वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 30 of 490
Read in context२४ वीरमित्रोदयस्य राजनीतिप्रकाशे धर्मव्यवस्थायै वर्णाश्रमिणां राजा प्रभवति स्मृत्यन्तरविरोधप्र- सङ्गात् । अविरोधे चास्मिन् विषये वचनस्यार्थवत्त्वात् । बृहस्पतिः, बलेन चतुरङ्गेण यतो रञ्जयति प्रजाः । दीप्यमानः स वपुषा तेन राजाऽभिधीयते ॥ बलने सेनया । चतुरङ्गेण हस्त्यश्वरथपादातेन । अङ्गिराः, गुरुवद्येन भूपाळः पापं दण्डेन भूयसा । संस्करोत्यवनाच्चैव तेनासौ गुरुरुच्यते ॥ पापं पापकारिणम् । संस्करोति शुद्धं करोति । शुद्धं कृत्वा- ऽवति च । बृहत्पाराशरे, अथातो नृपतेर्धर्मम्-इत्युपक्रम्य । भूभृत् भूम्यां परो देवः पूज्योऽसौ परदेववत् । स विधाता च सर्वस्य रक्षिता शासिताऽपि सः ॥ परो देवः स्वाराध्यदेवः । महाभारते, अराजकेषु राष्ट्रेषु धर्मो न व्यवतिष्ठते । परस्परं च खादन्ति सर्वथा धिगराजकम् ॥ इन्द्रमेव प्रवृणुते यद्राजानमिति श्रुतिः । यथैवेन्द्रस्तथा राजा सम्पूज्यो भूतिमिच्छता ॥ नाराजकेषु राष्ट्रेषु वस्तव्यमिति रोचये । नाराजकेषु राष्ट्रेषु हव्यमग्निर्वहेत्युत । अथ चेदभिवर्तेत राज्यार्थं बलवत्तरः ॥ अराजकानि राष्ट्राणि हतवीर्याणि वा पुनः ॥