वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 154 of 490
Read in context१६६ वीरमित्रोदयस्य राजनीतिप्रकाशे वेगाः, मूत्रपुरीषादयः। कल्यम्, प्रातः। उत्सादितः, कृतोद्वर्तनः। स्नानं कुर्यात्ततः पश्चाद्दन्तधावनपूर्वकम् । औषधैर्मन्त्रपूतैस्तु पानीयैर्विविधैः शुभैः ॥ सन्ध्यामुपास्य प्रयतः कृतजप्यः समाहितः । अग्न्यगारं प्रविश्याथ वह्नीन् पश्येत्पुरोधसा ॥ हुतान्सम्यक्ततः कुर्याद्वासुदेवस्य चार्चनम् । दुःस्वप्नशमनं कर्म तस्य कुर्यात्पुरोहितः ॥ स्वयं चोपसदे वह्नौ पवित्रान् जुहुयान्नृपः । तर्पयेदुदकैर्देवान् पितॄनथ यथाविधि । दद्यात् द्विजातये धेनुं सवस्त्रां च सकाञ्चनाम् ॥ शक्त्या धनैः पूजयित्वा दत्ताशीः सततं द्विजैः । अनुलिप्तस्ततः स्रग्वी सुवासाश्चाप्यलङ्कृतः ॥ दर्पणे च मुखं पश्येत्ससुवर्णे च सर्पिषि । आज्यं प्रसन्नं सुरभि यदि स्याद्विजयो भवेत् ॥ दीयमाने च दुर्भेदे पतिते च भयं भवेत् । विकृतं चेन्मुखं पश्येद्राजा मृत्युमवाप्नुयात् ॥ सुप्रभं च यदा पश्येत्तदा तस्य शुभं भवेत् । तथा, यस्तु कल्यं समुत्थाय मुखमाज्ये निरीक्षते । तस्यालक्ष्मीः क्षयं याति वर्द्धते तेजसा श्रिया ॥ ततश्च शृणुयाद्राजा सांवत्सरमुखोद्गतम् । दिवसं तिथिनक्षत्रं सर्वाशुभविनाशनम् ॥ भिषजां च वचः कुर्यात्तेजस्त्वारोग्यवर्द्धनम् । मङ्गलालम्भनं कृत्वा ततः पश्येद् गुरून्नृपः ॥ कृताशीर्गुरुभिः पश्चाद्राजा गच्छेत्सभां ततः ।