदी। इमस्स बहुमाणस्स उभआणि राअउलाणि महत्तराणि त्ति सुणीअदि। ३ ४ पद्मावती — (छ) अय्य! किं दिट्ठो मुणिजणो अत्ताणं अणुग्गहीदुं इच्छदि त्ति। : (क) भवतु भवतु। आर्ये! विश्वसिहि। अनेन बहुमानवचनेनानुगृहीतास्मि। (ख) न हि रूपमेव, वागपि खल्वस्या मधुरा। (ग) भद्रे! इयं तावद् भद्रमुखस्य भगिनिका। कश्चिद् राजा न वरयति। (घ) अस्ति राजा प्रद्योतो नामोज्जयिन्याः। स दारकस्य कारणाद् दूतसम्पातं करोति। (ङ) भवतु भवतु। एषा चात्मीयेदानीं संवृत्ता। (च) अहो खल्वियमाकृतिः। अस्य बहुमानस्योभे राजकुले महत्तरे इति श्रूयते। (छ) आर्य! किं दृष्टो मुनिजन आत्मानमनुग्रहीतुमिच्छतीति। १. 'ह्नि अ।' क. पाठः, २. 'हु' ख. पाठः, ३. 'णि म' क. पाठः, ४. 'न्दि' क. पाठः,

Page 114Permalink

प्रथमोऽङ्कः । ७ काञ्चुकीयः — यदभिप्रेतं भ¹वत्या । भोभो आश्रमवा- सिनस्तपस्विनः ! शृण्वन्तु शृण्वन्तु भवन्तः । इहात्रभवती मगध- राजपुत्री अहो विस्रम्भेणोत्पादितविस्रम्भा धर्मार्थमर्थेनोपनिम- न्त्रयते । कस्यार्थः कलशेन को मृगयते वासो यथानिश्चितं दीक्षां पारितवान् किमिच्छति पुनर्देयं गुरोर्यद् भवेत् । आत्मानुग्रहमिच्छतीह नृपजा धर्माभिरामप्रिया यद्यस्यास्ति §समीप्सितं वदतु तत् कस्याद्य किं दीयताम् ॥ यौगन्धरायणः — हन्त दृष्ट उपायः । भोः ! अहमर्थी । पद्मावती — (क) दिट्ठिआ सह²लं मे तवोवणाभिगमणं । तापसी — (ख) संतुट्ठतपस्सिजणं इदं अस्समपदं । आ- अन्तुएण इमिणा होदव्वं । काञ्चुकीयः — भोः ! किं क्रियताम् । यौगन्धरायणः — इयं मे स्वसा । प्रोषितभर्तृकामिमामि- च्छाम्यत्रभवत्या कञ्चित् कालं परिपाल्यमानाम् । कुतः, कार्यं नैवार्थैर्नापि भोगैर्न वस्त्रै- र्नाहं काषायं वृत्तिहेतोः प्रपन्नः । धीरा कन्येयं दृष्टधर्मप्रचारा शक्ता चारित्रं रक्षितुं मे भगिन्याः ॥ ९ ॥ (क) दिष्ट्या सफलं मे तपोवनाभिगमनम् । (ख) सन्तुष्टतपस्विजनमिदमाश्रमपदम् । आगन्तुकेनानेन भवितव्यम् । १. 'वतु भवत्यै' ख. पाठः. २. 'व' क. पाठः. § 'स ईप्सितं' इति स्यात् ।

Page 115Permalink

स्वप्नवासवदत्ते वासवदत्ता — (आत्मगतम्) (क) हं १ इह मं णिक्खिविदुकामो अय्ययोगन्धरायणो । होदु, अविआरिअ कमं ण करिस्सदि । काञ्चुकीयः — भवति ! महती खल्वस्य व्यपाश्रयणा‡ । कथं प्रतिजानीमः । कुतः, सुखमर्थो भवेद् दातुं सुखं प्राणाः सुखं तपः । सुखमन्यद् भवेत् सर्वं दुःखं न्यासस्य रक्षणम् ॥ १० ॥ पद्मावती — (ख) अय्य ! पढमं उग्घोसिअ को किं इच्छ दि त्ति अजुत्तं दाणिं विआरिदुं । जं एसो भणादि, तं अणु- चिट्ठदु अय्यो । काञ्चुकीयः — अनुरूपमेतद्भवत्याभिहितम् । चेटी — (ग) चिरं जीवदु भट्टिदारिआ एवं सच्चवादिणी । तापसी — (घ) चिरं जीवदु भद्दे ! (क) हम् इह मां निक्षेप्तुकाम आर्ययौगन्धरायणः । भवतु, अविचार्य क्रमं न करिष्यति । (ख) आर्य ! प्रथममुद्घोष्य कः किमिच्छतीत्ययुक्तमिदानीं विचारयितुम् । यदेष भणति, तदनुतिष्ठत्वार्यः । (ग) चिरं जीवतु भर्तृदारिकैवं सत्यवादिनी । (घ) चिरं जीवतु भद्रे ! १. 'हा' ख. पाठः. ‡ व्यपाङ्पूर्वात् श्रिधातौर्बाहुलकाद् भावे युच् ।

Page 116Permalink

प्रथमोऽङ्कः । ९ काञ्चुकीयः -- भवति ! तथा॑ । (उपगम्य) भोः ! अभ्युप- गतमत्रभवतो भगिन्याः परिपालनमात्रभवत्या । यौगन्धरायणः -- अनुगृहीतोऽस्मि तत्रभवत्या । वत्से ! उपसर्पात्रभवतीम् । वासवदत्ता -- (क) का गई । एसा गच्छामि मन्दभाआ । पद्मावती -- (ख) भोदु भोदु । अत्तणीआ दाणिं संवृत्ता । तापसी -- (ग) जा ईदिसी से आइदी, इयं वि राअदा- रिअ त्ति तक्केमि । चेटी -- (घ) सुट्ठु अय्या भणादि । अहं वि अणुहूदसु- हत्ति पेक्खामि । यौगन्धरायणः -- हन्त भोः ! अर्धमवसितं भारस्य । यथा मन्त्रिभिः सह समर्थितम्, तथा परिणमति । ततः प्रतिष्ठिते स्वामिनि तत्रभवतीमुपनयतो मे इहात्रभवती मगधराजपुत्री विश्वासस्थानं भविष्यति । कुतः, पद्मावती नरपतेर्महिषी भवित्री दृष्टा विपत्तिरथ यैः प्रथमं प्रदिष्टा । (क) का गतिः । एषा गच्छामि मन्दभागा । (ख) भवतु भवतु । आत्मीयेदानीं संवृत्ता । (ग) या ईदृश्यस्या आकृतिः, इयमपि राजदारिकेति तर्कयामि । (घ) सुष्ठु आर्या भणति । अहमपि अनुभूतसुखेति पश्यामि । १. 'था अ' ख. पाठः. २. 'त्ता ए' ख. पाठः. ३. 'पि' ख. पाठः.

Page 117Permalink

तत्प्रत्ययात् कृतमिदं न हि सिद्धवाक्या- न्युत्क्रम्य गच्छति विधिः सुपरीक्षितानि ॥ ११ ॥ (ततः प्रविशति ब्रह्मचारी) ब्रह्मचारी — (ऊर्ध्वमवलोक्य) स्थितो मध्याह्नः । दृढमस्मि परिश्रान्तः। अथ कस्मिन् प्रदेशे विश्रमयिष्ये । (परिक्रम्य) अभि- तस्तपोवनेन भवितव्यम् । तथाहि, विस्रब्धं हरिणाश्चरन्त्यचकिता देशागतप्रत्यया वृक्षाः पुष्पफलैः समृद्धविभवाः सर्वे दयारक्षिताः । भूयिष्ठं कपिलानि गोकुलधनान्यक्षेत्रवत्यो दिशो निःसन्दिग्धमिदं तपोवनमयं धूमो हि बह्वाश्रयः ॥ १२ ॥ यावत् प्रविशामि। (प्रविश्य) अये आश्रमविरुद्धः खल्वेष *जनः । (अन्यतो विलोक्य) अथवा तपस्विजनोऽप्यत्र । निर्दोषमुपसर्पणम् । अये स्त्रीजनः । काञ्चुकीयः — स्वैरं स्वैरं प्रविशतु भवान् । सर्वजनसा- धारणमाश्रमपदं नाम । वासवदत्ता — हैम् । पद्मावती — (क) अम्मो परपुरुसदंसणं परिहरदि अय्या । भोदु, सुपरिवालणीयो खु मेण्णासो । (क) अम्मो परपुरुषदर्शनं परिहरत्यार्या । भवतु, सुपरिपालनीयः खलु मन्न्यासः। १. 'निरूप्य' क. पाठः. २. 'विश्रमिख्ये'(?) ख. पाठः. ३. 'नुहम् '(?) ख. पाठः. ४. 'मे णा' ख. पाठः.

  • जनः काञ्चुकीयः ।
Page 118Permalink

प्रथमोऽङ्कः । ११ काञ्चुकीयः—भोः ! पूर्वं प्रविष्टाः स्मः । प्रतिगृह्यताम- तिथिसत्कारः । ब्रह्मचारी‡—(आचम्य) भवतु भवतु । निवृत्तपरिश्रमोऽस्मि । यौगन्धरायणः—भोः ! कुत आगम्यते, क्व गन्तव्यम्, काधिष्ठानमार्यस्य । ब्रह्मचारी—भोः ! श्रूयताम् । राजगृहतोऽस्मि । श्रुतिविशे- षणार्थं वत्सभूमौ लावाणकं नाम ग्रामस्तत्रोषितवानस्मि । वासवदत्ता—(क) §हा लावाणं णाम । लावाणअसं- कित्तणेण पुणो णवीकिदो विअ मे सन्तावो । यौगन्धरायणः—अथ परिसमाप्ता विद्या । ब्रह्मचारी—न खलु तावत् । यौगन्धरायणः—यद्यनवसिता विद्या, किमागमनप्रयो- जनम् । ब्रह्मचारी—तत्र खल्वतिदारुणं व्यसनं संवृत्तम् । यौगन्धरायणः—कथमिव । ब्रह्मचारी—तत्रोदयनो नाम राजा प्रतिवसति । यौगन्धरायणः—श्रूयते तत्रभवानुदयनः । किं सः । ब्रह्मचारी—तस्यावन्तिराजपुत्री वासवदत्ता नाम पत्नी दृढमभिप्रेता किल। यौगन्धरायणः—भवितव्यम् । ततस्ततः । ब्रह्मचारी—ततस्तस्मिन् मृगयानिष्क्रान्ते राजनि ग्राम- दाहेन दग्धा । (क) हा लावाणकं नाम । लावाणकसङ्कीर्तनेन पुनर्नवीकृत इव मे सन्तापः । ‡ इतः परं 'भोः ! श्रूयताम्' इत्येव ख. पुस्तकपाठः । § 'स्वगतम्' इत्यपेक्षितम् ।

Page 119Permalink

१२ स्वप्नवासवदत्ते वासवदत्ता — (क) *अळिअं अळिअं एदं । जीवामि मन्दभाआ । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततस्तामभ्यवपत्तुकामो यौगन्धरायणो नाम सचिवस्तस्मिन्नेवाग्नौ पतितः । यौगन्धरायणः — सत्यं पतित इति । ततस्ततः । ब्रह्मचारी — ततः प्रतिनिवृत्तो राजा तद्वृत्तान्तं श्रुत्वा तयोर्वियोगजनितसन्तापस्तस्मिन्नेवाग्नौ प्राणान् परित्यक्तुका- मोऽमात्यैर्महता यत्नेन वारितः । वासवदत्ता — (ख) *जाणामि जाणामि अय्यउत्तस्स मइ साणुक्कोसत्तणं । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततस्तस्याः शरीरोपभुक्तानि दग्धशेषाण्याभर- णानि परिष्वज्य राजा मोहमुपगतः । सर्वे — हा । वासवदत्ता — (स्वगतम्) (ग) सकामो दाणिं अय्यजोअ- न्धराअणो होदु । (क) अलीकमलीकमेतत् । जीवामि मन्दभागा । (ख) जानामि जानाम्यार्यपुत्रस्य मयि सानुक्रोशत्वम् । (ग) सकाम इदानीमार्ययौगन्धरायणो भवतु । १. 'मामात्यस्त' ख. पाठः.

  • उभयत्र '( स्वगतम् )' इत्यपेक्षितम् ।
Page 120Permalink

प्रथमोऽङ्कः । ११ चेटी — (क) भट्टिदारिए ! रोदिदि खु इअं अय्या । पद्मावती — (ख) साणुक्कोसाए होदव्वं । यौगन्धरायणः — अथकिम् । प्रकृत्या सानुक्रोशा मे भगिनी । ततस्ततः । ब्रह्मचारी — ततः शनैः शनैः प्रतिलब्धसंज्ञः संवृत्तः । पद्मावती — (ग) दिट्ठिआ धरइ, मोहं१ गदो त्ति सुणिअ सुण्२(णं) विअ मे हिअअम् । यौगन्धरायणः — ततस्ततः । ब्रह्मचारी — ततः स राजा महीतलपरिसर्पणपांसुपाटल- शरीरः सहसोत्थाय 'हा३ वासवदत्ते ! हा अवन्तिराजपुत्रि ! हा प्रिये ! हा प्रियशिष्ये !' इति किमपि किमपि बहु प्रलपि- तवान् । किं बहुना, नैवेदानीं (दुःखि) ताश्चक्रवाका नैवाप्यन्ये स्त्रीविशेषैर्वियुक्ताः । धन्या सा स्त्री यां तथा वेत्ति भर्ता भर्तृस्नेहात् सा४ हि दग्धाप्यदग्धा ॥ १३ ॥ (क) भर्तृदारिके ! रोदिति खल्वियमार्या । (ख) सानुक्रोशया भवितव्यम् । (ग) दिष्ट्या ध्रियते । मोहं गत इति श्रुत्वा शू(न्य)मिव मे हृदयम् । १. 'मोहगदो' ख. पाठः. २. 'सुठन्त (?) वि' ख. पाठः. ३. 'हा अवन्तिराजपुत्रि ! हा वासवदत्ते ! हा प्रि' ख. पाठः. ४. 'सामिद' ख. पाठः.

Page 121Permalink

१४ स्वप्नवासवदत्ते यौगन्धरायणः — अथ भोः ! तं तु पर्यवस्थापयितुं न कश्चिद् यत्नवानमात्यः । ब्रह्मचारी — अस्ति रुमण्वान्नामामात्यो दृढं प्रयत्नवांस्तत्र- भवन्तं पर्यवस्थापयितुम् । स हि, अनाहारे तुल्यः प्रततरुदितक्षामवदनः शरीरे संस्कारं नृपतिसमदुःखं परिवहन् । दिवा वा रात्रौ वा परिचरति यत्नैर्नरपतिं नृपः प्राणान् सद्यस्त्यजति यदि तस्याप्युपरमः ॥१४॥ वासवदत्ता — (क) दिट्ठिआ सुणिक्खित्तो दाणीं अय्यउत्तो । यौगन्धरायणः — (आत्मगतम्) अहो *महद्भारमुद्वहति रुमण्वान् । कुतः, सविश्रमो ह्ययं ‡भारः प्रसक्तस्तस्य तु श्रमः । तस्मिन् सर्वमधीनं हि यत्राधीनो नराधिपः ॥ १५ ॥ (प्रकाशम्) अथ भोः ! पर्यवस्थापित इदानीं स राजा । ब्रह्मचारी — तदिदानीं न जाने । इह तया सह हसितम्, इह तया सह कथितम्, इह तया सह पर्युषितम्, इह (क) दिष्ट्या सुनिश्चित इदानीमार्यपुत्रः । १. 'स' ख. पाठः.

  • महतो दुरुद्वहभारवहनक्षमस्य भारं महद्भारम् । ‡ अयं नराधिपदाररक्षणरूपो मदीयो भारः सविश्रमः पद्मावत्यां तन्न्यसनादित्यर्थः । तस्य रुमण्वतः प्रसक्तो भारस्तु नराधिपरक्षणल- क्षणः श्रमः श्रमहेतुः ।
Page 122Permalink

प्रथमोऽङ्कः । १९ तया सह कुपितम्, इत्येवं तं विलपन्तं राजानममात्यैर्महता यत्नेन तस्माद् ग्रामाद् गृहीत्वापक्रान्तम् । ततो निष्क्रान्ते राजनि प्रोषितनक्षत्रचन्द्रमिव नभोऽरमणीयः संवृत्तः स ग्रामः। ततोऽहमपि निर्गतोऽस्मि । तापसी — (क) सो खु गुणवन्तो णाम राओ, जो आअ- न्तुएण वि इमिणा एव्वं पसंसीअदि । चेटी — (ख) भट्टिदारिए! किंणुखु अवरा इत्थिआ तस्स हत्थं गमिस्सदि । पद्मावती — (ग) मम हिअएण एव्व सह मन्तिदं । ब्रह्मचारी — *आपृच्छामि भवन्तौ । २गच्छामस्तावत् । उभौ — गम्यतामर्थसिद्धये । ब्रह्मचारी — तथास्तु । (निष्क्रान्तः) यौगन्धरायणः — अहमपि तत्रभवत्याभ्यनुज्ञातो गन्तुमि- ३च्छामि । काञ्चुकीयः — तत्रभवत्याभ्यनुज्ञातो गन्तुमिच्छति किल। (क) स खलु गुणवान् नाम राजा, य आगन्तुकेनाप्येनेनैवं प्रशस्यते । (ख) भर्तृदारिके! किन्नुखलु अपरा स्त्री तस्य हस्तं गमिष्यति । (ग) मम हृदयेनैव सह मन्त्रितम् । १. 'आ अइएणा (?) त्रि' क. पाठः. २. 'साधयाम' ख. पाठः. ३. 'मि। पद्मा' क. पाठः.

  • 'आङि नुप्रुच्छ्योः' इति तङत्र न गणितो महाकविना । ख. संज्ञे त्वादर्शे 'आपृच्छामि भवन्तौ' इति न पठ्यते ।
Page 123Permalink

१६ स्वप्नवासवदत्ते पद्मावती — (क) अय्यस्स भइणिआ अय्येण विना उक्कण्ठिस्सदि । यौगन्धरायणः — साधुजनहस्तं गतैषा नोत्कण्ठिष्यति†। (काञ्चुकीयमवलोक्य) गच्छामस्तावत् । काञ्चुकीयः — गच्छतु भवान् पुनर्दर्शनाय । यौगन्धरायणः — १तथास्तु । (निष्क्रान्तः) काञ्चुकीयः — समय इदानीमभ्यन्तरं प्रवेष्टुम् । पद्मावती — (ख) अय्ये ! वन्दामि । तापसी — (ग) जादे ! तव सदिसं भत्तारं लभेहि । वासवदत्ता — (घ) अय्ये ! गच्छामि दाव अहं । तापसी — (ङ) तुवं वि अइरेण भत्तारं २समासादेहि । वासवदत्ता — (च) अणुग्गहीदह्मि । (क) आर्यस्य भगिनिकार्येण विनोत्कण्ठिष्यते । (ख) आर्ये ! वन्दे । (ग) जाते ! तव सदृशं भर्तारं लभस्व । (घ) आर्ये ! गच्छामि तावदहम् । (ङ) त्वमपि अचिरेण भर्तारं समासादय । (च) अनुगृहीतास्मि । १. ‘बाढम्’ ख. पाठः. २. ‘ता ग’ ख. पाठः. ३. ‘लभेहि’ ख. पाठः. † इहानुदात्तेत्त्वलक्षणमात्मनेपदं न कृतमनित्यत्वात् ।

Page 124Permalink

प्रथमोऽङ्कः । १७ काञ्चुकीयः — तदागम्यताम्, इत इतो भवति ! । स- म्प्रति हि, खगा वासोपेताः सलिलमवगाढो मुनिजनः प्रदीप्तोऽग्निर्भाति प्रविचरति धूमो मुनिवनम् । परिभ्रष्टो दूराद् रविरपि च संक्षिप्तकिरणो रथं व्यावृत्यासौ प्रविशति शनैरस्तशिखरम् ॥ १६ ॥ (निष्क्रान्ताः सर्वे) प्रथमोऽङ्कः ।


१. 'यः — इत इतो भवत्यः (?) स' ख. पाठः.

Page 125Permalink

अथ द्वितीयोऽङ्कः । (ततः प्रविशति चेटी) चेटी — (क) कुञ्जरिए ! कुञ्जरिए ! कहिं कहिं भट्टिदारिआ पदुमावदी । किं भणासि, एसा भट्टिदारिआ माहवीळदामण्ड- वस्स पस्सदो कन्दुएण कीळंदित्ति । जाव भट्टिदारिं उवस- प्पामि । (परिक्रम्य) अम्मो इअं भट्टिदारिआ उक्करिदकण्णचूळिएण वाआमसञ्जादसेदबिन्दुविइत्तिदेण परिस्सन्तरमणीअदंसणेण कन्दुएण कीळन्दी इदो एव्व आअच्छदि^२ । जाव उवसप्पिस्सं^¶ । (निष्क्रान्ता) प्रवेशकः । (ततः प्रविशति कन्दुकेन क्रीडन्ती पद्मावती सपरिवारा^३ वासवदत्तया सह ) वासवदत्ता — (ख) हळा ! एसो दे कन्दुओ । (क) कुञ्जरिके ! कुञ्जरिके ! कुत्र कुत्र भर्तृदारिका पद्मावती । किं भणसि, एषा भर्तृदारिका माधवीलतामण्डपस्य पार्श्वतः कन्दुकेन क्रीडतीति । यावद् भर्तृदारि- कामुपसर्पामि । अम्मो इयं भर्तृदारिका उत्कृतकर्णचूलिकेन व्यायामसंजातस्वेदबि- न्दुविचित्रितेन स्पृश्यमानरमणीयदर्शनेन कन्दुकेन क्रीडन्तीत एवागच्छति । यावदुप- सर्पामि । (ख) हला ! एष ते कन्दुकः । १. 'ळन्दी सि' क. पाठः. २. 'दित्ति जा' क. पाठः. ३. 'रा आवन्तिकावेषधारिणी वास- वदत्ता च' ख. पाठः. ¶ 'उवसप्पामि' इत्येवालम् ।

Page 126Permalink

द्वितीयोऽङ्कः । १९ पद्मावती — (क) अय्ये ! भोदु दाणिं एत्तअं । वासवदत्ता — (ख) हळा ! अदिचिरं कन्दुएण कीळिअ अहिससञ्जादराआ परकेरआ विअ दे हत्था संवुत्ता । चेटी — (ग) कीळदु कीळदु दाव भट्टिदारिआ । णिव्व- त्तीअदु दाव अअं कण्णाभावरमणिज्जो काळो । पद्मावती — (घ) अय्ये ! किं दाणिं मं ओहसिदुं विअ णिज्झाअसि । वासवदत्ता — (ङ) णहि णहि । हळा ! अधिअं अज्ज †सोहदि । अभिदो विअ दे¹ अज्ज वरमुखं पेक्खामि । पद्मावती — (च) अवेहि । मा दाणिं मं ओहस । (क) आर्ये ! भवत्विदानीमेतावत् । (ख) हळा ! अतिचिरं कन्दुकेन क्रीडित्वाधिकसञ्जातरागौ परकीयाविव ते हस्तौ संवृत्तौ । (ग) क्रीडतु क्रीडतु तावद् भर्तृदारिका । निर्वर्त्यतां तावद् अयं कन्याभावरम- णीयः कालः । (घ) आर्ये ! किमिदानीं मामपहसितुमिव निध्यायसि । (ङ) नहि नहि । हळा ! अधिकमद्य शोभसे । अभित इव तेऽद्य वरमुखं पश्यामि । (च) अपेहि । मेदानीं मामपहस । १. 'दे व' ख. पाठः. † 'सोहसि' इति स्यात् ।

Page 127Permalink

१० स्वप्नवासवदत्ते वासवदत्ता — (क) एसा तुण्णिआ भविस्स(दि) महासेण- वहूए। पद्मावती — (ख) को एसो महासेणो णाम । वासवदत्ता — (ग) अत्थि उज्जयिणीओ राआ पज्जोदो णाम। तस्स बळ‡परिणामणिव्वुत्तं णामहेअं महासेणो त्ति । चेटी — (घ) भट्टिदारिआ तेणे भत्ता सह सम्बन्धं णेच्छदि। वासवदत्ता — (ङ) अह केण खु दाणिं अभिळसदि । चेटी — (च) अत्थि वच्छराओ उअँअणो णाम। तस्स गुणाणि भट्टिदारिआ अभिळसदि। वासवदत्ता — (आत्मगतम्) (छ) अय्यउत्तं भत्तारं अभिळ- सदि। (प्रकाशम्) केण कारणेण । चेटी — (ज) साणुक्कोसो त्ति । (क) एषा (स्नुषा) भविष्यति महासेनस्नुषाः । (ख) क एष महासेनो नाम । (ग) अस्ति उज्जायिन्या राजा प्रद्योतो नाम। तस्य बलपरिणामनिर्वृत्तं नामधेयं महासेन इति । (घ) भर्तृदारिका तेन भर्त्रा सह संबन्धं नेच्छति । (ङ) अथ केन खल्विदानीमभिलषति । (च) अस्ति वत्सराज उदयनों नाम । तस्य गुणान् भर्तृदारिकाभिलषति । (छ) आर्यपुत्रं भर्तारमभिलषति । केन कारणेन । (ज) सानुकक्रोश इति । १. 'इ' ख. पाठः. २. 'ण (धु?) भ' ख. पाठः. ३. 'न्थामिच्छ' क. पाठः. ४. 'दअ' ख. पाठः. ‡ 'परिमाण' इति कदाचित् स्यात् ।