वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 280 of 490
Read in context२८४ वीरमित्रोदयस्य राजनीतिप्रकाशे तदर्थं, राज्ञः प्रयोजनसिद्धये । प्रजानां रक्षणं राजधर्मः स च दण्डं विना कर्तुमशक्य इति दण्ड एव रक्षक इत्युच्यते । तस्य स्तुतिर्धर्ममिति । तस्य सर्वाणि भूतानि स्थावराणि चराणि च । भयाद्भोगाय कल्पन्ते स्वधर्मान्न चलन्ति च ॥ तस्य, दण्डस्य। ननु दण्डस्य भयहेतुत्वात् “भीत्रार्थानां भय- हेतुः” इति पञ्चमी युक्ता? उच्यते । सम्बन्धमात्रविवक्षाया भय- हेतुत्वं नास्तीति षष्ठी । तस्य चरमोपायत्वमुक्तम्— मत्स्यपुराणे, मत्स्य उवाच । न शक्या ये वशे कर्त्तुमुपायत्रितयेन तु । दण्डेन तान् वशीकुर्याद्दण्डो हि वशकृन्नृणाम् ॥ सम्यक्प्रणयनं तस्य तथा कार्यं महीक्षिता । धर्मशास्त्रानुसारेण सुसहायेन धीमता ॥ तस्यासम्यक्प्रणयनं त्रिदशानपि पीडयेत् । इति । तत्र विशेषमाह मनुः, तं देशकालौ शक्तिं च विद्यां चावेक्ष्य तत्त्वतः । यथार्हतः सम्प्रणयेन्नरेष्वन्यायवर्त्तिषु ॥ शक्तिं, सहनशक्तिम् । समीक्ष्य स धृतः सम्यक् सर्वा रञ्जयति प्रजाः । असमीक्ष्य प्रणीतस्तु विनाशयति सर्वतः ॥ यदि न प्रणयेद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवापक्ष्यन् दुर्बलान् बलवत्तराः ॥ इति । यथा शूले मत्स्यान् पक्त्वा भक्षयन्ति, तथा बलिनोऽल्प-