वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 28 of 490
Read in context२२ वीरमित्रोदयस्य राजनीतिप्रकाशे दीप्तत्वाच्च शुचित्वाच्च यद्यसौ न पथश्च्युतः ॥ पथश्च्युतो भ्रष्टाचारः । अशुचिर्वचनाद्यस्य शुचिर्भवति पूरुषः । शुचिश्चैवाशुचिः सद्यः कथं राजा न दैवतम् ॥ अशुचिरित्यादिः तस्मात्तं नावजानीयादित्यस्याग्रेतन- स्यार्थवादः । तस्मात्तं नावजानीयान्नाक्रोशेन विशेषयेत् । वस्त्रालङ्कारादिभिस्तमपेक्ष्यात्मानं नाधिकं कुर्यात् । आज्ञया तस्य तिष्ठेत्तु मृत्युः स्यात्तद्व्यतिक्रमे ॥ आज्ञा तेजः पार्थिवानां सा च वाचि प्रतिष्ठिता । स यद्ब्रूयादसत्सद्वा स धर्मो व्यवहारिणाम् ॥ राजा नाम चरत्येष भूमौ साक्षात्सहस्रदृक् । न तस्याज्ञामतिक्रम्य प्रतिष्ठेरन्निमाः प्रजाः ॥ रक्षाधिकारादीशत्वाद्भूतानुग्रहदर्शनात् । यदेव कुरुते राजा तत्प्रमाणमिति स्थितिः ॥ निर्गुणोऽपि यथा स्त्रीणां पूज्य एव पतिः सदा । प्रजानां निर्गुणोऽप्येवं पूज्य एव नराधिपः ॥ राज्ञामाज्ञाभयाद्यस्मान्न च्यवन्ते पथः प्रजाः । व्यवहारस्ततो ज्ञेयः शंसतो राजशासनम् ॥ राजशासनं राजाज्ञाम् । स्थित्यर्थं पृथिवीपालैश्चारित्रविधयः कृताः ॥ चारित्रविधयः राजकृता भागादिव्यवस्थाः । चारित्रेभ्योऽप्यतः प्राहुर्गरीयो राजशासनम् ॥ तपःक्रीताः प्रजा राज्ञः प्रभुरासां नराधिपः । तस्मात्तद्वचसि स्थेयं वार्ता तासां तदाश्रया ॥