वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 156 of 490
Read in contextगुरुणा याचितो यस्माद्दीर्घमायुरवाप्नुयात् ॥ आयुष्यमथ वर्चस्यं सौभाग्यं शत्रुनाशनम् । दुःस्वप्ननाशनं पुण्यं घृतस्यावेक्षणं स्मृतम् ॥ इति । इति आथर्वणपरिशिष्टोक्तं घृतावेक्षणम् । ब्रह्मपुराणे- नित्यं राज्ञा समुत्थाय पूजनीयाः सुराद्विजाः । वह्निसम्पूजनं कार्यं द्रष्टव्यं चन्दनं घृतम् ॥ श्रोतव्ये तिथिनक्षत्रे कर्तव्यं वैद्यभाषितम् । इति । याज्ञवल्क्यः- ऋत्विकपुरोहिताचार्यैराशीर्भिरभिनन्दितः । दृष्ट्वा ज्योतिर्विदो वैद्यान् दद्याद्गाः काञ्चनं महीम् ॥ नैवेशिकानि च तथा श्रोत्रियाणां गृहाणि च । दृष्ट्वा, तदधीनं कार्यजातं च विचार्य । गाः, दोग्ध्रीः । नैवे- शिकानि, विवाहोपयोगीनि कन्यालङ्करणादीनि । गृहाणि च श्रोत्रियेभ्यो वेदविद्भ्यो दद्यात् । शङ्खलिखितौ-राज्ञः प्रत्यहं घृतान्वीक्षणं मङ्गलदर्शनं कपिलाप्रदानं स्वलङ्कृतस्य सम्भाषणं वैद्यदर्शनम् । इति । सभाऽनुवृत्तौ विष्णुधर्मोत्तरे- तत्रस्थान् ब्राह्मणान् पश्येदमात्यान् मन्त्रिणस्तथा । प्रकृतीश्च महाभाग प्रतीहारनिवोधितः ॥ तत्रेतिहासश्रवणं कुर्यात्कश्चिदतन्द्रितः । ततः कार्यार्थिनां कुर्याद्यथाधि कार्यनिर्णयम् ॥ व्यवहारांस्ततः पश्येत्समो भूत्वाऽरिमित्रयोः । इति । बृहस्पतिः- पूर्वाह्णे तामधिष्ठाय वृद्धामात्यानुजीविनः ।