BharatKosha
Back to the archive

स्वप्नवासवदत्तम् (महाकवि भास - संस्कृत मूल एवं हिन्दी अनुवाद)

Svapnavasavadattam of Bhasa with Hindi Commentary

by महाकवि भास / पं. विश्वनाथ शास्त्री

DevanagariSanskritpublished204 pages
Page 175Permalink

१८ स्वप्नवासवदत्ते काञ्चुकीयः— अथकिम् । कुशली महासेनः । इहापि सर्वगतं कुशलं पृच्छति । राजा— (उत्थाय) किमाज्ञापयति महासेनः । काञ्चुकीयः— सदृशमेतद् वैदेहीपुत्रस्य । नन्वासनस्थे- नैव भवता श्रोतव्यो महासेनस्य सन्देशः । राजा— यदाज्ञापयति महासेनः । (उपविशति) काञ्चुकीयः— दिष्ट्या परैरपहृतं राज्यं पुनः प्रत्यानीत- मिति । कुतः, कातरा येऽप्यशक्ता वा नोत्साहस्तेषु जायते । प्रायेण हि नरेन्द्रश्रीः सोत्साहैरेव भुज्यते ॥ ७ ॥ राजा— सर्वमेतन्महासेनस्य प्रभावैः । अहमवजितः पूर्वं तावत् सुतैः सह लालितो दृढमपहृता कन्या भूयो मया न च रक्षिता । निधनमपि च श्रुत्वा तस्यास्तथैव मयि स्वता ननु यदुचितान् वत्सान् प्राप्तुं नृपोऽत्र हि कारणम् ॥ काञ्चुकीयः— एष महासेनस्य सन्देशैः । देव्याः सन्दे- शमिहात्रभवती कथयिष्यति । राजा— हा अम्ब ! षोडशान्तःपुरज्येष्ठा पुण्या नगरदेवता । मम प्रवासदुःखार्ता माता कुशलिनी ननु ॥ ९ ॥ १. 'जा- (आसनादुत्था' ख. पाठः. २. 'वः । कुतः, अ' ख. पाठः. ३. 'शः । तत्रभवत्याः स' ख. पाठः.

Page 176Permalink

षष्ठोऽङ्कः । ३९ धात्री — (क) अरोआ भट्टिणी भट्‍टारं सव्वगदं कुसळं पुच्छदि । राजा — सर्वगतं कुशलमिति । अम्ब! ईदृशं कुशलम् । धात्री — (ख) मा दाणिं भट्टा अदिमत्तं सन्तप्पिदुं । काञ्चुकीयः — धारयत्वार्यपुत्रः । उपरताप्यनुपरता महा- सेनपुत्री एवमनुकम्प्यमानार्यपुत्रेण । अथवा, कः कं शक्तो रक्षितुं मृत्युकाले रज्जुच्छेदे के घटं धारयन्ति । एवं लोकस्तुल्यधर्मा वनानां काले काले छिद्यते रुह्यते च ॥ १० ॥ राजा — आर्य ! मा मैवम् । महासेनस्य दुहिता शिष्या देवी च मे प्रिया । कथं सा न मया शक्या स्मर्तुं देहान्तरेष्वपि ॥ ११ ॥ धात्री — (ग) आह भट्टिणी — उवरदा वासवदत्ता । मम वा महासेणस्स वा जादिसो गोवाळअवालओ† तादिसो एव्व तुमं पुढमं एव्व अभिप्पेदो जामादुआत्ति । एदण्णिमित्तं उज्जइणिं (क) अरोगा भट्टिनी भर्तारं सर्वगतं कुशलं पृच्छति । (ख) मेदानीं भर्तातिमात्रं सन्तप्तुम् । (ग) आह भट्टिनी — उपरता वासवदत्ता । मम वा महासेनस्य वा यादृशो गोपालकपालकस्तादृश एव त्वं प्रथममेवाभिप्रेतो जामातेति । एतन्निमित्तमुज्जयिनीमा- १. 'प्पिअ । (ही ? ईरि ) सं दाणिं एदं' ख. पाठः. २. 'ना ह्यार्ये' ख. पाठः. ३. 'कु' ख. पाठः. † गोपालको वासवदत्ताभ्राता ।

Page 177Permalink

७० स्वप्नवासवदत्ते आणीदो। अणग्गिसक्खिअं वीणाववदेसेण दिण्णा। अत्तणो चवळदाए अणिव्वुत्तविवाहमङ्गळो एव्व गदो। अहअ अम्हेहिं तव अ वासवदत्ताए अ पडिकिदिं चित्तफळआए आलिहिअ विवाहो णिव्वुत्तो। एसा चित्तफळआ तव सआसं पेसिदा। एदं पेक्खिअ णिव्वुदो होहि। राजा — अहो अतिस्निग्धमनुरूपं चाभिहितं तत्रभवत्या। वाक्यमेतत् प्रियतरं राज्यलाभशतादपि। अपराद्धेष्वपि स्नेहो यदस्मासु न विस्मृतः ॥ १२ ॥ पद्मावती — (क) अय्यउत्त! चित्तगदं गुरुअणं पेक्खिअ अभिवादेदुं इच्छामि। ⁺धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ। (चित्रफलकां दर्शयति) पद्मावती — (दृष्ट्वा आत्मगतम्) (ग) हं अदिसदिसी खु इअं अय्याए आवन्तिआए। (प्रकाशम्) अय्यउत्त! सदिसी खु इअं अय्याए। नीतः। अनग्निसाक्षिकं वीणाव्यपदेशेन दत्ता। आत्मनश्चपलतयानिर्वृत्तविवाहमङ्गल एव गतः। अथचावाभ्यां तव च वासवदत्तायाश्च प्रतिकृतिं चित्रफलकायामालिख्य विवाहो निर्वृत्तः। एषा चित्रफलका तव सकाशं प्रेषिता। एतां प्रेक्ष्य निर्वृतो भव। (क) आर्यपुत्र! चित्रगतं गुरुजनं प्रेक्ष्याभिवादयितुमिच्छामि। (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका। (ग) हम् अतिसदृशी खल्वियमार्याया आवन्तिकायाः। आर्यपुत्र! सदृशी खल्वि- यमार्यायाः। ⁺ एतदारभ्य णेवेत्तीत्यन्तं ख. पुस्तके नास्ति।

Page 178Permalink

षष्ठोऽङ्कः । ७१ राजा — न सदृशी । सैवेति मन्ये । अस्य स्निग्धस्य वर्णस्य विपत्तिर्दारुणा कथम् । इदं च मुखमाधुर्यं कथं *जूषितमग्निना ॥ १३ ॥ पद्मावती — (क) अय्यउत्तस्स पडिकिदिं पेक्खिअ जा- णामि इअं अय्याए सदिसि ण वेत्ति । धात्री — (ख) पेक्खदु पेक्खदु भट्टिदारिआ । पद्मावती¹ — (दृष्ट्वा) (ग) अय्यउत्तस्स पडिकिदीए सदिस- दाए जाणामि इअं अय्याए सदिसि² त्ति । राजा³ — देवि ! चित्रदर्शनात् प्रभृति४ प्रहृष्टोद्विग्नामिव त्वां पश्यामि । किमिदम् । पद्मावती — (घ) अय्यउत्त ! इमाए पडिकिदीए ‡सदिसी इह पडिवसदि । राजा — न किं वासवदत्ता । (आम् ?) (क) आर्यपुत्रस्य प्रतिकृतिं प्रेक्ष्य जानामीयमार्यया सदृशी नवेति । (ख) प्रेक्षतां प्रेक्षतां भर्तृदारिका । (ग) आर्यपुत्रस्य प्रतिकृत्याः सदृशतया जानामीयमार्यया सदृशीति । (घ) आर्यपुत्र ! अस्याः प्रतिकृत्याः सदृशीह प्रतिवसति । १. 'ती—अय्यउत्तपडिकिदिसदितिसाभाए जा' ख. पाठः. २. 'सी किं।' ख. पाठः. ३. 'जा—पद्मावति ! चिं' ख. पाठः. ४. 'ति हृ' ख. पाठः.

  • 'यूष हिंसायां, जूष च' इति भ्वादौ । ‡ एतदारभ्य 'आनीयताम्' इत्यन्तं ख. पुस्तके त्रुटितम् ।
Page 179Permalink

७२ स्वप्नवासवदत्ते पद्मावती — आम। राजा — तेन हि शीघ्रंमानीयताम्। पद्मावती — (क) अय्यउत्त! मम कण्णाभावे केण वि बह्मणेण मम भइणिअत्ति ण्णासो णिक्खित्तो। पोसिद्भत्तुआ परपुरुसदंसणं परिहरदि। ‡ता अय्यं मए सह आअदं पेक्खिअ जाणादु अय्यउत्तो। राजा — यदि विप्रस्य भगिनी व्यक्तमन्या भविष्यति। परस्परगता लोके दृश्यते रूपतुल्यता॥ १४॥ (प्रविश्य) प्रतीहारी — (ख) जेदु भट्टा। एसो उज्जइणीओ बह्मणो, भट्टिणीए हत्थे मम भइणिअत्ति ण्णासो णिक्खित्तो, तं पडि- ग्गाहिदुं पडिहारं उवट्ठिदो। राजा — पद्मावति! किन्नु स ब्राह्मणः। पद्मावती — (ग) होदव्वं। (क) आर्यपुत्र! मम कन्याभावे केनापि ब्राह्मणेन मम भगिनिकेति न्यासो निक्षि- प्तः। प्रोषितभर्तृका परपुरुषदर्शनं परिहरति। तदार्या मया सहागतां प्रेक्ष्य जाना- त्वार्यपुत्रः। (ख) जयतु भर्ता। एष उज्जायनीयो ब्राह्मणः, भट्टिन्या हस्ते मम भगिनिकेति न्यासो निक्षिप्तः, तं प्रतिग्रहीतुं प्रतिहारमुपस्थितः। (ग) भवितव्यम्। १. 'णीह' ख. पाठः. २. 'त्ये ण्णा' ख. पाठः. ३. 'दुं उ' ख. पाठः. ‡ 'ता' इत्यादि वाक्यं ख. पुस्तके नास्ति।

Page 180Permalink

षष्ठोऽङ्कः । ७३ राजा — शीघ्रं प्रवेश्यतामभ्यन्तरसमुदाचारेण स ब्राह्मणः । प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता) *राजा — पद्मावति ! त्वमपि तामानय । पद्मावती — (ख) जं अय्यउत्तो आणवेदि । (निष्क्रान्ता) (ततः प्रविशति यौगन्धरायणः प्रतीहारी च) यौगन्धरायणः — (टो?भोः) (आत्मगतम्) प्रच्छाद्य राजमहिषीं नृपतेर्हितार्थं कामं मया कृतमिदं हितमित्यवेक्ष्य । सिद्धेऽपि नाम मम कर्मणि पार्थिवोऽसौ किं वक्ष्यतीति हृदयं परिशङ्कितं मे ॥ १५ ॥ प्रतीहारी — (ग) एसो भट्टा । उवसप्पदु अय्यो । यौगन्धरायणः — जयतु भवान् जयतु । राजा — श्रुतपूर्व इव स्वरः । भो ब्राह्मण ! किं भवतः स्वसा पद्मावत्या हस्ते न्यास इति निक्षिप्ता । यौगन्धरायणः — अथकिम् । (क) यद् भर्ताज्ञापयति । (ख) यद् आर्यपुत्र आज्ञापयति । (ग) एष भर्ता । उपसर्पत्वार्यः । १. 'णः प्र' क. पाठः. * 'राजे'त्यादि 'निष्क्रान्ता' इत्यन्तं ख. पुस्तके नास्ति ।

Page 181Permalink

७४ स्वप्नवासवदत्ते राजा — तेन हि त्वर्यतां त्वर्यतामस्य भगिनिका । प्रतीहारी — (क) जं भट्टा आणवेदि । (निष्क्रान्ता) (ततः प्रविशति पद्मावती आवन्तिका प्रतीहारी च) पद्मावती — (ख) एदु एदु अय्या । पिअं दे णिवेदेमि । आवन्तिका — किं ३ किं । पद्मावती — (ग) भादा दे आअदो । आवन्तिका — (घ) दिट्ठिआ ४ इदाणिं पि सुमरदि । पद्मावती — (ङ) जेदु अय्यउत्तो ५ । एसो णासो । राजा — पद्मावति ! साक्षिमान् ६ न्यासो निर्यातयितव्यः ।

  • १ अत्रभवान् रैभ्यः, ७ अत्रभवती चाधिकरणं भविष्यतः । पद्मावती — (च) अम्बँ ! इअं दाणि अय्या । धात्री — (आवन्तिकां निर्वर्ण्य) ८ (छ) अम्मो ९ भट्टिदारिआ वासव- दत्ता । (क) यद् भर्त्ताज्ञापयति । (ख) एत्वेत्वार्या । प्रियं ते निवेदयामि । (ग) भ्राता ते आगतः । (घ) दिष्ट्येदानीमपि स्मरति । (ङ) जयत्वार्यपुत्रः । एष न्यासः । (च) अम्ब ! इयमिदानीमार्या । (छ) अम्मो भर्तृदारिका वासवदत्ता । १. 'जा-त्व' ख. पाठः. २. 'ए' क. पाठः. ३. 'किं ।' ख. पाठः. ४. 'ट्टी दाणिं सु' ख. पाठः. ५. 'त्तो । रा' क. पाठः. ६. 'म' क. पाठः. ७. 'भ्य' क. पाठः. ८. 'त्री नि' ख. पाठः. ९. 'ह्यो' ख. पाठः.
Page 182Permalink

षष्ठोऽङ्कः । ७५ राजा — कथं महासेनपुत्री । देवि ! प्रविश त्वमभ्यन्तरं पद्मावत्या सह । यौगन्धरायणः — नखलु नखलु प्रवेष्टव्यम् । मम भगिनी खल्वेषा । राजा — §किं भवानाह । महासेनपुत्री खल्वेषा । यौगन्धरायणः — भो राजन् ! भारतानां कुले जातो विनीतो ज्ञानवाञ्छुचिः । तन्नार्हसि बलाद्धर्तुं राजधर्मस्य देशिकः ॥ १६ ॥ राजा — भवतु पश्यामस्तावद्¹ रूपसादृश्यम् । संक्षिप्यतां यवनिका । यौगन्धरायणः — जयतु स्वामी । वासवदत्ता — (क) जेदु अय्यउत्तो । राजा — अये असौ यौगन्धरायणः, इयं महासेनपुत्री । (उभौ समाश्लिष्य) किन्नु सत्यमिदं स्वप्नः सा भूयो दृश्यते मया । अनयाप्येवमेवाहं दृष्ट्या वञ्चितस्तदा‡ ॥ १७ ॥ यौगन्धरायणः — स्वामिन् ! देव्यपनयेन कृतापराधः ख- ल्वहम् । तत् क्षन्तुमर्हति स्वामी । (पादयोः पतति) (क) जयत्वार्यपुत्रः । १. ‘त्र सा’ ख. पाठः. §. राजवचनं नास्ति ख. पुस्तके । ‡ तदा स्वप्नसमये ।

Page 183Permalink

७६ स्वप्नवासवदत्ते राजा — (उत्थाप्य) यौगन्धरायणो भवान् ननु । मिथ्योन्मादैश्च युद्धैश्च शास्त्रदृष्टैश्च मन्त्रितैः । भवद्बलैः खलु वयं †मज्जमानाः समुद्धृताः ॥ १८ ॥ यौगन्धरायणः — स्वामिभाग्यानामनुगन्तारो वयम् । पद्मावती — (क) अम्मेहे अय्या खु इअं । अय्ये! सहीजणसमुदाआरेण अदिक्कन्दो समुदाआरो । ता सीसेण पसादेमि* । वासवदत्ता³ — (पद्मावतीमुत्थाप्य) (ख) उट्ठेहि उट्ठेहि अवि- हवे! उट्ठेहि । अत्थिँसं⁴ णाम सरीरं अवरज्झइ । राजाँ⁵ — वयस्य यौगन्धरायण! देव्यपनये का कृता ते बुद्धिः । यौगन्धरायणः — कौशाम्बीमात्रं परिपालयामीति । राजा — अथ पद्मावत्या हस्ते किं न्यासकारणम् । यौगन्धरायणः — पुष्पकभद्रादिभिरादेशिकैरादिष्टा स्वा- मिनो देवी भविष्यतीति । राजा — इदमपि रुमण्वता ज्ञातम् । यौगन्धरायणँः⁶ — स्वामिन्! सर्वैरेव ज्ञातम् । (क) अहो आर्या खल्वियम् । आर्ये! सखीजनसमुदाचारेणातिक्रान्तः समुदाचा- रः, तत् शीर्षेण प्रसादयामि । (ख) उत्तिष्ठोत्तिष्ठाविद्यवे! उत्तिष्ठ । अर्थित्वं नाम शरीरमपराध्यति । १. 'वयस्य ! यौ' ख. पाठः. २. 'म्मो अ' ख. पाठः. ३. 'त्ता उत्था' ख.पाठः. ४. 'विक्ख' ख. पाठः. ५. 'जा—यौ' ख. पाठः. ६. 'णः स्' ख. पाठः. † मज्जमाना मज्जनशीलाः । * एतदुत्तरं ('पादयोः पतति' ) इति पठितुमर्हम् ।

Page 184Permalink

षष्ठोऽङ्कः । ७७ राजा — अहो शठः खलु रुमण्वान् । यौगन्धरायणः -- स्वामिन् ! देव्याः कुशलनिवेदनार्थ- मद्यैव प्रतिनिवर्ततामत्रभवान् रैभ्योऽत्रभवती च । राजा -- सर्व एव वयं यास्यामो देव्या पद्मावत्या सह । (भरतवाक्यम्) इमां सागरपर्यन्तां हिमवद्विन्ध्यकुण्डलाम् । महीमेकातपत्राङ्कां राजसिंहः प्रशास्तु नः ॥ १९ ॥ (निष्क्रान्ताः सर्वे) षष्ठोऽङ्कः । इति स्वप्ननॉटक(म)वसितम् । शुभं भूयात् । १. 'भ्य इहात्र' क. पाठः. २. 'जा-न्तु स' ख. पाठः. ३. 'न्तां' क. पाठः. ४. 'वासवदत्ता समाप्ता ।' ख. पाठः.

Page 185Permalink

इस पृष्ठ पर कोई पठनीय पाठ (Text) उपलब्ध नहीं है (यह पृष्ठ रिक्त/ब्लैंक है)।

Page 186Permalink

पाठभेदः । पृष्ठं पङ्किः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. २ २ पृष्ठ धृष्ट ,, ७ ति ............वा ति यौ ....णः वा ,, ८ णः-(कर्णं दत्त्वा) क णः-क ,, ११ विस्मितः निश्चितः ,, १४ णः-यो .... ति णः-भवति ! योधर्मावात्मा विनि- योजयति ,, १५ य्य ! .... अ य्य ! अ ३ १ णः-भवति! एवमनिर्ज्ञा- णः-एवमविज्ञातानि दैवतान्यप्यव तानि दैवतान्यव ,, ६ त्र चि त्र भवत्या चि ,, ७ वासी वमासी ,, ८ ति सि ,, ११ भटौ उभौ ,, १३ ष व ,, १४ पश्य कुतः ४ ४,५,६. नम् । .... (उ नम् । (उ ,, ८ णः-(आत्मगतम् ) त णः-त ५ १ णः-(स्वगतम् ) ए णः-ए ,, ३,४. ति । ततः प्र ति । प्र ,, १० (ततः प्रविश .... ता) (प्रविश्य) ता ,, ११, १२, १३, १४, १५. ए.... प ए । प

Page 187Permalink

२ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकाद्दृष्टः ग. पुस्तकपाठः. ५ १६ हं । पद्मावती - भो ! हं । वासवदत्ता- (आत्मगतम्) इअं सा राजदारिआ । अभिजाणाणुरूवं खु से रूवं । पद्मावती - भो ! ६ १ स्ससि (हे?) हि । स्सत्थद्धि । " ५ म.... आ । मं.... अं । " ६ चि वदेदि । वि वारेदि । " ९ त्ता - (आत्मगतम् ) भो त्ता - भो " ११ हो .... दी । इमस्स हो.... री । एदस्स " १२ हत्तराणि चि .... दि । हारअत्ति .... न्ति । " १३ य्य ! किं दि य्य ! दि " १४ दुं इ दुं अभिप्पेदप्पदाणेण तवस्सिजणो उवणिमन्तीअदु दाव को किं एत्थ इ ७ १ तं भवत्या । भो तं भवत्यै । (परिक्रम्य) भो " ३ अहो वि अनेन वि " ४ ते । ते । तत् कुर्वताम् । " ८ क त " ९ यः । भोः ! यः । भवत्वेवं तावत् करिष्ये । भोः ! " १० ती - दि ती - अम्हहे दि " १२ ण इ णावि इ " १४ णः - इ णः - श्रूयताम् । इ " " कामिमामिच्छा का । इच्छा ८ १ त्ता - (आत्मगतम् ) हं त्ता - हं " १, २ मो .... । होदु, अ मो । होदु, सो अ " ३ पा प " ७ किं इ किं एत्थ इ " ८ भणादि आणवेदि ९ १ यः - .... अ यः - अ

Page 188Permalink

३ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. ९ २ वतो.... । वत्या भवतो भगिन्याः परिपालनम् । ,, ३ तन्नभ भ ,, ६ दु । अ दु । अय्या अ ,, ७ जा ईंदिसी से आइदी, यादिसी से आकिदी इअ रा इअं वि रा ,, ११ णः—हन्त भोः ! अ णः—(आत्मगतम् ) अ १० २ त्क्र द्र ,, ५ ष्ये । (परिक्रम्य) अ ष्ये । भवतु दृष्टम् । अ ,, ६ न भ नानेन भ ,, ७ बंध बधा ,, ८ विभवाः विटपाः ,, १२ (अन्यतो विलोक्य) अथ अथ ,, १७ ती—अम्मो प ती— प ११ ३ री—(आचम्य) भ री— भ ,, ९ मे सन्दा मे दा ,, १० थ प थ भोः ! प ,, २० णः—भवितव्यम् । त णः— त ,, २१ री— तत....स्ता री— ततस्ता १२ ५ सचिवस्त अमात्यस्त ,, ६ णः—सत्यं प णः—प ,, १० त्ता— जा त्ता—(आत्मगतम् ) जा ,, १४ जय राजा मो जय परिष्वज्य मो १३ १० रः सहसोत्थाय र उत्थायोत्थाय ,, १३ (दुःखि)ताः तादृशाः १४ ९ त्ता—दिट्ठिआ सु त्ता— सु ,, १० महद्वारसु महान् भारतमु ,, ११ न् । कुतः, स न् । स

Page 189Permalink

४ पृष्ठं पङ्किः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. १४ १२ स्य तु श्र स्य तच्छ्रू ,, १६ षितम्,....इत्येवं तं वि षितम् इत्येवं वि १५ १ नममात्यैर्महता य नं महाय ,, २ न्तम् । ततो निष्क्रा न्तमपश्यम् । ततोऽपक्रा ,, ६ णा एवं प णा प ,, ९ व्य सह म व्व म ,, १२ ब्रह्मचारी— तथास्तु (निष्क्रान्तः) निष्क्रान्तो ब्रह्मचारी ,, १३ णः— अह णः— साध्वह १६ ३, ४. ष्ठिष्यति । (काञ्चु- कीयमवलोक्य) ग ण्ठयिष्यति । ग ,, ६ यौग....न्तः) निष्क्रान्तो यौगन्धरायणः ,, १० गच्छामि दाव अ वन्दामि अ ,, ११ हि ।....का हि । का १७ १ ति ! त्यः ! १८ ३ आ माहवीळदाम आ पदुमावदी माहवीम ,, ४ स्सदो स्सगदा ,, ,, त्ति । जाव भ त्ति । गच्छ तुवं अहं पि भ ,, ५ मि । (परिक्रम्य) अ मि । अ ,, ,, करिद्दक कण्ठिअक ,, ७ कन्दुएण मुहेण ,, १० ति कन्दुकेन क्रीडन्ती प ति प ,, ,, त्तया सह) त्ता चेटी च) १९ १ ती— अय्ये ! भो ती— भो ,, २ त्ता— हळा! अ त्ता— अ ,, ४ हु दाव भ दु भ ,, ७, ८ सि । वा.... ह सि । आवन्तिका— ह

Page 190Permalink

५ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २० १ सा तु सखि तु ,, ६ टी—भट्टिदारिआ ते टी—ते ,, १०, ११ ता—....के ता—के २१ १ ता—(आत्मगतम्) जा ता—जा ,, ७ ढुं (प्रकाशम्) ह ढं ह ,, ८ णीओ ज णीज ,, ९ ती—जुज्जइ । ण खु ए ती—अज्ज उण ए ,, १० णमणेाभि णामि ,, १२ त्री—जेदु भट्टिदारिआ । त्री—भट्टिदारिए ! दि भट्टिदारिए ! दि २२ १ स्स । स्स दिण्णा । ,, ३ ता—अह कु ता—हं । (प्रकाशम्) अय्ये ! कु ,, ४ सो....अ । इह आओदो । पडिच्छिदा भट्टिदा- रिआ । ,, ९ अ उ अ पुणो उ ,, ११ न्ति । न्ति सोअसुण्णाणि । २३ ५ ता—....। अ ता—होइ । अ ,, ८ दु दाव अ दु अ ,, ११ ता—(आत्मगतम्) ज ता—ज ,, १२ दाइ मे रोदि मे ,, १३ धात्री—एदु एदु भ चेटी—पविसदु दाव अब्भन्तरं भ २४ १ ति विचिन्तयन्ती वा ति सचिन्ता वा ,, ४ वृत्तं च्वुत्तं ,, ९ (ततः प्रविशति पुष्पाणि (प्रविश्य पुष्पहस्ता) चे गृहीत्वा चे) ,, १० आ ।....अ आ । अ

Page 191Permalink

१ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २४ ११ रपडिहदचन्दलेहा विअ रगदा विअ पडिवदचन्दलेहा अ अ २५ १ य्ये आवन्तिए! को य्ये ! को ,, ४ चेटी धात्री ,, ५ णा त्ति । इ णा आवन्तिआ । इ ,, ८ त्ता— (आत्मगतम्) एदं वि मए कत्तव्वं त्ता— इदं पि मए कादव्वं होइ । आसी । ,, ९ अहो अक अक ,, १० अय्ये! मा दाणि अण्णं मा दाणि चि चि ,, ,, एसो जा जा ,, ११ दि । सिग्धं दाव गुह्मदु दि । अय्या । २६ १, २, ३, ४, ५. त्ता— .... कीदि त्ता—कीदि ,, ६ ण ईरिसो दि तादिसो ण दि ,, ७ हि .... ओ । हि । ,, ८ सअं .... सर सकं भणिदुं स सर ,, ११ ससङ्कि सदंसणसङ्कि ,, १२ य्या सिग्धं । य्या । २७ १ त्ता— .... इ त्ता—इ ,, २ मन्द .... (विलो आणेहि दाव । (विलो ,, ४ त्ता— .... इ त्ता—इ ,, ५ ए अ । .... इ ए अ । इ ,, ८ कीस । किण्णिमित्तम् । ,, १२ जामादुओ भट्टा २८ १ अह वदामि । ग इअं तुवारोमि । भद्दे । ग

Page 192Permalink

पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. २८ २, ३, ४, ५ चेटी— ... गदा चेटी निष्क्रान्तापरया सह । गदा " ५, ६, ७. सा .... णिहं ळ सा जाव दावाणि भाअधेअणि- व्वुत्तं दुःखं विणोदेमि । अच्छा हिदं अ- य्यउत्तो वि णाम परकेरओ संवृत्तो। अहं वि दाणि मम सय्याए दुक्खं विणोदेमि णिहं ण ळ २९ २ कः—(सहर्षं) दि कः—भो ! दि " ३ ट्ठो । को ट्ठो । भो ! को " ७ ए अ ए उण अ " ८ दोसो .... भुजगोदर(पृ.३६) दोसो जगोदर ३७ ९ इमाणि अवइद .... आ- इदाणिं पचिद...............आणि पे- गुच्छआणि पेक्खदु दाव भ क्खदु भ ३८ १, २, ३, ४. तः । .... सव्वं तः । सव्वं " ६ ए! इदं ए! एव्वं करेमि । इदं " ८ हि । .... वि हि । वि ३९ १ कः — .... पभा कः—भो ! तह । पभा ४० १२ व्वेण स च्छेण वि स " १४ कुम् .... वि कुम् । वि ४१ ४ किं कथं ४२ १ ती— .... स ती—णहि णहि । स " २ जो .... य्याए जो उच्चरदाए " ६ तदा वा तदा तत्रभवती वा ४३ १ कः .... त कः—का गई । त " २ त्ता मे त्ता वि मे " ११ जा .... ए जा—ए " " त्ता अ त्ता । वयस्य! अ

Page 193Permalink

८ पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकदृष्टः ग. पुस्तकपाठः. ४४ ४ विही । राजा— विही । ईदिसं दाणि एदं । राजा— ,, ५ जा — न जा— वयस्य ! न ,, १४ तुवं .... अ तुमं । ण जुत्तं दाणि उकण्ठिअं अययं एआइणं विसज्जिअ गन्तुं । अ ४५ ३ मि । .... (प्रविश्य) मि । (प्रविश्य) ,, ६ कः .... एसा त कः—अये त ,, ९ कः — ए कः—भोदि ! इदं । पद्मावती—किं एदं णाम । विदूषकः —ए ४६ ४ जा — .... बस जा—वस ,, ६ धु । .... प धु । प ,, ९ पद्मावति! देवि ! ,, १५ इदं उचिदं ४७ ३ ढम् । .... गु ढम् । गु ४८ ८ का — .... ग का—ग ,, ९ हि । के हि । मा तुवं आणवेदा विअ के ४९ १ इ । क इ । पद्मिनिका—क ,, ३ पद्मिनिका मधुकरिका ,, ,, ण्णा । ग ण्णा । पद्मिनिका—ग ,, ६ होदु करेहि ५० ४ ट्टिणो णिवेदेहि .... निष्क्रा ट्टिण्णो सिग्धं णिवेदेहि । निष्क्रा ,, १२ राजा ) राजा सपरिवारः) ५४ १६ जा — .... मूर्ख जा—मूर्ख ! ५५ ११ टी — ए टी—इह ळहुअदरं ए ५६ ९ करिअ .... जाव करिअ विसज्जिअ णिग्गदा । जाव ,, १० सामि । .... (उप सामि । (उप ,, १४ अस्स सू अस्स आआरेणसू

Page 194Permalink

पृष्ठं पङ्क्तिः मुद्रितपुस्तकपाठः. ख. पुस्तकादृष्टः ग. पुस्तकपाठः. १६ १५ (शयनं नाटयति) शेते १७ १ जा— .... हा जा—हा ,, २ ता— .... हं ता— हं ,, ४ त्तो । रा त्तो । मन्दभाआए मए किं किदं । रा ,, ५ हा अवन्तिराजपुत्रि ! वासवदत्ते ! ,, ६ त्तो । .... सु त्तो । भोदु, मु १८ ५ त्ता—को वि मं त्ता—इह को वि जणो मं ,, ६ ता गमिस्सं । ण जुत्तं चिट्ठिदुं ५९ ४ कः— .... उ कः—मा दाणि अणत्थं चिन्तिअ उ ,, ५ चिन्त.... वे । चिन्तिअ दिट्ठा तत्तहोदी विअ । ,, ७ जा— य जा— एवं स्वप्नो मया दृष्टः । य ,, ९ स्याद् स्य ,, ,, रम् । .... स्व रम् । अपिच स्व ,, १६ खम् ।। .... ए खम् । विदूषकः— इमस्सिं राउ- ळे अवन्तिसुन्दरी णाम जक्खिणी पडिवसदि । सा तुए दिट्ठा भवे । ए ६० ४ मो । (प्र मो । राजा — वयस्य ! पश्य पश्य, योऽयं सन्त्रस्तया देव्या तया बाहु- र्निपीडितः । खमेऽप्युत्पन्नसंस्पर्शो रोमहर्षं न मुञ्चति ॥ (प्र ६२ ५ तां व तां महाराजाय व ,, ११ महाप्पा मुहप्पा ६३ ३ को कु ,, ५ मुच्छूहेण मुहेण ,, १० मि । .... का मि । का ,, १४ विष्कम्भः प्रवेशकः ६४ ३ र्थं नु थासु