BharatKosha
Back to the archive

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

by आचार्य अभिनवगुप्त / राजानक जयरथ

Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)

DevanagariSanskritpublished368 pages

प्रकाशात्मना स्फारेण

Page 32Permalink

२२ श्रीतन्त्रालोकः । तद्देवताविभवभाविमहामरीचि- चक्रेश्वरायितनिजस्थितिरेक एव । देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ६ ॥ 'एक एव' अनन्यापेक्षतया निःसहायो 'गणस्य' करणचक्रस्य 'दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।' इत्यादिदृशा 'पतिः' अहङ्काररूपः प्रभुः, अत एव 'तासां' समनन्तरोक्तानां 'देवतानां' 'विभवेन' पर- प्रकाशात्मना स्फारेण 'यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ।' इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या 'महामरीचयः' तत्तदिन्द्रियदेवताः तासां यत् 'चक्रं' तत्रेश्वरवदाचरन् निजस्थितिर्यो 'मम' आत्मनः 'संविद्' एव अनवगाह्यत्वात् 'अब्धिः' 'सम्यक्' विषयकालुष्यविलायनेन समन्तात् सर्वत एव पं० १४ ग० पु० निजस्थितिमिति पाठः ।

Page 33Permalink

श्लो० ६ ] प्रथममाह्निकम् । २३ तत्तदिन्द्रियप्रसृतसंविद्वारेण 'उच्छलयतात्' विका- सयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः । अब्धिस- मुच्छलनसमुचितत्वाच्च 'स्फुरदिन्दुकान्तिः'इत्युक्तम् । वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः । अथ च 'देवीसुतो' वटुकोऽप्येवंविधः, किंतु शरीरस्य धवलिम्ना 'स्फुरदिन्दुकान्तिः' । अस्य हि प्राणव्या- प्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । 'देवीसुत' इत्यु- भयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम् 'देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः ।' इति । 'गणेशो विघ्नहर्तासौ देवीपुत्रः ..........।' इति च ॥ ६ ॥ इह खलु शास्त्रादौ '............स्रोतोभेदं संख्यानमेव च । प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥' पं० २ ग० पु० उत्पादयेतामिति पाठः । पं० ५ क० पु० अत एव देवीति पाठः । पं० ७ ख० पु० व्याप्तिरस्तीति गुरव इति 'एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।

Page 34Permalink

२४ श्रीतन्त्रालोकः । इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्र- प्रक्रियात्मकत्वेन द्वैविध्येऽपि ‘नभःस्थिता यथा तारा न भ्राजन्ते रवौ स्थिते । एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥ तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति ।’ इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधा- न्यात् ‘भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये । तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥ कामरूपे महापीठे मच्छन्देन महात्मना ।’ इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं कीर्तयति पं० २ क० ख० पु० वक्ष्यमाणस्य शास्त्रस्येति पाठः । पं० ७ क० पु० इत्यायुक्तः कुलप्रक्रियाया अधिकारः कुलप्रक्रियायास्तु प्रक्रियान्त- रेभ्य इति पाठः । पं० ९ ख० पु० योगं व्यापि ततः इति पाठः । पं० ११ क० पु० कामपीठे महापीठे इति पाठः ।

Page 35Permalink

श्लो० ७ ] प्रथममाह्निकम् । २५ रागारुणां ग्रन्थिबिलावकीर्णां यो जालमातानवितानवृत्ति । कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥ ‘स’ सकलकुलशास्त्रावतारकतया प्रसिद्धः ‘मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः । छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥’ इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमे- श्वरसमावेशशालित्वात् ‘विभुः’ मम प्रसन्नः ‘स्तात्’ स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः । यो ‘जालं’ मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां ‘बाह्यपथे चकार’ ‘अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः ।’ इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचा- पहस्तनादनवधेयतां च निन्ये इत्यर्थः । तच्च ‘रागेण’ गैरिकादिद्रव्येण रागतत्त्वेन च ‘अरुणां’ लोहिती- पं० ११ क० पु० इन्द्रियजालप्रायामिति पाठः । पं० १४ ख० पु० इत्याद्युक्तोत्तरीयतेति पाठः । पं० १५ ख० पु० हस्तनादवधेयतामिति च पाठः । ४

Page 36Permalink

२६ श्रीतन्त्रालोकः । कृतम् इयर्ति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्र- सररूपं च, तथा 'ग्रन्थिभिः' बन्धनैः 'बिलैः' च सलि- लनिर्गमनस्थानैः 'ग्रन्थौ' मायाया द्वितीयस्मिन् भेदे 'बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च 'अवकीर्णं' व्याप्तम्, तथा 'आतानवितानवृत्ति' आ- यामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा 'कलया' विच्छित्तिविशेषेण कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन 'उम्भितम्' आरब्धम्। यदुक्तम् 'मायारूपं भवेज्जालं धारयेत्कुलचिन्तकः । विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥ भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकतम् । कलारागयुतं चैव.................................॥' इत्यादि ॥ ७ ॥ 'श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् । त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥ द्वयाद्वये च निपुणाः क्रमेण शिवशासने । आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥ स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः । अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥' पं० ३ क० पु० धारयेत्कुलेति पाठः ।

Page 37Permalink

श्लो० ८ ] प्रथममाह्निकम्। २७ इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामईकत्रैयम्बका- र्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयेण आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरून्- भिमुखयति त्रैयम्बकाभिहितसन्ततिताम्रपर्णी- सन्मौक्तिकप्रकरकान्तिविशेषभाजः । पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु- कल्लोलकेलिकलनामलकर्णधाराः ॥८॥ 'त्रैयम्बक' इति 'अभिहिता' 'सन्ततिः' मठिका इत्यर्थः ॥ ८ ॥ एवं 'शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् । कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥

  • ० १ क० पु० इत्यादिवक्ष्यमाणेति पाठः ।
  • ० ३ ख० पु० मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।
Page 38Permalink

२८ श्रीतन्त्रालोकः । कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् । नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ॥ ततः स भगवान्देवादादेशं प्राप्य यत्नतः । ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥' इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिल- शास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बक- सन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्री- कण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरूंश्चो- त्कर्षयति जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ ६ ॥ 'एक एव गुरुः' इत्यनेन अस्य अवतारकत्वं सूचितम् । 'महेश्वर' इति यः श्रीसन्तत्यर्धत्रैयम्बका- पं० ४ क० पु० न च्छिद्यते इति पाठः । पं० ५ क० पु० प्राप्य तत्त्वतः इति पाठः ।

Page 39Permalink

श्लो० ९ ] प्रथममाह्निकम् । २९ ख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति ईश इति च । यदाह ‘भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः । भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ॥ श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुकमः । त्रिकरूपत्त्रिकार्थे मे धियं वर्धयतांतराम् ॥’ इति । ‘तदपरमूर्तिः’ इत्यनयोर्भगवदावेशमयत्वं दर्शितम् । यद्यपि ‘यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः.........।’ इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि ‘तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।’ इत्यादृिशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् । यद्वक्ष्यति पं० ५ ख० पु० श्रीमद्भट्टादिरिति शोधितः पाठः । पं० ६ क० पु० त्रिकार्थो मे इति पाठः । पं० ११ ख० तथापि इति वाक्यं नास्ति ।

Page 40Permalink

३० श्रीतन्त्रालोकः । 'अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् । विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥' इति ॥ ६ ॥ 'पूर्वे जयन्ति गुरवः' इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि ‘..................‘तर्को योगाङ्गमुत्तमम् ।’ इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्य- भिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरु-परम- गुरु-परमेष्ठिनः पुनरपि पराम्रष्टुमाह श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥१०॥ तदास्वादभरावेशबृंहितां मतिषट्पदीम् । गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥११॥


पं० १ क० पु० रसान्वितम् इति, ख० पु० रसाहृतमिति पाठः । पं० ७ क० पु० प्रत्यभिज्ञापरस्येति पाठः ।

Page 41Permalink

श्लो० १३ ] प्रथममाह्निकम्। ३१ इदानीम् ‘उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।’ इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृते- र्निजमपि पितरमाशीर्वादमुखेन परामृशति यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः। स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः १२॥ ‘चुखुलक’ इति लोकप्रसिद्धमस्य नामान्तरम्। ‘गुरुत्तम’ इति उत्तमत्वस्य आचार्यगौरवातिरेक- स्मृतिरेव निमित्तम्, अत एव अन्यत्रापि ‘गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम्।’ इत्याद्युक्तम्॥ १२॥ एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥ १३॥ पं० २ उपाध्यायादिति पद्यस्य 'सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।' इति उत्तरार्धं ग० पु० अधिकं वर्तते।

Page 42Permalink

३२ श्रीतन्त्रालोकः । भगवत्याख्या अस्य दूती, कुलप्रक्रियायां हि दूती- मन्तरेण क्वचिदपि कर्मणि नाधिकारः इत्यतस्त- त्सहभावोपनिबन्धः । ‘योक्ता संवत्सरात्सिद्धिरीह पुंसां भयात्मनाम् । सा सिद्धिस्तत्त्वनिष्ठानां स्त्रीणां द्वादशभिर्दिनैः ॥ अतः सुरूपां सुभगां सरूपां भाविताशयाम् । आदाय योषितं कुर्यादर्चनं यजनं हुतम् ॥’ इति । ‘शास्त्रमार्गो’ विमलो जातः इत्यनेनास्य त्रिकाद्यागमव्याख्यातृत्वमपि प्रकाशितम् । यदुक्त- मनेनैव ‘इत्यागमं सकलशास्त्रमहानिधाना- च्छ्रीशंभुनाथवदनादधिगम्य सम्यक् । शास्त्रे रहस्यरससंततिसुन्दरेऽस्मिन् गम्भीरवाचि रचिता विवृतिर्मयैयम् ॥’ इति ॥ १३ ॥ इदानीं स्वप्रवृत्तिप्रयोजनादि आचक्षाणो ग्रन्थ- कारो ग्रन्थकरणं प्रतिजानीते पं० ६ ख० पु० सुरूपां भाविताशयामिति पाठः

Page 43Permalink

श्लो० १६ ] प्रथमाह्निकम् । ३३ सन्ति पद्धतयश्चित्राः स्रोतोभेदेषु भूयसा । अनुत्तरषडर्धार्थक्रमे त्वेकापि नेक्ष्यते ॥ १४ ॥ न चात्र अन्यथा संभाव्यम् – इत्यात्मन्याप्तत्वं प्रख्यापयन्नेवं प्रतिज्ञाकरणे सामर्थ्यं दर्शयति इत्यहं बहुशः सद्भिः शिष्यसब्रह्मचारिभिः । अर्थितो रचये स्पष्टां पूर्णार्थां प्रक्रियामिमाम् १५ श्रीभट्टनाथचरणाब्जयुगात्तथा श्री- भट्टारिकांघ्रियुगलाद्गुरुसन्ततिर्या । बोधान्यपाशविषनुत्तदुपासनोत्थ- बोधोज्ज्वलोऽभिनवगुप्त इदं करोति ॥ १६ ॥ तस्य गुरुपरम्परागतस्य ज्ञानस्य 'उपासनं' पुनः पुनः चेतसि विनिवेशनं तत उत्थितो योऽसावुप- देष्टव्यविषयो 'बोधः' साक्षात्कारस्तेन 'उज्ज्वलः' सम्यगवगतधर्मा सन् 'इदं' गुरूपदेशात्संशयविपर्या- सादिरहितत्वेनाधिगतमनुत्तरत्रिकार्थप्रक्रियालक्षणं पं० ३ क० ख० पु० न चान्यथेति पाठः । पं० ५ क० पु० 'इत्यहं' इति पद्यं नास्त्येव । ख० पु० इत्यलं बहुश इति पाठः । पं० १५ क० पु० त्रिकार्थं प्रक्रियाजच्चयगलितमिति पाठः । ५

Page 44Permalink

३४ श्रीतन्त्रालोकः । परान्प्रति चिख्यापयिषया 'करोति' उपदिशति इत्यर्थः । 'अभिनवगुप्त' इति सकललोकप्रसिद्धना- मोदीरणेनापि आप्तत्वमेव उपोद्बलितम् । उक्तं हि 'साक्षात्कृतधर्मा यथादृष्टस्यार्थस्य चिख्यापयिषया प्रयुक्त उपदेष्टा चाप्तः ।' इति । तच्छब्दपरामृष्टं व्याचष्टे 'या गुरुसन्ततिः' इति, 'गुरुसन्ततिः' गुरुपारम्पर्यमविच्छिन्नतया स्थितं तदुपदिष्टं ज्ञानमित्यर्थः, सा च कीदृक् ? इत्युक्तं- 'बोधान्यपाशविषनुत्' इति 'यत्किंचित्परमाद्वैतसंवित्स्वातन्त्र्यसुन्दरात् । पराच्छिवाद्रुकरूपादन्धत्तत्पाश उच्यते ॥' इत्यादिवक्ष्यमाणनीत्या 'बोधात्' पराच्छिवाद्यद- ख्यात्यात्म भेदप्रथात्मकम् 'अन्यत्' तदेव 'पाशः' स एव मोहकत्वात् 'विषं' तत् नुदति या सा । तथा 'श्रीभट्टनाथ' इति श्रीशंभुनाथः । 'श्रीभट्टारिका' इति भगवत्याख्या अस्य दूती । यदुक्तमनेनैव 'भट्टं भट्टारिकानाथं श्रीकण्ठं दृष्टभैरवम् । भूतिकलाश्रिया युक्तं नृसिंहं वीरमुत्कटम् ॥ नानाभिधानमाद्यन्तं वन्दे शंभुं महागुरुम् ।' पं० १२ ख० पु० यदनाख्यात्मभेदप्रथेति पाठः । पं० १८ क० पु० कलाश्रया इति पाठः ।

Page 45Permalink

श्लो० १८ ] प्रथमाह्निकम् । ३५ इति । 'स्त्रीमुखे निक्षिपेत्प्राज्ञः स्त्रीमुखाद्ग्राहयेत्पुनः ।' इत्याद्युक्तेः कुलप्रक्रियायां दूतीमुखेनैव शिष्यस्य ज्ञानप्रतिपादनाम्नायात् इह गुरुतद्दूत्योः समस्कन्ध- तया उपादानम् ॥ १६ ॥ ननु सामान्येन त्रिकदर्शनप्रक्रियाकरणं प्रतिज्ञाय, संभवत्यपि तदर्थाभिधायिनि शास्त्रजाते किमिति श्रीमालिनीविजयोत्तरमेवाधिकृत्य तन्निर्वाहयिष्यते इत्याशङ्क्याह न तदस्तीह यन्न श्री-मालिनीविजयोत्तरे । देवदेवेन निर्दिष्टं स्वशब्देनाथ लिङ्गतः ॥१७॥ 'श्रीमालिनीविजयोत्तरे' इति नादि-फान्ताया मालिन्या 'विजयेन' सर्वोत्कर्षेण उत्तरति सर्वस्रोतो- भ्यः प्लवते, सारभूतत्वात्सर्वशास्त्राणाम् ॥ १७ ॥ एतदेवाह दशाष्टादशवस्वष्टभिन्नं यच्छासनं विभोः । तत्सारं त्रिकशास्त्रं हि तत्सारं मालिनीमतम्॥१८॥ पं० ६ क० पु० सामान्येनेति पाठः ।

उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातौ

Page 46Permalink

३६ श्रीतन्त्रालोकः । इह खलु परपरामर्शसारबोधात्मिकायां परस्यां वाचि सर्वभावनिर्भरत्वात्सर्वं शास्त्रं परबोधात्मकत- यैव उज्जृम्भमाणं सत्, पश्यन्तीदशायां वाच्यवाचका- विभागस्वभावत्वेन असाधारणतया अहंप्रत्यवम- र्शात्मा अन्तरुदेति, अत एव हि तत्र प्रत्यवमर्शकेन प्रमात्रा परामृश्यमानो वाच्योऽर्थोऽहन्ताच्छादित एव स्फुरति, तदनु तदेव मध्यमाभूमिकायामान्त- रेव वेद्यवेदकप्रपञ्चोदयाद्भिन्नवाच्यवाचकस्वभावतया उल्लसति । तत्र हि परमेश्वर एव चिदानन्देच्छाज्ञान- क्रियात्मकवक्त्रपञ्चकासूत्रणेन सदाशिवेश्वरदशाम- धिशयानस्तद्वक्त्रपञ्चकमेलनया पञ्चस्रोतोमयम् अभे- द-भेदाभेद-भेददशोट्टङ्कनेन तत्तद्भेदप्रभेदवैचित्र्यात्म निखिलं शास्त्रमवतारयति, यद्बहिर्वैखरीदशायां स्फुट- तामियात् । तथाहि – प्रथममीशानतत्पुरुषसद्यो- जातैरेकैकस्य उद्बुभूषुभिः सद्भिर्भेदत्रयमुल्लासितम् उद्भूतैश्च – इत्येकैकभेदाः षट्, त्रिभिरप्येभिः संभूय उल्लासित एको भेदः, ईश-तत्पुरुषौ ईश-सद्योजातौ

२ पं० ख० पु० परविबोधेति पाठः । पं० १७ क० पु० ईशानतत्पुरुषाविति पाठः।

Page 47Permalink

श्लो० १८] प्रथमाह्निकम् । ३७ सद्योजात-तत्पुरुषौ इति द्व्यात्मना संभूयापि एभिः त्रिभिर्भेदत्रयं समुल्लासितम् - इत्येते भेदप्रधाना दश शिवभेदाः । तदुक्तम् 'ईशतत्पुरुषाजातैरुद्भूतैरुद्बुभूषुभिः । एककैः षड्भिरेकेन त्रिकेण द्व्यात्मकैस्त्रिभिः ॥ तदित्थं शिवभेदानां दशानामभवत्स्थितिः।' इति । एषामेव च वामदेवाघोरमेलनया अष्टादश रुद्रभेदा भवन्ति । तथा च तत्रैककेन वामदेवा- घोरात्मभेदेन भेदद्वयमेव, पञ्चविधत्वेऽपि ईशा- देर्वक्त्रत्रयस्य शिवभेदेषु उक्तत्वात् उक्तस्य च पुनर्व- चनानुपपत्तेः, तथा द्व्यात्मकत्वेन भेदत्रयस्य, तेन पञ्चानां त्र्यात्मकत्वेन भेदत्रयस्य शिवभेदेषु उक्तत्वात् । तत्पुरुष-सद्योजातयोस्तु एवं स्वभावा- भावात्, ताभ्यां सह असङ्गतेर्भेदचतुष्टयाभावादीश- पं० ६ क० पु० उभयस्थितिरिति पाठः । पं० ८ क० पु० एकैकेनेति पाठः । पं० ११ क० पु० नुपपत्तेरित्यनन्तरं 'तथा द्व्यात्मकत्वेन भेदत्रयस्य, इति वाक्यं नास्ति । पं० १३ क० पु० स्वभावभावादिति पाठः ।

Page 48Permalink

३८ श्रीतन्त्रालोकः । वामौ, ईशाघोरौ, अघोर-वामौ - इति द्व्यात्मकं भेदत्रयमेव अवशिष्यत - इति त्रयो द्विकभेदाः । तथा पञ्चानामपि ईश-तत्पुरुषाजातवामाघोराणां त्र्यात्मकत्वेन संमीलनायामीशानस्य क्रमेण इतर- वक्त्रसंभेदे षट्, तत्पुरुषस्य त्रयः, तथा सद्योजातस्य तदवशिष्टवक्त्रसंभेदेऽपि एक एव - इति दशविधत्वे- ऽपि ईश-तत्पुरुष-सद्योजातात्मनः प्रथमत्रिकस्य शिवभेदेषु उक्तत्वात् ईश-वामाघोरात्मनः शिष्टस्य त्रिकस्य व्यापारान्तरेण नियोक्ष्यमाणत्वाच्च त्र्यात्मक- भेदाष्टकमेवावशिष्यते - इत्यष्टावेव त्रिकभेदाः । अत एव एकककथनं चिन्त्यमिति न वाच्यम्,- तत्पुरुषाजात-वामाघोराणां हि द्व्यात्मकतया चतुरा- त्मकतया वा ज्ञानजनने संयोगनिषेधो विवक्षितः, त्र्यात्मकतायामपि तथाभावे हि बहूनां भेदानां निषेधः प्रसज्यते - इति भेदसप्तककथनमपि न्याय्यं पं० १ क० पु० द्व्यात्मकभेदत्रयमिति समस्तः पाठः । पं० ७ ख० पु० जातात्मान इति पाठः । पं० ८ ख० पु० घोरात्मान इति पाठः । पं० ११ क० पु० अत एव एकैककथनमिति पाठः ।

Page 49Permalink

श्लो० १८ ] प्रथमाह्निकम् । ३९ न स्यात् – इत्यलं बहुना । तथा पञ्चानामप्येषां चतुरात्मकत्वेन संमीलनायां पञ्चविधत्वेऽपि नराजाता- वामाघोराणामुक्तयुक्त्या संगत्यभावाच्चत्वारश्चतु- र्भेदाः, सर्वेषामप्येषां संमीलनायां पञ्चकभेद एक एव – इत्येवम् ‘अष्टादश’ भेदाभेदप्रधाना रुद्रभेदाः । तदुक्तं ‘यदा त्रयाणां वक्त्राणां वामदक्षिणसंगतिः । तदा सप्त द्विकभेदा अष्टौ चैव त्रिकात्मकाः ॥ चतुष्काश्चापि चत्वारः पञ्चकस्त्वेकरूपकः । इति विंशतिमध्यात्तु नराजातावसंगतिम् ॥ वामाघोरद्वये यातः स्वातन्त्र्यात्पूर्वपश्चिमौ । ज्ञानं भजेते नैवेति भेदषोडशकं स्थितम् ॥ तत्रापि वामदेवीयमेकं तदुपरि स्थितम् । स्वरूपं भैरवीयं च तेनाष्टादशधा स्थितिः ॥ रुद्रभेदस्य शास्त्रेषु शिवेनैवं निरूपिता ।’ इति । एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तं, तद्यथा पं० ८ क० पु० सप्तद्विका भेदा इति पाठः । पं० १० ख० पु० विंशकमध्यान्तर इति पाठः । पं० १७ क० पु० उक्तमित्यनन्तरं ‘तद्यथा’ इति वाक्यं नास्ति ।

Page 50Permalink

४० श्रीतन्त्रालोकः । 'स्रोतस्यूर्ध्वं भवेज्ज्ञानं शिवरुद्राभिधं द्विधा । कामजं योगजं चिन्त्यं मौकुटं चांशुमत्पुनः ॥ दीप्तं······································न्तरं पुनः । शिवभेदाः समाख्याता रुद्रभेदांस्त्वमाञ्छृणु ॥ विजयं चैव निःश्वासं मद्गीतं पारमेश्वरम् । मुखबिम्बं च सिद्धं च सन्तानं नारसिंहकम् ॥ चन्द्रांशुं वीरभद्रं च आग्नेयं च स्वयम्भुवम् । विसरं रौरवाः पञ्च विमलं किरणं तथा ॥ ललितं सौरभेयं च तन्त्राण्याहुर्महेश्वरि । अष्टाविंशतिरित्येवमूर्ध्वस्रोतोविनिर्गताः ॥' अत्र चानेनैव '············शिवैरुक्तः शिवाभिधः । भेदो रुद्रैश्च रुद्राख्य इति भेदो निरूपितः ॥' 'वसुभिः' अष्टभिर्गुणिता 'अष्टौ' चतुःषष्टिर्भैरव- भेदाः । तथा च अद्वयस्वभावे स्वरूपे शिवशक्ति- तत्संघट्टाख्ययोगिनीवक्त्रात्मनि दक्षिणवक्त्रे प्रत्येक- मुहुभूषूद्गत-तिरोधित्सु-तिरोहितात्मकतया चतु- पं० ४ क० ख० पु० भेदाञ्छृणु प्रिये इत्येवंविधः पाठः । पं० ५ ख० पु० सद्गीतमिति पाठः । पं० ६ ख० पु० नारसिंहिकमिति पाठः । पं० १२ ख० पु० स्वरूपशिवशक्तीति समस्तः पाठः

Page 51Permalink

श्लो० १८ ] प्रथमाह्निकम् । ४१ रूपत्वेन भेदषोडशात्मकमितरद्वक्त्रचतुष्टयं यदा युगपदन्तर्लीनतामेति तदैषां परस्परमेलनया चतुः- षष्टिरद्वयप्रधाना भैरवभेदाः । तदुक्तं 'यच्चान्ते दक्षिणं हार्दं लिङ्गं हृत्परमं मतम् । तदप्यन्तःकृताशेषस्प[सृ]ष्टभावसुनिर्भरम् ॥ सर्वसंहारकत्वाच्च कृष्णं तिमिररूपधृत् । भेदभावकमायीयतेजोऽशग्रसनात्मकम् ॥ तत्रान्तर्लीनतां याति यावद्वक्त्रचतुष्टयम् । उद्बुभूषु तथोद्भूतं तिरोधित्सु तिरोहितम् ॥ इत्थं युगपदेवैतद्भेदषोडशकात्मकम् । दक्षे वैसर्गिके हार्दे स्वतन्त्रेऽथ शिवे विशत् ॥ अष्टाष्टकात्म तच्छास्त्रं युगपद्भैरवाभिधम्।' इति। एतच्च श्रीश्रीकण्ठ्यामभिधानपूर्वं विस्त- रत उक्तम्। तद्यथा 'अन्यत्संक्षेपतो वक्ष्ये गीतं यत्परमेष्ठिना । तच्च भेदैः प्रवक्ष्यामि चतुःषष्टिं विभागशः ॥ पं० ३ ग० पु० उक्तंच इत्येवंविधः पाठः । पं० १२ ग० पु० अष्टाष्टकात्मकं शास्त्रमिति पाठः । पं० १४ ग० पु० तथाहीति पाठः । पं० १६ क० पु० चतुःषष्टिविभागश इति पाठः । ६