वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 153 of 490
Read in contextतथा याज्ञवल्क्यः— कृतरक्षः समुत्थाय पश्येदायव्ययौ स्वयम् । व्यवहारांस्ततो दृष्ट्वा स्नात्वा भुञ्जीत कामतः ॥ कृतरक्षः, पुरस्यात्मनश्च रक्षां विधाय प्रतिदिनं प्रातरुत्था- याधिकृतैः क्रियमाणावायव्ययौ स्वयमेव पश्येत् । स्वयंग्रहण- मादरार्थम् । स्नानं सकलमाध्याह्निकोपलक्षणम् । कामतः, यथारुचि । मनुः— अहन्यहन्यवेक्षेत कर्मान्तान् वाहनानि च । आयव्ययौ च नियतावाकरान् कोशमेव च ॥ वृद्धवासिष्ठः— मौनी मूत्रपुरीषे तु ततः कुर्यादुदङ्मुखः । मनुः— उत्थाय पश्चिमे यामे कृतशौचः समाहितः । हुत्वाग्निं ब्राह्मणांश्चार्च्य प्रविशेत्तु सभां शुभाम् ॥ स्मृत्यन्तरेऽपि- प्रातरुत्थाय नृपतिः कुर्याद्दन्तस्य धावनम् । स्नानशालां समागत्य स्नात्वा पूतेन वारिणा ॥ अर्घं दत्त्वा तु देवाय भास्कराय समाहितः । ततोऽलङ्कृतगात्रः सन् वक्त्रमालोक्य मन्त्रवत् । घृतपात्रं तु विप्राय दद्यात्सकनकं नृपः ॥ मन्त्रस्त्वग्रे वक्ष्यते । मुखावलोकनं चार्थाद् घृत एव । विष्णुधर्मोत्तरे- वेगोत्सर्गं ततः कृत्वा राजा स्नानगृहं व्रजेत् । दत्ताभ्यङ्गः प्रदोषे तु कल्पमुत्सादितस्ततः ॥