वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 278 of 490
Read in context२८२ वीरमित्रोदयस्य राजनीतिप्रकाशे ज्ञातिभिर्भेदनीयास्तु रिपवस्तेन पार्थिवैः । भिन्ना हि शक्या रिपवः प्रभूताः स्वल्पेन सैन्येन निहन्तुमाजौ। सुसंहतैश्चापि ततस्तु भेदः कार्यो रिपूणां नयशास्त्रविद्भिः॥इति। स्वपक्षभेदनिषेधस्तूक्तो— ब्रह्मपुराणे, स्वपक्षभेदो यत्नेन न कर्तव्यः कदाचन । दुर्गं कोशश्च दण्डश्च परराष्ट्रभयं विना ॥ स्वभेदेनैव नश्यन्ति बद्धमूला अपि प्रजाः । स्वभेदेन, स्वपक्षभेदेन, परराष्ट्रभयं विनापि दुर्गादिकं नश्यतीत्यर्थः । इति भेदः । अथ दानम् । तच्च स्वस्वत्वनिवृत्तिपूर्वकपरस्वत्वोत्पादनानुकूलो व्यापा- रः। तस्य दानस्य पञ्चविधत्वमुक्तम्— . अग्निपुराणे, यः सम्प्राप्तधनोत्सर्ग उत्तमाधममध्यमः । प्रतिदानं तदा तस्य गृहीतस्यानुमोदनम् ॥ द्रव्यदानमपूर्वं च तथैवेष्टप्रवर्तनम् । देयं च प्रतिमोक्षश्च दानं पञ्चविधं स्मृतम् ॥ इति । तस्य प्रशंसा चोक्ता— मत्स्यपुराणे, मत्स्य उवाच । सर्वेषामप्युपायानां दानं श्रेष्ठतमं मतम् । सुदृत्तेनेह भवति दानेनोभयलोकजित् ॥ न सोऽस्ति राजन् दानेन वशगो यो न जायते ।