वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
by महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा)
Page 393 of 490
Read in contextयात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७ शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति । मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः— पदातिनागबहुलां सेनां प्रावृषि योजयेत् । हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥ खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः । चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥ सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः । अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥ गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च । किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥ रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् । जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥ खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् । न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥ हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् । यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥ शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ । विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या । यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति। विष्णुधर्मोत्तरे, राम उवाच । साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् । सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥