वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 392 of 490
Read in context३९६ वीरमित्रोदयस्य राजनीतिप्रकाशे एवं षष्ठे दिने जयाभिषेकं सम्पाद्य मङ्गल्यसुस्वप्नदर्शने समीचीने च निमित्ते सति व्रजेदित्युक्तम् । तत्र प्रस्थानतः सप्तमे दिने कियद्दूरे गत्वावस्थेयमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, क्रोशमात्रं ततो गच्छेन्नाधिकं तु कदाचन । गत्वा देशे शुभे तिष्ठेत्पूजयित्वा सुरद्विजान् ॥ ततः क्रमेण गच्छेच्च परदेशं महीपतिः । आत्मसैन्यानुरूपेण कृतरक्षः पथा द्विज ॥ कृतरक्षः सन् आत्मसैन्यस्यानुरूपेण यवसेन्धनधान्यादि- मत्तया योग्येन पथा मार्गेण गच्छेत् । त्रिरात्रमुषितो गच्छेदूभूयो नक्षत्रसम्पदा । नक्षत्रसम्पदेति चन्द्रशुद्धिनिषिद्धयोगकरणादिराहित्योप- लक्षणम् । यवसेन्धनतोयानां रक्षको विषदूषणात् । परानभिमुखो गच्छेत्प्रभूतयवसेन्धनः ॥ इति । मनुः, कृत्वा विधानं मूले तु यात्रिकं च यथाविधि । मूले, मूलभूते स्वदेशे । विधानं, तद्रक्षणार्थं सैन्यस्थापनादि । उपगृह्यास्पदं चैव चारान् सम्यग्विधाय च ॥ संशोध्य त्रिविधं मार्ग षड्विधं च बलं स्वकम् । साम्परायिककल्पेन यायाद्रिपुपुरं प्रति ॥ त्रिविधं मार्ग, जलस्थलवनरूपं मार्गम् । षड्विधं बलं, 'मौलं च भृतकं चैव”इत्यादिनाभिहितम् । साम्परायिककल्पेन, [द्धकल्पेन ।