वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 34 of 490
Read in context३० वीरमित्रोदयस्य राजनीतिप्रकाशे राजाऽस्य जगतां हेतुर्वृद्धेर्दृष्टाभिसम्मतः । नयनानन्दजननः शशाङ्क इव तोयधेः ॥ यदि न स्यान्नरपतिः सम्यङ्नेता ततः प्रजा । अकर्णधारा जलधौ विप्लवेतेह नौरिव ॥ कात्यायनः, श्रोत्रिया विधवा बाला दुर्बलाश्च कुटुम्बिनः । एते राजवला राज्ञा रक्षितव्याः प्रयत्नतः ॥ अनाथस्य नृपो नाथस्त्वगृहस्य नृपो गृहम् । अपुत्रस्य नृपः पुत्रो ह्यपितुः पार्थिवः पिता ॥ कालिकापुराणे, अपुत्रस्य नृपः पुत्रो निर्द्धनस्य धनं नृपः । अमातुर्जननी राजा ह्यतातस्य पिता नृपः ॥ अनाथस्य नृपो नाथो ह्यभर्त्तुः पार्थिवः पतिः । अभृत्यस्य नृपो भृत्यो नृप एव नृणां सखा ॥ गरुडपुराणे, अनायके न वस्तव्यं तथा च बहुनायके । स्त्रीनायके न वस्तव्यं तथा च शिशुनायके ॥ तथा, अबलस्य बलं राजा वालस्य रुदितं वलम् । वलं मूर्खस्य मौनं तु तस्करस्यानृतं बलम् ॥ मार्कण्डेयपुराणेऽपि राज्ञःपञ्चरूपत्वमुक्तम्— मदालसोपाख्याने । शक्रार्कयमसोमानां तद्वद्वायोर्महीपतिः ॥ रूपाणि पञ्च कुर्वीत महीपालनकर्मणि । यथेन्द्रश्चतुरो मासान् वार्योघेणैव भूत लम् ॥