BharatKosha
Back to the archive

तन्त्रालोक (प्रथम भाग - जयरथ विवृति सहित)

Tantraloka Vol 1 by Acharya Abhinavagupta with Jayaratha Commentary

by आचार्य अभिनवगुप्त / राजानक जयरथ

Source: काश्मीर संस्कृत ग्रन्थावली · काश्मीर संस्कृत ग्रन्थावली · 1950 (origin)

DevanagariSanskritpublished368 pages
Page 22Permalink

१२ श्रीतन्त्रालोकः । इति । अथ च 'हृदयं' निजबलसमुद्भूतिलक्षणं तत्त्वं विशेषानुपादानात् सर्वस्य सम्यक् प्रख्योपाख्यारोहेण 'स्फुरतात्' विकसतात्—इत्यर्थः । तच्च कीदृक् ? 'तदुभयं' इति । तत् आद्यार्धव्याख्यास्यमानं माता- पितृलक्षणम् 'उभयं' तस्य यत् 'यामलम्' आद्यया- गाधिरूढं मिथुनं, तस्य परस्परोन्मुख्येन चमत्कार- तारतम्ययोगात् 'स्फुरितः' सोल्लासो योऽसौ 'भावः' आशयविशेषः, तेन यो 'विसर्गः' क्षेपः कुण्डगोला- ख्यद्रव्यविशेषनिःष्यन्दः, स प्रकृतिर्यस्य तत् ; अत एव च 'अनुत्तरे' श्वेतारुणात्मदेवतामयताद्यनुसंधा- नेन पशुशुक्रशोणितवैलक्षणयादुत्कृष्टे 'अमृते' सारे '.............कुलमुत्पत्तिगोचरः।' इत्युक्त्या 'कुलम्' आकारो यस्य तत् । किं तदुभयम् ?—इत्याह 'जननी जनकश्च' इति । कीदृशी पं० २ ख० पु० लक्षणं सतत्त्वमिति पाठः । पं० ४ क० ख० पु० तच्च तदाद्यार्धेति 'कीदृक्-तदुभयेति' वाक्यद्वयहीनश्च पाठः । पं० ६ क० पु० आश्रयविशेषस्तेन विमलो यो विसर्ग इति, कुण्डगोलकाख्यो द्रव्येति च पाठः । पं० १२ क० पु० वैलक्षण्याद्युत्कृष्टे इति पाठः । पं० १३ ख० पु० कुल उत्पत्तिगोचरे इति पाठः ।

Page 23Permalink

श्लो० १ ] प्रथमाह्निकम् । १३ जननी ? 'विमलकलाश्रया' इति । 'विमला' इति वर्णकला 'आश्रयः' आलम्बनं यस्याः सा, विमल- कलाभिधाना-इत्यर्थः । तथा 'अभिनवसृष्टिमहा' इति । 'अभिनवस्य' श्रीमदभिनवगुप्तस्य 'सृष्टिः' जन्म सैव 'नन्दन्ति पितरस्तस्य नन्दन्ति च पितामहाः । अद्य माहेश्वरो जातः सोऽस्मान्संतारयिष्यति ॥' इत्याद्युक्तेः सत्पुत्रप्रसवेन कृतकृत्यतया चमत्का- रातिशयकारित्वेन 'महः' उत्सवो यस्याःसा तथा । तथा जनकश्च कीदृशः ? 'पञ्चमुखगुप्तरुचिः' । 'पञ्च- मुखः' सिंहः, सिंहगुप्तेति संज्ञया 'रुचिः' दीप्तिः सर्वत्र प्रथा यस्यासौ 'तस्यात्मजश्चुखुलकेति जने प्रसिद्ध- श्चन्द्रावदातधिषणो नरसिंहगुप्तः ।' पं० २ क० पु० वर्णकलास्वरूप आश्रय इति पाठः । पं० ३ क० पु० चमत्कारत्वेनेति इयानेव पाठः ।

Page 24Permalink

१४ श्रीतन्त्रालोकः। इति वक्ष्यमाणदृशा नरसिंहगुप्तसंज्ञया ख्यातः- इत्यर्थः । अस्य हि ग्रन्थकृतः श्रीनरसिंहगुप्तविमला- ख्यौ पितरौ,-इति गुरवः । ‘सन्ति [न्तो] हि पदेषु पदैकदेशान्प्रयुञ्जानाः ।’ इति नीत्या ‘भीमो भीमसेनः’ इतिवत् अत्रापि नर- सिंहगुप्तसिंहगुप्तपदयोः प्रयोगः । ‘भरिततनुः’ इति ‘शिवशक्त्यात्मकं रूपं भावयेच्च परस्परम् । न कुर्यान्मानवीं बुद्धिं रागमोहादिसंयुताम् ॥ ज्ञानभावनया सर्वं कर्तव्यं साधकोत्तमैः ।’ इत्याद्युक्तनीत्या द्वयोरपि शिवशक्तिसमावेशमयत्वा- भिधानस्येष्टेः काकाक्षिन्यायेन योज्यम् । तदेवम् एवंविधसिद्धयोगिनीप्रायपितृमेलकसमुत्थतया ‘तादृङ्मेलककलिका- कलिततनुर्यो भवेद् गर्भे । उक्तः स योगिनीभूः स्वयमेव ज्ञानभाजनं भक्तः ॥’

Page 25Permalink

श्लो० १ ] प्रथमाह्निकम्। १५ इत्युक्तनीत्या स्वात्मनि निरुत्तरपदाद्वयज्ञानपा- त्रतामभिदधता ग्रन्थकृता निखिलषडर्धशास्त्रसार- संग्रहभूतग्रन्थकरणेऽप्यधिकारः कटाक्षीकृतः । अत्र च संभवन्त्यपि व्याख्यान्तराणि न कृतानि, ग्रन्थ- गौरवभयात् प्रकृतानुपयोगाच्च । केषांचिदपि व्याख्या- न्तराणामासमञ्जस्यमतीव संभवदपि न प्रकाशितम् । एवं हि ‘........................तस्यै हेतुं २ न चाचरेत् ।’ इति वक्ष्यमाणदृशा स्वात्मनि समयलोपावहं महात्मनाम् महागुरूणां ३ निन्दाबीजमासूत्रितम्,– २ हेतुः आक्षेपः । ३ समयलोपावहम् अचारभ्रष्टतासंपादकम् । महागुरूणां निन्दा- बीजमिति, इत्थं हि केचिदत्र मन्दधियः समर्थयन्ते,– विमलकला विगताः सर्वकलङ्कमला यस्यां सा षोडशी कलात्मिका तिथिः, अर्था दमावास्याख्या, सैव अभिनवसृष्टिः पञ्चदशकलासृष्टिः, तत्र सोद्योगा तथा भरिततनुश्च । पञ्चमुखगुप्तरुचिरिति, दिनं पञ्चयामकं रात्रि- स्त्रियामा इत्याश्रित्य पञ्चमुखं दिनं तत्र गुप्तरुचिरीक्षिताभिलाषः अमावस्यादिनप्रारम्भ इत्यर्थः । निन्दाबीजमिति सविचिकित्सज्योतिष- शास्त्रदृशा, न तु अनुत्तरदृशा, तत्र अमावस्यादिनप्रारम्भयोरवश्यं रक्ष- णीयत्वाद्भरमेवैतदिति सहृदया एवात्र प्रमाणम् ॥ पं० ८ ख० पु० तस्यैव हेतुमिति एव पदाधिकः पाठः ।

Page 26Permalink

१६ श्रीतन्त्रालोकः । इति भवेत्; को नाम शान्तिकर्मारभमाणो वेतालोत्थापनं कुर्यात्, इह चास्माभिस्तद्व्याख्यासा- रोच्चयनस्यैव प्रतिज्ञातत्वात् तदेव क्रियते,-इति तदि- तरत्स्वयमेवसर्वत्रासारतयाचिन्वन्तु सचेतसः,-इत्य- लमनेनापि वचनेन, प्रस्तुतमिहाभिदध्मः ॥ १ ॥ तदेवं परं त्रिकं परामृश्य परापरमपि पराम्रष्टु- मुपक्रममाणः प्रथमं तावत् परां देवीं परामृशति नौमि चित्प्रतिभां देवीं परां भैरवयोगिनीम् । मातृमानप्रमेयांशशूलाम्बुजकृतास्पदाम् ॥२॥ 'परां' पूर्णाम्, अत एव भिन्नमपि जगत् स्वा- त्मनि अभेदरूपतया पालयन्तीम् अनन्योन्मुखतया च प्रकृष्टां 'या सा शक्तिर्जगद्धातुः कथिता समवायिनी।' इत्याद्युक्त्या 'भैरवयोगिनीं' नित्यमेव परप्रमा- त्रवियुक्तत्वात् तदात्मभूताम्, अत एव पं० ४ ख० पु० इत्यमलेनापीति पाठः । पं० ११ क० ख० पु० अभेदतयेति पाठः ।

Page 27Permalink

श्लो० ३ ] प्रथममाह्निकम् । १७ 'इच्छात्वं तस्य सा देवि सिसृक्षोः प्रतिपद्यते ।' इत्याद्युक्त्या चिद्रूपा चासौ 'प्रतिभा' प्रज्ञा, ताम् आद्योच्छलत्तात्मकत्वेन बहिरुल्लिलसिषास्वभावाम्, अत एव 'देवीं' प्रमातुरपि विश्रान्तिधामत्वात् प्रमिति- रूपतया द्योतमानाम्, अत एव बहिरपि प्रमातृप्रमाण- प्रमेयाण्येव 'अंशा' अरारूपा भागा यस्य 'शूलस्य' तत्र यानि औन्मनसानि अम्बुजानि, तत्र 'कृतास्पदां' तदुत्तीर्णतया भासमानां 'नौमि' देहप्राणादिप्रमातृ- रूपन्यग्भावेन तत्स्वरूपमाविशामि-इत्यर्थः ॥२॥ एवमुक्तेऽपि परास्वरूपेऽपरास्वरूपमनभिधाय, तदुभयमयस्य परापरस्वरूपस्य वक्तुमशक्यत्वात् क्रमप्राप्तां परापरां देवीं परिहृत्य, प्रथमं तावदपरां देवीमभिमुखयति नौमि देवीं शरीरस्थां नृत्यतो भैरवाकृते । प्रावृरामेघघनव्योमविद्युल्लेखाविलासिनीम् ॥३॥ पं० २ ख० पु० प्रज्ञापदं नास्ति । पं० ६ क० पु० अणुरूपा भागा इति पाठः । पं० ८ ख० पु० प्राणाभिमातृरूपेति पाठः । पं० ११ क० पु० परापरस्वरूपस्येति पाठः । पं० १२ क० पु० परापरदेवीमिति पाठः । ३

Page 28Permalink

१८ श्रीतन्त्रालोकः । 'नृत्यतो' ‘नर्तक आत्मा’ ( शि० ३ उ० ९ सू० ) इति शिवसूत्रदृष्ट्या निगूहितस्वस्वरूपावष्टम्भमूलं तत्तद्विश्ववैचित्र्यभूमिकाप्रपञ्चं प्रकाशयतो ‘भैरवा- कृतेः’ पूर्णस्वरूपस्य परमात्मनः ‘शरीरस्थाम्’ ‘एवंभूतमिदं वस्तु भवत्विति यदा पुनः । जाता तदैव तद्वस्तु कुर्वत्यत्र क्रियोच्यते ॥’ इत्याद्युक्त्या तत्तत्प्रमातृप्रमेयाद्यनन्ताभासवैचित्र्य- कारितया स्वरूपाविष्टाम्, अत एव ‘देवीं’ जगदुल्ला- सनक्रीडाकारिणीम् अपरां भगवतीं ‘नौमि’ इति संबन्धः । अत एव बहिरपि विश्वात्मना द्योतमा- नत्वेऽपि ‘भेदभावकमायीयतेजोंशग्रसनाच्च तत् । सर्वसंहारकत्वेन कृष्णां तिमिररूपधृत् ॥’ इत्याद्युक्तस्वरूपे परप्रमातर्येव विश्रान्तत्वात् कृष्ण- पिङ्गलरूपाम् इत्युक्तं ‘प्रावृण्मेघघनव्योमविद्युल्लेखा- विलासिनीम्’ इति ॥ ३ ॥ पं० ४ क० ख० पु० तत्तद्वैचित्र्येति पाठः ।

Page 29Permalink

श्लो० ४ ] प्रथममाह्निकम् । १९ अथ परापरोभयस्वरूपमयीं परापरां देवीं परा- मृशति । दीप्तज्योतिश्छटाप्लुष्टभेदबन्धत्रयं स्फुरत् । स्ताज्ज्ञानशूलं सत्पक्षाविपक्षोत्कर्तनक्षमम् ॥४॥ 'ज्ञानं' 'एवमेतदिदं वस्तु नान्यथेति सुनिश्चितम् । ज्ञापयन्ती जगत्यत्र ज्ञानशक्तिर्निगद्यते ॥' इत्याद्युक्तज्ञानशक्तिस्वभावमपि अन्तरासूत्रितेच्छा- क्रियात्मकम्, अत एव परापराशब्दव्यपदेश्यम्, अत एव तत् 'लोलीभूतमतः शक्तित्रितयं तत्रिशूलकम् ।' इति वक्ष्यमाणनीत्या 'त्रिशूलम्' अत एव 'दीप्ताभिः' अप्रतिहताभिः तत्तदिन्द्रियवृत्तिरूपाभिः 'ज्योति- श्छटाभिः 'यत्र यत्र मिलिता मरीचय- स्तत्र तत्र विभुरेव जृम्भते ।' इत्यादिनीत्या वक्ष्यमाणस्वरूपस्य भेदप्रधानस्य बन्धहेतुत्वात् बन्धरूपस्य आणवादिमलत्रयस्य प्लोष- पं० १ क० ख० पु० परापरादेवीमिति समस्तः पाठः ।

Page 30Permalink

२० श्रीतन्त्रालोकः । कम्, अत एव ‘स्फुरत्’ शुद्धबोधैकरूपतया स्फुरत्ता- सारम्, अत एव ‘सन्’ च असौ ‘पक्षो’ जगदानन्द- स्तस्य ‘विपक्षाः’ तदप्रथारूपा निजानन्दाद्या आनन्दा४ अनानन्दाश्च तेषाम् ‘उत्कर्तनं’ पूर्णप्रथात्मकत्वेन क्षपणं, तत्र ‘क्षमं’ समर्थं ‘स्तात्’ इति वाक्यार्थः । तदुक्तं ‘जयन्ति जगदानन्दविपक्षक्षपणक्षमाः । परमेशमुखोद्भूतज्ञानचन्द्रमरीचयः ॥’ इति ॥ ४ ॥ इदानीमपरमपि त्रिकं पराम्रष्टुमाह स्वातन्त्र्यशक्तिः क्रमसंसिसृक्षा क्रमात्मता चेति विभोर्विभूतिः । तदेव देवीत्रयमन्तरास्ता- मनुत्तरं मे प्रथयत्स्वरूपम् ॥ ५ ॥ ‘स्वातन्त्र्यरूपा शक्तिः’ यस्यासौ अनन्तशक्ति- र्भगवान् शिवः, ‘क्रमस्य’ ४ शून्यप्रभृतिव्यानान्ता विश्रान्तिरूपनिजानन्द-निरानन्द-परानन्द-ब्रह्मानन्द- महानन्द-चिदानन्दरूपाः षडानन्दभूमय इति । पं० १४ ख० पु० प्रथयत्प्रकाशमिति पाठः ।

प्रकाशात्मकत्वात् 'अनुत्तरं' 'स्वं' सर्वकर्तृत्वादेरसा-

Page 31Permalink

श्लो० ५ ] प्रथममाह्निकम् । २१ 'मूर्त्तिवैचित्र्यतो देशक्रममाभासयत्यसौ । क्रियावैचित्र्यनिर्भासात् कालक्रममपीश्वरः ॥' (ई० २।१।५) इत्याद्युक्तनीत्या देशकालात्मनो विश्ववैचित्र्यस्य सर्गस्य, सम्यग्भेदेन 'सिसृक्षा' जगत्सृष्टिनिमित्तं पार- मेश्वरी इच्छारूपा शक्तिः, 'क्रमात्मता' 'क्रमो भेदाश्रयो भेदोऽप्याभाससदसत्त्वतः।' (ई० २।१।४) इत्यादिनीत्या भेदप्रधानं तत्तदनन्ताभाससंभिन्नं संकुचितात्मरूपं नरत्वम्, इत्येवं येयं नर-शक्ति-शिवा- त्मिका 'विभोः' भगवतः परस्यानुत्तरस्य प्रकाशस्य 'विभूतिः' तत्तत्स्फुरणात्मत्वेन ऐश्वर्यं 'तदेव' क्रमेण तत्स्फारसारत्वात् समनन्तरोक्तस्वरूपं 'देवीत्रयं' पर- प्रकाशात्मकत्वात् 'अनुत्तरं' 'स्वं' सर्वकर्तृत्वादेरसा- धारणं 'रूपं' 'प्रथयत्' तत्तद्भेददशोदयेऽप्यतिरोदधत् मम आत्मनः 'अन्तरास्ताम्' ऐकात्म्येन स्फुरतात्- इत्यर्थः ॥ ५ ॥ एवं स्वदर्शनोचितदेवतापरामर्शानन्तरं तत्स्वरूपा- नुप्रवेशेनैव युगपद् गणेशवटुकावपि अभिमुखयति पं० १० ख० पु० तत्तत्स्फुटात्मत्वेनेति पाठः ।

प्रकाशात्मना स्फारेण

Page 32Permalink

२२ श्रीतन्त्रालोकः । तद्देवताविभवभाविमहामरीचि- चक्रेश्वरायितनिजस्थितिरेक एव । देवीसुतो गणपतिः स्फुरदिन्दुकान्तिः सम्यक्समुच्छलयतान्मम संविदब्धिम् ६ ॥ 'एक एव' अनन्यापेक्षतया निःसहायो 'गणस्य' करणचक्रस्य 'दिनकरसममहदादिकगणपतितां वहति यो नमस्तस्मै ।' इत्यादिदृशा 'पतिः' अहङ्काररूपः प्रभुः, अत एव 'तासां' समनन्तरोक्तानां 'देवतानां' 'विभवेन' पर- प्रकाशात्मना स्फारेण 'यत्तत्र नहि विश्रान्तं तन्नभःकुसुमायते ।' इति वक्ष्यमाणनीत्या भवनशीलाः तन्मयतया परिस्फुरन्त्यो या 'महामरीचयः' तत्तदिन्द्रियदेवताः तासां यत् 'चक्रं' तत्रेश्वरवदाचरन् निजस्थितिर्यो 'मम' आत्मनः 'संविद्' एव अनवगाह्यत्वात् 'अब्धिः' 'सम्यक्' विषयकालुष्यविलायनेन समन्तात् सर्वत एव पं० १४ ग० पु० निजस्थितिमिति पाठः ।

Page 33Permalink

श्लो० ६ ] प्रथममाह्निकम् । २३ तत्तदिन्द्रियप्रसृतसंविद्वारेण 'उच्छलयतात्' विका- सयतात्, तदेकमयतामुत्पादयतात् इत्यर्थः । अब्धिस- मुच्छलनसमुचितत्वाच्च 'स्फुरदिन्दुकान्तिः'इत्युक्तम् । वस्तुतो हि अपानव्याप्तिरस्यास्ति इत्येवं-निर्देशः । अथ च 'देवीसुतो' वटुकोऽप्येवंविधः, किंतु शरीरस्य धवलिम्ना 'स्फुरदिन्दुकान्तिः' । अस्य हि प्राणव्या- प्तिरस्ति इत्येवं निर्दिशन्ति गुरवः । 'देवीसुत' इत्यु- भयोरपि कुलशास्त्रोचितोऽयं व्यपदेशः । तदुक्तम् 'देवीपुत्रोऽत्र वटुकः स्वशक्तिपरिवारितः ।' इति । 'गणेशो विघ्नहर्तासौ देवीपुत्रः ..........।' इति च ॥ ६ ॥ इह खलु शास्त्रादौ '............स्रोतोभेदं संख्यानमेव च । प्रवर्तयेद् गुरुं स्वं च स्तेयी स्यात्तदकीर्तनात् ॥' पं० २ ग० पु० उत्पादयेतामिति पाठः । पं० ५ क० पु० अत एव देवीति पाठः । पं० ७ ख० पु० व्याप्तिरस्तीति गुरव इति 'एवं निर्दिशन्ति' इति वाक्यहीनः पाठः ।

Page 34Permalink

२४ श्रीतन्त्रालोकः । इत्याद्युक्तदृशा अवश्यमेव शास्त्रकारैः स्वगुर्वादेः कीर्तनं कार्यम्, अतश्च वक्ष्यमाणशास्त्रस्य कुलतन्त्र- प्रक्रियात्मकत्वेन द्वैविध्येऽपि ‘नभःस्थिता यथा तारा न भ्राजन्ते रवौ स्थिते । एवं सिद्धान्ततन्त्राणि न विभान्ति कुलागमे ॥ तस्मात्कुलादृते नान्यत्संसारोद्धरणं प्रति ।’ इत्याद्युक्त्या कुलप्रक्रियायाः प्रक्रियान्तरेभ्यः प्राधा- न्यात् ‘भैरव्या भैरवात्प्राप्तं योगं व्याप्य ततः प्रिये । तत्सकाशात्तु सिद्धेन मीनाख्येन वरानने ॥ कामरूपे महापीठे मच्छन्देन महात्मना ।’ इत्यादिनिरूपितस्थित्या तदवतारकं तुर्यनाथमेव तावत् प्रथमं कीर्तयति पं० २ क० ख० पु० वक्ष्यमाणस्य शास्त्रस्येति पाठः । पं० ७ क० पु० इत्यायुक्तः कुलप्रक्रियाया अधिकारः कुलप्रक्रियायास्तु प्रक्रियान्त- रेभ्य इति पाठः । पं० ९ ख० पु० योगं व्यापि ततः इति पाठः । पं० ११ क० पु० कामपीठे महापीठे इति पाठः ।

Page 35Permalink

श्लो० ७ ] प्रथममाह्निकम् । २५ रागारुणां ग्रन्थिबिलावकीर्णां यो जालमातानवितानवृत्ति । कलोम्भितं बाह्यपथे चकार स्तान्मे स मच्छन्दविभुः प्रसन्नः ॥ ७ ॥ ‘स’ सकलकुलशास्त्रावतारकतया प्रसिद्धः ‘मच्छाः पाशाः समाख्याताश्चपलाश्चित्तवृत्तयः । छेदितास्तु यदा तेन मच्छन्दस्तेन कीर्तितः ॥’ इत्याद्युक्त्या पाशखण्डनस्वभावो मच्छन्द एव परमे- श्वरसमावेशशालित्वात् ‘विभुः’ मम प्रसन्नः ‘स्तात्’ स्वात्मदर्शनसंविभागपात्रतामाविष्कुर्यात् इत्यर्थः । यो ‘जालं’ मत्स्यबन्धनम्, इन्द्रजालप्रायां च मायां ‘बाह्यपथे चकार’ ‘अष्टौ सिद्धा महात्मानो जालपृष्ठाः सुतेजसः ।’ इत्याद्युक्त्या तुरीयतास्वरूपावहितत्वेन संकोचा- पहस्तनादनवधेयतां च निन्ये इत्यर्थः । तच्च ‘रागेण’ गैरिकादिद्रव्येण रागतत्त्वेन च ‘अरुणां’ लोहिती- पं० ११ क० पु० इन्द्रियजालप्रायामिति पाठः । पं० १४ ख० पु० इत्याद्युक्तोत्तरीयतेति पाठः । पं० १५ ख० पु० हस्तनादवधेयतामिति च पाठः । ४

Page 36Permalink

२६ श्रीतन्त्रालोकः । कृतम् इयर्ति गच्छति इत्यर्थानुगमात् तत्तद्भेददशाप्र- सररूपं च, तथा 'ग्रन्थिभिः' बन्धनैः 'बिलैः' च सलि- लनिर्गमनस्थानैः 'ग्रन्थौ' मायाया द्वितीयस्मिन् भेदे 'बिलैः' बिलाकाराभिः भगसंज्ञाभिर्भोगभूमिभिश्च 'अवकीर्णं' व्याप्तम्, तथा 'आतानवितानवृत्ति' आ- यामपार्श्वमानयुक्तं विश्वाकारत्वात् सर्वतः प्रसरद्रूपं च, तथा 'कलया' विच्छित्तिविशेषेण कलातत्त्वेन च अर्थात्क्षितिपर्यन्तेन 'उम्भितम्' आरब्धम्। यदुक्तम् 'मायारूपं भवेज्जालं धारयेत्कुलचिन्तकः । विश्वाकारं महाजालं नाडीसूत्रनियोजितम् ॥ भुवनाक्षसमोपेतं तत्त्वग्रन्थिदृढीकतम् । कलारागयुतं चैव.................................॥' इत्यादि ॥ ७ ॥ 'श्रीमच्छ्रीकण्ठनाथाज्ञावशात्सिद्धा अवातरन् । त्र्यम्बकामर्दकाभिख्यश्रीनाथा अद्वये द्वये ॥ द्वयाद्वये च निपुणाः क्रमेण शिवशासने । आद्यस्य चान्वयो जज्ञे द्वितीयो दुहितृक्रमात् ॥ स चार्धत्र्यम्बकाभिख्यः सन्तानः सुप्रतिष्ठितः । अतश्चार्धचतस्रोऽत्र मठिकाः सन्ततिक्रमात् ॥' पं० ३ क० पु० धारयेत्कुलेति पाठः ।

Page 37Permalink

श्लो० ८ ] प्रथममाह्निकम्। २७ इति वक्ष्यमाणस्थित्या श्रीसन्तत्यामईकत्रैयम्बका- र्धत्रैयम्बकाख्यासु सार्धासु तिसृषु मठिकासु मध्यात् वक्ष्यमाणतन्त्रप्रक्रियायाः त्रैयम्बकमठिकाश्रयेण आयातिक्रमोऽस्ति इति सामान्येन तावत् गुरून्- भिमुखयति त्रैयम्बकाभिहितसन्ततिताम्रपर्णी- सन्मौक्तिकप्रकरकान्तिविशेषभाजः । पूर्वे जयन्ति गुरवो गुरुशास्त्रसिन्धु- कल्लोलकेलिकलनामलकर्णधाराः ॥८॥ 'त्रैयम्बक' इति 'अभिहिता' 'सन्ततिः' मठिका इत्यर्थः ॥ ८ ॥ एवं 'शैवादीनि रहस्यानि पूर्वमासन्महात्मनाम् । ऋषीणां वक्त्रकुहरे तेष्वेवानुग्रहक्रिया ॥ कलौ प्रवृत्ते यातेषु तेषु दुर्गमगोचरम् । कलापिग्रामप्रमुखमुच्छिन्ने शिवशासने ॥

  • ० १ क० पु० इत्यादिवक्ष्यमाणेति पाठः ।
  • ० ३ ख० पु० मठिकाश्रयेणायातिक्रमोऽस्तीति पाठः ।
Page 38Permalink

२८ श्रीतन्त्रालोकः । कैलासाद्रौ भ्रमन्देवो मूर्त्या श्रीकण्ठरूपया । अनुग्रहायावतीर्णश्चोदयामास भूतले ॥ मुनिं दुर्वाससं नाम भगवानूर्ध्वरेतसम् । नोच्छिद्यते यथा शास्त्रं रहस्यं कुरु तादृशम् ॥ ततः स भगवान्देवादादेशं प्राप्य यत्नतः । ससर्ज मानसं पुत्रं त्र्यम्बकादित्यनामकम् ॥' इत्याद्युक्त्या कलिकालुष्याद्विच्छिन्नस्य निखिल- शास्त्रोपनिषद्भूतस्य षडर्धक्रमविज्ञानस्य त्रैयम्बक- सन्तानद्वारेण अवतारकत्वादाद्यं कैलासस्थं श्रीश्री- कण्ठनाथाख्यं गुरुं प्रसङ्गात् मठिकान्तरगुरूंश्चो- त्कर्षयति जयति गुरुरेक एव श्रीश्रीकण्ठो भुवि प्रथितः । तदपरमूर्तिर्भगवान् महेश्वरो भूतिराजश्च ॥ ६ ॥ 'एक एव गुरुः' इत्यनेन अस्य अवतारकत्वं सूचितम् । 'महेश्वर' इति यः श्रीसन्तत्यर्धत्रैयम्बका- पं० ४ क० पु० न च्छिद्यते इति पाठः । पं० ५ क० पु० प्राप्य तत्त्वतः इति पाठः ।

Page 39Permalink

श्लो० ९ ] प्रथममाह्निकम् । २९ ख्यमठिकयोर्गुरुतया अनेन अन्यत्रोक्तः परमेश इति ईश इति च । यदाह ‘भट्टारिकादिभूत्यन्तः श्रीमान्सिद्धोदयक्रमः । भट्टादिपरमेशान्तः श्रीसन्तानोदयक्रमः ॥ श्रीमान्भट्टादिरीशान्तः परमोऽथ गुरुकमः । त्रिकरूपत्त्रिकार्थे मे धियं वर्धयतांतराम् ॥’ इति । ‘तदपरमूर्तिः’ इत्यनयोर्भगवदावेशमयत्वं दर्शितम् । यद्यपि ‘यो यत्र शास्त्रेऽधिकृतः स तत्र गुरुः.........।’ इति वक्ष्यमाणनीत्या मठिकान्तरगुरूणां त्रिकार्थे गुरुत्वाभावात् इह नमस्काराप्रस्ताव एव । तथापि ‘तस्य मे सर्वशिष्यस्य नोपदेशदरिद्रता ।’ इत्यादृिशा सर्वत्रैव गुरूपदेशस्य भावात् आत्मनि भूयोविद्यत्वं दर्शयता ग्रन्थकृता अस्य ग्रन्थस्यापि निखिलशास्त्रान्तरसारसंग्रहाभिप्रायत्वं प्रकाशितम् । यद्वक्ष्यति पं० ५ ख० पु० श्रीमद्भट्टादिरिति शोधितः पाठः । पं० ६ क० पु० त्रिकार्थो मे इति पाठः । पं० ११ ख० तथापि इति वाक्यं नास्ति ।

Page 40Permalink

३० श्रीतन्त्रालोकः । 'अध्युष्टसन्ततिस्रोतःसारभूतरसाहृतिम् । विधाय तन्त्रालोकोऽयं स्यन्दते सकलान्रसान् ॥' इति ॥ ६ ॥ 'पूर्वे जयन्ति गुरवः' इति सामान्येन कृतेऽपि नमस्कारे योगाङ्गत्वेन समानेऽपि ‘..................‘तर्को योगाङ्गमुत्तमम् ।’ इत्याद्युक्त्या परमोपादेयस्वप्रकाशस्वात्मेश्वरप्रत्य- भिज्ञापनपरस्य तर्कस्य कर्तारो व्याख्यातारश्च परं नमस्कर्तव्याः इति विशेषप्रयोजकीकारेण गुरु-परम- गुरु-परमेष्ठिनः पुनरपि पराम्रष्टुमाह श्रीसोमानन्दबोधश्रीमदुत्पलविनिःसृताः । जयन्ति संविदामोदसन्दर्भा दिक्प्रसर्पिणः ॥१०॥ तदास्वादभरावेशबृंहितां मतिषट्पदीम् । गुरोर्लक्ष्मणगुप्तस्य नादसंमोहिनीं नुमः ॥११॥


पं० १ क० पु० रसान्वितम् इति, ख० पु० रसाहृतमिति पाठः । पं० ७ क० पु० प्रत्यभिज्ञापरस्येति पाठः ।

Page 41Permalink

श्लो० १३ ] प्रथममाह्निकम्। ३१ इदानीम् ‘उपाध्यायाद्दशाचार्य आचार्याणां शतं पिता।’ इत्याद्युक्त्या तस्याचार्यादपि गौरवातिरेकस्मृते- र्निजमपि पितरमाशीर्वादमुखेन परामृशति यः पूर्णानन्दविश्रान्तसर्वशास्त्रार्थपारगः। स श्रीचुखुलको दिश्यादिष्टं मे गुरुरुत्तमः १२॥ ‘चुखुलक’ इति लोकप्रसिद्धमस्य नामान्तरम्। ‘गुरुत्तम’ इति उत्तमत्वस्य आचार्यगौरवातिरेक- स्मृतिरेव निमित्तम्, अत एव अन्यत्रापि ‘गुरुभ्योऽपि गरीयांसं जनकं चुखुलाभिधम्।’ इत्याद्युक्तम्॥ १२॥ एवं च तन्त्रप्रक्रियोपासन्नगुर्वभिमुखीकरणानन्तरं विश्रान्तिस्थानतया कुलप्रक्रियागुरुमपि उत्कर्षयति जयताज्जगदुद्धृतिक्षमोऽसौ भगवत्या सह शंभुनाथ एकः। यदुदीरितशासनांशुभिर्मे प्रकटोऽयं गहनोऽपि शास्त्रमार्गः॥ १३॥ पं० २ उपाध्यायादिति पद्यस्य 'सहस्रं तु पितुर्माता गौरवेणातिरिच्यते।' इति उत्तरार्धं ग० पु० अधिकं वर्तते।