तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)
Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary
by आचार्य अभिनवगुप्त / राजानक जयरथ
Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)
Page 32 of 368
Read in context२२ श्रीतन्त्रालोकः । तद्देवताविभवभाविमहामरीचि- चक्रेश्वरायितनिजस्थितिरेक एव । देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ६ ॥ 'एक एव' अनन्यापेक्षतया निःसहायो 'गणस्य' करणचक्रस्य 'दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।' इत्यादिदृशा 'पतिः' अहङ्काररूपः प्रभुः, अत एव 'तासां' समनन्तरोक्तानां 'देवतानां' 'विभवेन' पर- प्रकाशात्मना स्फारेण 'यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ।' इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या 'महामरीचयः' तत्तदिन्द्रियदेवताः तासां यत् 'चक्रं' तत्रेश्वरवदाचरन् निजस्थितिर्यो 'मम' आत्मनः 'संविद्' एव अनवगाह्यत्वात् 'अब्धिः' 'सम्यक्' विषयकालुष्यविलायनेन समन्तात् सर्वत एव पं० १४ ग० पु० निजस्थितिमिति पाठः ।