भारतकोश
संग्रह पर लौटें

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

यात्राप्रकरणे कालविशेषेण सेनायां विशेषः । ३९७ शत्रुसेविनि मित्रे च गूढ युक्ततरा भवत् । गतप्रत्यागते चैव स हि कष्टतरो रिपुः ॥ इति । मत्स्यपुराणे तु कालविशेषेण सेनायां विशेष उक्तः— पदातिनागबहुलां सेनां प्रावृषि योजयेत् । हेमन्ते शिशिरे चैव रथवाजिसमाकुलाम् ॥ खरोष्ट्रबहुलां सेनां तथा ग्रीष्मे नराधिपः । चतुर्विधबलोपेतां वसन्ते वा शरद्यथ ॥ सेना पदातिबहुला यस्य स्यात्पृथिवीपतेः । अभियोज्यो भवेत्तेन शत्रुविषयमाश्रितः ॥ गम्ये वृक्षावृते देशे स्थितं शत्रुं तथैव च । किञ्चित्पङ्के तथा यायाद्बहुनागो नराधिपः ॥ रथाश्वबहुलो यायात् शत्रुं समपथाश्रयम् । जलाश्रयं नौबहुलस्तथा राजा रिपुं जयेत् ॥ खरोष्ट्रबहुलो राजा शत्रुं च वनसंस्थितम् । न वनस्थोऽभियोज्योऽरिः सदा प्रावृषि भूभुजा ॥ हिमपातयुते देशे स्थितं ग्रीष्मेऽभियोजयेत् । यवसेन्धनसंयुक्तं काले पार्थिव हैमने ॥ शरद्वसन्तौ धर्मज्ञ कालौ साधारणौ मतौ । विज्ञाय राजा हितदेशकालौ दैवं त्रिकालं च तथैव बुद्ध्या । यायात्परं कालविदां मतेन सञ्चिन्त्यमानं द्विजमन्त्रविद्भिः॥इति। विष्णुधर्मोत्तरे, राम उवाच । साङ्ग्रामिकमहं त्वत्तः श्रोतुमिच्छामि भूभुजाम् । सर्वं वेत्सि महाभाग त्वं देव परमेष्ठिवत् ॥

३९८ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्कर उवाच । द्वितीयेऽहनि सङ्ग्रामो भविष्यति यदा तदा । गजाश्वान् स्नापयेद्राजा सर्वौषधिजलैः शुभैः ॥ गन्धमाल्यैरलङ्कुर्यात् पूजयेच्च यथाविधि । नृसिंहं पूजयेद्विष्णुं राजलिङ्गान्यशेषतः ॥ छत्रं ध्वजं पताकां च वर्म चैव महाभुज । आयुधानि च सर्वाणि तथा पूज्यानि भूभुजा ॥ तेषां सम्पूजनं कृत्वा रात्रौ प्रमथपूजनम् । कृत्वा तु प्रार्थयेद्राजा विजयायेतराय वा ॥ प्रमथांश्च सहायार्थे धरणीं च महीभुजम् । भिषक्पुरोहितामात्यमन्त्रिमध्ये तथा स्वपेत् ॥ संयतो ब्रह्मचारी च नृसिंहं संस्मरन् हरिम् । रात्रौ दृष्टे शुभे स्वप्ने समरारम्भमाचरेत् ॥ रात्रिशेषे समुत्थाय °स्नातः सर्वौषधीजलैः । पूजयित्वा नृसिंहं तु वाहनाद्यमशेषतः ॥ पुरोधसा हुतं पश्येज्ज्वलितं जातवेदसम् । पुरोधाः पूर्ववत्तत्र मन्त्रांस्तु जुहुयात्पुनः ॥ दक्षिणाभिः शुचिर्विप्रान् पूजयेत्पृथिवीपतिः । ततोऽनुलिम्पेद्गात्राणि गन्धद्वारेति पार्थिवः ॥ चन्दनागुरुकर्पूरकान्तकालीयकैः शुभैः । मूर्ध्नि कण्ठे समालभ्य रोचनां च तथा शुभाम् ॥ आयुष्यं वर्चसं चैव मन्त्रेणानेन मन्त्रितम् । अलङ्करणमाबध्याच्छ्रियं धातुरितिस्रजम् ॥ या ओषधय इत्येवं धारयेदोषधीः शुभाः । नवो नवेति वस्त्रं च कार्पासं बिभृयाच्छुभम् ॥

ऐन्द्रायेति ततो वर्म धन्वनागेति वै धनुः । ततो राजा समादद्यात्सशरं त्वाभिमन्त्रितम् ॥ कुञ्जरं वा रथं वाश्वमारुहेदभिमन्त्रितम् । आरुह्य शिबिराद्राजा विनिष्क्रम्य समे शुभे । देशे त्वदृश्यः शत्रूणां कुर्यात्प्रकृतिकल्पनाम् ॥ इति । अथ पुरोहितकर्तृकमाश्वलायनोक्तं सन्नहनं राजधर्म- त्वादुच्यते । सङ्ग्रामे समुपोढे राजानं सन्नाहयेदात्वाहार्षमन्तरेधीति पश्चाद्रथस्यावस्थाय जीमूतस्येव भवति प्रतिकमिति कवचं प्रयच्छेदृत्तरया धनुरुत्तरां वाचयेत्स्वयं चतुर्थी जपेत्पञ्चम्ये- षूधि प्रयच्छदाभंप्रवर्तमान षष्ठीं सप्तम्यामश्वानष्टमामिषूनवेक्षमा- णं वाचयत्यहिरिवभोगैः पर्येति बाहुमिति तलं नह्यमानम- थैनं सारयमाणमुपारुह्याभीवर्त्तं वाचयति प्रयो वां मित्राव- रुणेति च द्वे अथैनमन्वीक्षेताप्रातिरथासासौपर्णैः प्रधारयन्तु मधुनो घृतस्यैतत्सौपर्णं सर्वा दिशोऽनुपरि यायादादित्यमौश- नसं वावस्थाय प्रयोधयेदुपश्वासय पृथिवीमुत द्यामिति तृचेन दुन्दुभिमभिमृशेदवस्सृष्टा परापतेतीषून्विसर्जयेद्यत्र बाणाः सम्प- तन्तीति युध्यमानेषु जपेत्संशिष्याद्वा संशिष्याद्वा । इति । ( आ० गृ० सू० अ० ३ । कं० १२ । ) अस्यार्थः । समुपोढे उपस्थिते । सन्नाहयेत्, पुरोहित इति शेषः। आत्वेति सूक्तं, जपेदितिशेषः। पादग्रहणेन ऋग्ग्रहणे प्राप्ते- ऽप्यत्र सूक्तग्रहणमितिवृत्तिकृत्। जीमृतेति, अस्य सूक्तस्याद्ययेति- शेषः, राज्ञे इति च शेषः । उत्तरया “धन्वनागा”इति धनुः प्रय- च्छेत् । उत्तरां “वक्ष्यन्ती वेदा”इति वाचयेत्, राजानमितिशेषः । स्वयं पुरोहितः “ते आचरन्ति”इति जपेत् । पञ्चम्या “बह्वीनां पि-

४०० वीरमित्रोदयस्य राजनीतिप्रकाशे

ता” इति इषुधिं प्रयच्छेत् । इषवो धीयन्ते यत्र स इषुधिः। यथेष्टदिग- भिमुखगमने “रथे तिष्ठन्” इति जपेत् । सप्तम्या “तीव्रात् घोषान्”, इति अश्वाननुमन्त्रयेत । अष्टमीं “रथवाहनम्” इति इषूनवेक्षमाणं राजानं वाचयेत् । ज्याघातपरित्राणं तलमुच्यते । तेन नह्यमान- मेतां वाचयेत् । सारथिना सारयमाणं राजानं रथे आरुह्य “अभीवर्तेन” इति सूक्तं वाचयेत् । प्रयो वामित्यृचौ च । एनं राजानमन्वीक्षेत एतैः सूक्तैः । “आशुः शिशान” इत्यम- तिरथं सूक्तम् । “शास इसेति” सूक्तं शासः । सौ- पर्णसूक्तानां बहुत्वार्द्विशेषमाह-प्रथारेति । एतन्सूक्तं सौ- पर्णं भवति नान्यत् । अथ राजा सर्वदिशो रथेना नुक्रमेण गच्छेत् । यस्यां दिश्यादित्यस्तां दिशमास्थायाहनि चेत्, रात्रौ चेद्यस्यां दिशि शुक्रस्तां दिशं परिगृह्य योधयेद्राजा । ना- पि प्रत्यादित्यं नापि प्रतिशुक्रमित्यर्थः । उपश्वासयेत्यादौ राजा कर्त्ता । यत्र बाणा इत्यत्र तु पुरोहितः कर्त्ता । संशि- ष्याद्वा । अथ वा पुरोधा आचक्षीत एतस्मिन् काले इयमृक्तवे- ति । यथा आत्वा हार्षमन्तरेधीतिसूक्तं पश्चाद्रथस्यावस्थाय ब्रूहि, जीमूतस्येति कवचं गृहाणेत्येवमादि । अध्यायान्तलक्ष- णार्थं द्विर्वचनमिति । मनुः, दण्डव्यूहेन तं मार्गं यायात्तु शकटेन वा । वराहमकराभ्यां वा सूच्या वा गरुडेन वा ॥ यतः शङ्केत सभयं ततो विस्तारयेद्बलम् । पद्मेन चैव व्यूहेन निवसेत सदा स्वयम् ॥ सेनापतिबलाध्यक्षौ सर्वदिक्षु निवेशयेत् । भयं यतो वा शङ्केत तां प्राचीं कल्पयेद्दिशम् ॥

-like curve, and goes down. It does NOT have a separate vertical bar! So in line 20, why would there be a vertical bar? Wait! What if the word is: कदाचित्? Wait, look at काहाचित्: is the first part ? Yes. Is the next stroke an 'ा'? Wait, could it be कर्हिचित्? Wait, what if it's काहाचित्? Let's look at the letter again: Wait, could it be: न व्यूह कल्पना कार्या राज्ञा भवात् काहाचित् । Wait, is that काहाचित्? Let's check the characters: क + ा + ह + ा + चि + त् = काहाचित्. Wait, what if it's कदाचित् with a broken type? If someone typeset it, why would they typeset काहाचित्? Could it be कश्चित्? No. Could it be काहिचित्? Wait, look at the letter after भवात्: Is it ? Yes. Then ? Wait, could it be पि? No. What if it IS काहाचित् (a misprint

४०२ वीरमित्रोदयस्य राजनीतिप्रकाशे स्वयं राज्ञा न योद्धव्यमपि सर्वास्त्रशालिना । नित्यं लोके हि दृश्यन्ते शक्तेभ्यः शक्तिमत्तराः ॥ सैन्यस्य पश्चात्तिष्ठेत्तु क्रोशमात्रे महीपतिः । भग्नसन्धारणं तत्र योधानां परिकीर्त्तितम् ॥ प्रधानभङ्गे सैन्यस्य नावस्थानं विधीयते । तत्र, क्रोशमात्रावस्थिते राज्ञि । युद्धादिना परराष्ट्रग्रहणं राज्ञोऽवश्यकर्त्तव्यमित्याह— याज्ञवल्क्यः, य एव धर्मो नृपतेः स्वराष्ट्रपरिपालने । तमेव कृत्स्नमाप्नोति परराष्ट्रं वशं नयन् ॥ इति । शङ्खलिखितौ, राजक्रतुरेवाश्वमेधस्तं नासार्वभौमः प्र- तिपादयितुमर्हति । अश्वमेधेन यक्ष्य इति परविषयमभियाया- द्देशकालशक्तिसम्पन्नः प्रभूतयवसेन्धनोदकाविच्छिन्नसाम्परा- यिकः पथि संविहितसर्वोपकरणो दुर्गासारामात्यदेशदण्डा- क्रन्दाद्यगुणविधिज्ञः पर्षदं प्रति नयवान् विदितमध्वानं हित- मनुक्रामेत् यथाभूमिभागस्तथा विनियोगः श्रेयान् पानभोज- नोपनिवेशस्थानशङ्काप्रतिविधानकुशलो भूपतिरवहितः शत्रु- णा सह युद्ध्येत् । इति । युद्ध्यता राज्ञा किं कर्त्तव्यमित्यपेक्षायाम्— विष्णुधर्मोत्तरे, न भग्नान् पीडयेच्छत्रूनेकायनगता हि ते । मरणे निश्चिताः सर्वे हन्युः शत्रूंश्चमूरपि ॥ शठा भङ्गच्छलेनापि नयन्ति स्वभुवं परान् । तेषां स्वभूमिसंस्थानां वधः स्यात्सुकरस्तदा ॥ न संहतान्न विरलान् योधान् व्यूहे प्रकल्पयेत् ।

यात्राप्रकरणे सैन्यकल्पना । ४०३ आयुधानां तु सम्मर्दो यथा न स्यात्परस्परम् ॥ तथा तु कल्पना कार्या योधानां भृगुनन्दन । भेत्तुकामः परानीकं संहतैरेव भेदयेत् ॥ भेदरक्षापरेणापि कर्त्तव्या संहता तथा ॥ स्वेच्छया कल्पयेद्व्यूहं ज्ञात्वा वाऽरिप्रकल्पितम् । व्यूहं भेदावहं कुर्याद्रिपुव्यूहस्य पार्थिवः ॥ गजस्य देया रक्षार्थं चत्वारस्तु रथा द्विज । रथस्य चाश्वाश्चत्वारश्चत्वारस्तस्य चर्मिणः ॥ चर्मिभिश्च समास्तत्र धन्विनः परिकीर्त्तिताः । पुरतश्चर्मिणो देया देयास्तदनु धन्विनः ॥ धन्विनामनु चाश्वीयं रथांस्तदनु योजयेत् । रथानां कुञ्जराश्चानु दातव्याः पृथिवीक्षिता ॥ पदातिकुञ्जराश्वानां वर्म कार्यं प्रयत्नतः । अवर्मयित्वा यो वाहमात्मानं वर्मयेन्नरः ॥ स राम नरकं याति सुकृतेनापि कर्मणा । शूराः प्राङ्मुखतो देया न देया भीरवः क्वचित् ॥ शूरान् वा मुखतो दत्त्वा स्कन्धमात्रप्रदर्शनम् । कर्त्तव्यं भीरुसङ्घेन शत्रुविद्रवकारकम् ॥ दारयन्ति पुरस्तात्तु विद्रुता भीरवः पुरः । इति । यदि च परबलं दृष्ट्वा शत्रुर्युद्धोपक्रमं न करोति आसनमेव करोति तदा किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, उपरुध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् ॥ भिन्द्याच्चैव तडागानि प्राकारपरिखास्तथा ।

४०४ वीरमित्रोदयस्य राजनीतिप्रकाशे समवस्कन्दयेच्चैनं रात्रौ वित्रासयेत्तथा ॥ उपजप्यानुपजपेद्बुध्येतैव च तत्कृतम् । युक्ते च दैवे युद्ध्येत जयप्रेप्सुरपेतभीः ॥ उपजपेत्, भेदं कुर्यात् । एवं विजयमानस्य येऽस्य स्युः परिपन्थिनः । तानानयेद्वशं सर्वान् सामादिभिरुपक्रमैः ॥ यदि ते तु न तिष्ठेयुरुपायैः प्रथमैस्त्रिभिः । दण्डेनाभिप्रसह्यैतांश्छनकैर्वशमानयेत् ॥ इति । सामादीनुपायानभिधाय युद्धं गत्यन्तराभाव एव कर्त्तव्य- मित्यभिप्रायेणोक्तम्— श्रीरामायणे, तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च । दानं लुब्धेषु भेदश्च शङ्कितेष्विति निश्चयः ॥ दण्डस्तथैव पात्यश्च नित्यकालं दुरात्मसु । इति । मनौ, साम्ना भेदेन दानेन समस्तैरुत वा पृथक् । विजेतुं प्रयतेतारीन्न युद्धेन कदाचन ॥ अनित्यो विजयो यस्माद्दृश्यते युध्यमानयोः । पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥ इति । तथा, त्रयाणामप्युपायानां पूर्वोक्तानां परिक्षये । तथा युद्ध्येत सम्पन्नो विजयेत रिपून् यथा ॥ संहतान् योधयेदल्पान् कामं विस्तारयेद्बहून् । सूच्या वज्रेण चैवैतान् व्यूहेन व्यूह्य योधयेत् ॥

यात्राप्रकरणे सङ्ग्रामादनिवर्तनं क्षात्रधर्मः । ४०५ १ युद्ध्येत स्यन्दनाश्वेन समेऽनूपोन्नते द्विपैः । वृक्षगुल्मावृते चापैरसिचर्मायुधैः स्थले ॥ कुरुक्षेत्रांश्च मात्स्यांश्च पाञ्चालांञ्छूरसेनजान् । दीर्घाल्लघूंश्चैव नरानग्रानीकेषु योजयेत् ॥ प्रहर्षयेद्वलं व्यूह्य भृशार्तांश्च परीक्षयेत् । चेष्टांश्चैव विजानीयादरीन् योधयतामपि ॥ इति । मनुः, समोत्तमाधमै राजा त्वाहूतः समरे परैः । न निवर्तेत सङ्ग्रामात्क्षात्रं धर्ममनुस्मरन् ॥ आहवेषु मिथोऽन्योन्यं जिघांसन्तो महीक्षितः । युद्ध्यमानाः परं शक्त्या स्वर्गं यान्त्यपराङ्मुखाः ॥ न कूटैरायुधैर्हन्याद्युद्ध्यमानो रणे रिपून् । न कर्णिभिर्नापि दिग्धैर्नाग्निज्वलिततेजनैः ॥ मिथः परस्परं, स्पर्धमाना इतिशेषः । दिग्धैः विषाक्तैः । महाभारते, राज्ञां नियोगाद्योद्धव्यं ब्राह्मणेन विशेषतः । इति । राज्ञोऽधिकमित्यनुवृत्तौ- गौतमः, सङ्ग्रामे संस्थानमनिवृत्तिश्च । इति । देवलः, प्रजार्थं क्षत्रियो युद्ध्येत्स्वान् प्राणान् सम्परित्यजेत् । अश्वमेधफलं कृत्स्नं निसर्गेणाधिगच्छति ॥ शस्त्रेण निहतः सङ्ख्ये द्विषद्भिरपराङ्मुखः । १ स्यन्दनाश्वैः समे युद्ध्येदनूपे नौद्विपैस्तथा । इति मुद्रितमनु पुस्तके पाठः ।

४०६ वीरमित्रोदयस्य राजनीतिप्रकाशे शक्रलोकमवाप्नोति स्ववीर्याद्विजितं शुभम् ॥ आहवेऽभिमुखे शूरं प्रहितानि द्विषद्गणैः । भिन्द्युर्यावन्ति शस्त्राणि तावन्तः क्रतवोऽस्य ते ॥ क्षतेभ्यः प्रस्रुतं रक्तं क्षितिपांसुषु संस्पृशेत् । स देवलोके तावन्तं कालं तिष्ठति वै ध्रुवम् ॥ नास्ति राज्ञां समरतनुत्यागसदृशो धर्मः । गोब्राह्मणमित्रधनरक्षणार्थं मृतास्ते स्वर्गभाजः ॥ याज्ञवल्क्यः, य आहवेषु युध्यन्ते भूम्यर्थमपराङ्मुखाः । अकूटैरायुधैर्यान्ति ते स्वर्गं योगिनो यथा ॥ इति । यमः, क्षत्रियस्योरसि क्षत्रं पृष्ठे ब्रह्म प्रतिष्ठितम् । तस्मात्पृष्ठं रणे रक्षेन्मा भवेद्ब्रह्मघातकः ॥ इति । पृष्ठं रणे रक्षेदित्यनेन पलायननिषेधः । मनुः, न च हन्यात्स्थलारूढं न क्लीबं न कृताञ्जलिम् । न मुक्तकेशमासीनं न तवास्मीति वादिनम् ॥ न सुप्तं न विसन्नाहं न नग्नं न निरायुधम् । नायुध्यमानं पश्यन्तं न परेण समागतम् ॥ नायुधव्यसनं प्राप्तं नार्त्तं नातिपरिक्षतम् । न भीतं न परावृत्तं सतां धर्ममनुस्मरन् ॥ इति । बौधायनः, भीतमत्तोन्मत्तप्रमत्तविसन्नाहस्त्रीबालवृद्धब्राह्मणैर्न युध्येता- न्यत्राऽऽततायिनः । इति । गौतमः,

यात्राप्रकरणे युद्धे मरणपलायनयोर्धर्माधर्मत्वे । ४०७ न दोषो हिंसायामाहवेऽन्यत्राश्वसारथ्यनायुधकृताञ्जलि- प्रकीर्णकेशपराङ्मुखोपविष्टस्थलवृक्षारूढदूतगोब्राह्मणवादिभ्यः । देवलः, तृणखादी परप्रेप्सुरलसः शरणं गतः । षण्ढः परार्दितो लिङ्गी स्थविरः पतितः शिशुः ॥ न धर्मयुद्धे हन्तव्या ज्ञेया योधैरनापदि । इति । व्यासः, ये हता निशितैः शस्त्रैः क्षत्रधर्मपरायणाः । ते गता ब्रह्मसदनं न मेऽत्रास्ति विचारणा ॥ न यज्ञैर्दक्षिणाभिर्वा न तपोभिर्न विद्यया । स्वर्गे यान्ति तथा मर्त्या यथा योधा रणे हताः ॥ न ह्यधर्मोऽस्ति पापीयान् क्षत्रियस्य पलायनात् । युद्धाद्धि धर्मः श्रेयान् वै पन्थाः स्वर्गस्य विद्यते ॥ इति । आपस्तम्बः, ब्राह्मणस्वान्यपजिगीषमाणः प्रत्यानेतुमिच्छन् युद्ध्यमानो हतोऽसौ साक्षायजः । इति । (?) धर्म इत्यर्थः । अत्र व्यासवाक्ये “योधा रणे हता” इति सा- मान्यत उपादानात् आपस्तम्बवाक्येऽपि “युद्ध्यमानो हत” इत्युपादानात्स्थानापत्त्या क्षत्रियातिरिक्तस्यापि क्षत्रवृत्त्या जीवतो युद्धमरणमत्यन्तं धर्मसाधनं, पलायनं सामर्थ्ये सति गोब्राह्म- णादीनामसंरक्षणं चात्यन्तमधर्मसाधनमिति द्रष्टव्यम् । आदित्यपुराणे, शूरस्याग्रे यदा विप्र आर्त्त उत्क्रोशते भृशम् । न च तं त्रायते पापाच्छूरो नरकभाग्भवेत् ॥ ब्राह्मणानां गवां चैव रक्षार्थं हन्यते यदि ।

४०८ वीरमित्रोदयस्य राजनीतिप्रकाशे स शूरो जीवितं हित्वा इन्द्रलोकं प्रपद्यते ॥ इति । याज्ञवल्क्ये, पदानि क्रतुतुल्यानिभग्नेष्व विनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ इति । आदित्यपुराणे, प्रजार्थे निहता ये च राजानो धर्मतत्पराः । अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये ॥ प्राप्नुवन्ति च ते सर्वे पुरीमैरावतीमिमाम् । निहताः, शस्त्रादिना । अग्निविद्युद्धता इत्यादावपि प्रजा- र्थ इत्यनुषज्यते । मनौ, यदस्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम् । भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति । आदित्यपुराणे, सङ्ग्रामे प्रस्थितं भूपं भृत्यस्त्यजति यः क्षणात् । स तेन नृपदण्डेन मूढो नरकमृच्छति ॥ जित्वारिं भोगसम्पत्तिर्मृतस्य च परा गतिः । निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥ शूराणां यद्विनिर्याति रक्तमाधावतां क्वचित् । तेनैव सह पाप्मानं सर्वं त्यजति वै मुने ॥ तथा व्रणचिकित्सायां वेदनां सहते तु याम् । ततो नास्त्यधिकं लोके तपः परमदारुणम् ॥ मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया । कर्तुमिच्छति यस्येह सङ्ग्रामादधिकं हि किम् ॥ वराप्सरःसहस्राणि शूरमायोधने हतम् ।

यात्राप्रकरणे युद्धार्जितस्य कर्तव्यता । ४०९ अभिद्रवन्ति कामार्त्ता मम भर्त्ता भविष्यति ॥ यः सहायान् परित्यज्य स्वस्थः सन् गन्तुमिच्छति । अमून् हि तस्य कृन्तन्ति देवाः शक्रपुरोगमाः ॥ इति । तथा, तोषयित्वा नृपं युद्धे राज्ञां हत्वाग्रतः स्थितम् । जित्वा न हरति द्रव्यं स नरः स्वर्गमाश्रितः ॥ मृद्नाति यदि राष्ट्राणि यदा न हरते धनम् । यदि वध्येत तत्रैव स नरः स्वर्गमाश्रितः ॥ युद्धार्जितं यत् तत्किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ सर्वद्रव्याणि, वस्त्रादीनि । कुप्यं, सुवर्णरजतान्यताम्रादि । अपृथग्जितं, योधैः सह सम्भूय जितम् । अत एव गौतमेन पृथग्जिते वाहनादौ च विशेष उक्तः— जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञो योद्धॄंश्च पृथग्जये यथार्हं सभाजयेद्राजा । इति । पृथग्जये, स्वयमेकाकिनैवार्जिते वित्ते। योद्धॄन् यथार्हम्, यथोचितं पूर्वकृतमानसत्कारादिकमपेक्ष्य । सभाजयेत् पूजयेत् । पूर्वशत्रुविजयानन्तरं राज्ञः कर्त्तव्यमुक्तम्— मनुना, जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥ ५२

४१० वीरमित्रोदयस्य राजनीतिप्रकाशे सर्वेषां तु विदित्वैषां सममेव चिकीर्षितम् । स्थापयेत्तत्र तद्वंश्यं कुर्याच्च समयक्रियाम् ॥ प्रमाणानि च कुर्वीत तेषां धर्मान् यथोदितान् । रत्नैश्च पूजयेदेनं प्रधानपुरुषैः सह ॥ आदानमप्रियकरं दानं च प्रियकारकम् । अभीप्सितानामर्थानां कालयुक्तं प्रशस्यते ॥ जित्वा, परराष्ट्रं जित्वा । देवान्,धार्मिकान् ब्राह्मणांश्च, त- देशवासिन इति शेषः । सम्पूजयेत्, यथार्हं भूमिसुवर्णदानमाना- दिभिः सत्कुर्यात् । परिहारान्, न मया लोभाद्याविष्टेनास्य जयः कृतः किन्त्वयमस्मानेवमेवमपकृतवांस्ततोऽस्य मया जयः कृत इत्यादीनि स्वनिरपराधताख्यापनानि । यद्वा । परिहारान्, दा- नानि, लब्धं च सुवर्णादिकं मया ब्राह्मणसात्कृतमित्यादिकांश्च । तथा स्वामिदृढभक्तैर्यैर्ममापकृतं तेषामपराधा मया क्षान्ताः स्वस्वव्यापारमनुतिष्ठन्त्वित्यभयं च ख्यापयेत् । तदाह— याज्ञवल्क्यः, नातः परतरो धर्मो नृपाणां यद्रणार्जितम् । विप्रेभ्यो दीयते द्रव्यं प्रजाभ्यश्चाभयं सदा ॥ इति । एषां सर्वेषां,परकीयामात्यादीनाम्। चिकीर्षितम्,अभिप्रायम्। समं,तुल्यम्। विदित्वा,ज्ञात्वा।तद्वंश्यं,सङ्ग्रामहतस्य राज्ञो वंशे भवम्। स्थापयेत्, तत्पदेऽभिषिञ्चेत् । समयक्रियाम्, इतः परं त्वयाऽस्मा- स्वेवं दिशा वर्तितव्यमितिसमयबन्धम् । तेषाम्, परेषां राज्ञाम् । यथोदितान्, यथाकुलक्रमागतान। धर्मान्, आचारान् । प्रमाणानि कुर्वीत,शपथरूपत्वेन कारयेत् । यदि त्वमस्मात्समयबन्धाच्च्युतो भवसि तदास्मात्कुलक्रमागताद्धर्माच्च्युतो भविष्यसीति शपथा- न् कारयेदित्यर्थः । अथ वा । तेषां पूर्वेषां राज्ञां, यथोदितान्

यात्राप्रकरणे परराष्ट्रं जित्वातदेशाचाराद्यलङ्घनम् ४११ यथाकृतान्, धर्मान् प्रजारक्षणप्रकारान् ब्राह्मणामात्यप्रभृतिभ्यो वृत्तिदानानि च, प्रमाणानि अविप्लाव्यानि, कुर्वीत कारयेत् । अभीप्सितानाम्, रणहतराजवंशस्य राज्ञस्तदमात्यानां चापे- क्षितानाम् । अर्थानां द्रव्याणाम् । आदानं ग्रहणम् । अप्रियकरम् अनिष्टकरम् । दानं च प्रियकारकं, तेषामिष्टकारकम् । यतोऽव- श्यापेक्षितगजाश्वादिधनलाभे राजान्तरैरनाक्रमणीयत्वं सम्भव- ति, अत एव तत् कालयुक्तं नवीनराज्यलाभकाले युक्तम- तः प्रशस्यते । विष्णुः, राजा परपुरप्राप्तौ तत्कुलीनमभिषेचयेत् न राजकुल- मुच्छिन्द्यात् अन्यत्राकुलीनराजकुलात् । इति । कात्यायनः, दुष्टस्यापि नरेन्द्रस्य तद्राष्ट्रं न विनाशयेत् । न प्रजानुमतो यस्मादन्यायेषु प्रवर्त्तते ॥ इति । राज्ञोऽन्यायप्रवृत्तौ यतः प्रजानामनुमतिर्नेत्यतो राष्ट्रं न पीडयेदितिसिद्धे येषाममात्यादीनामनुमत्याऽन्याये प्रवृत्तिस्तान् पीडयेदेवेति ध्येयम् । यदा च परराष्ट्रं वशे कृतं तदा तद्देशा- चारादीन् न लङ्घयेदित्याह— याज्ञवल्क्यः, यस्मिन् देशे य आचारो व्यवहारः कुलस्थितिः । तथैव परिपाल्योऽसौ यदा वशमुपागतः ॥ इति यातव्यः शत्रुर्यदि युद्धं करोति तदा तं हत्वा जित्वा वा तत्पदे तद्वंश्यमभिषिञ्चेदित्युक्तम् । यदि च स विजिगीषुं प्रबलं निर्णीय युद्धोपस्थितावपि सन्धि करोति तदा—

४१२ वीरमित्रोदयस्य राजनीतिप्रकाशे पुष्पैरपि न योद्धव्यं किं पुनर्निशितैः शरैः । इति महाभारतोक्तेरवश्यं सन्धिरेव कार्यो न पुनर्विग्रहः । तदुक्तम्— मनुना, सह वापि व्रजेद्युक्तः सन्धिं कृत्वा प्रयत्नतः । मित्रं हिरण्यं भूमिं वा सम्पश्यंस्त्रिविधं फलम् ॥ पार्ष्णिग्राहं च सम्प्रेक्ष्य तथाऽऽक्रन्दं च मण्डले । मित्रादथाप्यमित्राद्वा यात्राफलमवाप्नुयात् ॥ इति । वाशब्दः पूर्वोक्तयुद्धविकल्पार्थः । प्रयत्नतो युक्तः, यातव्ये- न प्रयत्नेन दूतप्रेषणादिना युक्तो योगं प्राप्तः सन् । सह, तेन शत्रुणा सह । मित्रं हिरण्यं भूमिं वा त्रिविधं यत्फलं, तत् सम्पश्य- न्,समीचीनमिति जानानः। तदन्यतरलाभे सन्धिं कृत्वा,व्रजेत्, स्वपुरं यायात् । मण्डले द्वादशारिमण्डले । पार्ष्णिग्राहं, विजिगी- षोः पुरतः स्थितो यातव्यः, पश्चात्स्थितः स्वशत्रुः, स्वभूम्यन- न्तरः पार्ष्णिग्राह इत्युच्यते तम् । तथा तत्पश्चादवस्थितं त- द्भूम्यनन्तरं स्वमित्रमाक्रन्दसंज्ञकं च । सम्प्रेक्ष्य, तद्बलाबलं ज्ञात्वेत्यर्थः । मित्रात्, मित्रत्वं प्राप्तात् यातव्यात्, अथ वा अमित्रात्, मैत्रीमकुर्वतो यातव्यात्, अर्थाद्विजिगीषुः यात्रायाः फलं, शत्रुजयं, सन्धौ वा मित्रादित्रितयलाभान्यतरत्, अवाप्नु- यात् प्राप्नुयात् । विष्णुः, परेणाभियुक्तश्च सर्वात्मना राष्ट्रं गोपायेत्सर्वतश्चात्मानं गोपायेत् । इति । मनुः, क्षेमां सस्यप्रदां नित्यं पशुवृद्धिकरीमपि ।

।" Commentary: "आषाढशुक्लपक्षः अन्ते यत्र क्रियायाम् । आषाढशुक्लपक्षपर्यन्तं राज्ञा उद्युक्तेन परराष्ट्रग्रहणोद्योगवता भाव्यमित्यर्थः । तदनन्तरं स्थानं चातुर्मास्यावस्थानयोग्यं स्थलमुपाश्रयेत् ।" Wait! Look at the heading: "यात्रानन्तरं चातुर्मास्य..." If it says "चातुर्मास्यप्रासादावस्थानादि", wait, why "प्रासादा"? Wait, could it be "चातुर्मास्ये प्रासादावस्थानादि"? No, 'चातुर्मास्य' is not 'चातुर्मास्ये', it is a compound: चातुर्मास्य-... Wait, is it "चातुर्मास्यप्रवासावस्थानादि"? Wait, look at the letter before 'वस्थानादि': Is it 'द'? Wait! Could it be "चातुर्मास्यप्राप्ताववस्थानादि"? Let's re-read L14: "अथ युद्धार्थं प्रस्थितस्य राज्ञः परदेशे चातुर्मास्ये प्राप्ते किं कर्तव्यमित्यपेक्षायाम्—" Notice: "चातुर्मास्ये प्राप्ते"! "चातुर्मास्य-प्राप्तौ अवस्थानादि" -> चातुर्मास्यप्राप्ताववस्थानादि! Wait! In Sanskrit grammar: चातुर्मास्य

४१४ वीरमित्रोदयस्य राजनीतिप्रकाशे एव तस्य स्थानस्याग्रे योग्यताकथनम् “अधृष्यम्” इत्यादिना कृतम् । अधृष्यं परराष्ट्राणां प्रभूतयवसेन्धनम् । तमोऽपेतं विपङ्कं च प्रावृट्कालाऽहतं तथा ॥ तमोऽपेतमित्यनेन सतमसां दर्यादीनां निषेधः । प्रावृट्का- लाहतमित्यनेन निम्नप्रदेशनिषेधः । तत्र प्रावृट्काले जलागमने दृष्यादीनामनवस्थाने ऽवस्थातुमशक्यत्वात् । यत्रोष्य च स्वं विषयं सर्व शक्नोति रक्षितुम् । तत्रस्थश्चतुरो मासान् गजाश्वान् पोषयेन्नृपः ॥ स्नेहपानैर्बहुविधैः प्रतिपानैश्च भार्गव । प्रतिपानैः, स्नेहातिपानकृतरोगादिनिवृत्त्यर्थं कृतै रूक्षीकर- णकषायपानैः । अथ वा । स्नेहपानप्रतिपानशब्दाभ्यां पूर्वो- त्तरबस्ती गृह्येते, ते च वैद्यकशास्त्रे प्रसिद्धे । आषाढशुक्लपक्षान्ते दशम्यूर्ध्वं नराधिपः । उत्सवं सुमहत्कुर्याद्देवानामर्र्चने रतः ॥ अर्चायां वा पटे वापि कृतं देवमथार्चयेत् । अर्चायां प्रतिमायाम् । देवभोगमयं विष्णुं श्रीसहायमरिन्दमम् । बलिभिर्विविधाभिस्तु पुष्पैर्धूपैः सुगन्धिभिः ॥ उत्सवं सुमहत्कुर्यात्ततः पञ्चदिनं नृपः । ततः प्रभृति नित्यं स्याद्वासुदेवस्य चार्चनम् ॥ सात्वतैर्भार्गवश्रेष्ठ सांवत्सरपुरोहितैः । गीतनृत्यैस्तथा देवं विशेषेणात्र पूजयेत् ॥ अस्मिन्नेव तथा काले कोटिहोमं समाचरेत् । कार्त्तिक्यां तत्समाप्तिस्तु यथा भवति भार्गव ॥

मासतिथिविशेषविहितं देवताविशेषपूजनम् । ४१५ शुक्लपक्षत्रिभागेऽन्त्ये कार्त्तिकस्य ततो नृपः । उत्सवं सुमहत्कुर्याद्देवदेवार्चनं तथा ॥ वैकुण्ठं पूजयेद्देवमर्चायामथ वा पटे । महादानं ततो दद्यात्प्रेङ्खां दद्यात्तथैव च ॥ प्रेङ्खा दोला । “दोला प्रेङ्खादिका स्त्रियाम्” इत्यमरः । दोलायात्रां कुर्यादित्यर्थः । मल्लानामथ वेश्यानां वन्दिनां नर्त्तकैः सह । दद्यादितिशेषः । यात्राविधानं सकलं तदा कुर्यान्महीपतिः । एतत् कृत्वा ततो यात्रा कार्या भवति पार्थिवैः ॥ शरत्काले गतातङ्कैः पुष्टाश्वरथकुञ्जरैः । एवं हि राज्ञा चतुरोऽपि मासान् पूज्यो भवेद्देववरोऽरिहन्ता । सन्त्यक्तनिद्रं मधुसूदनं च सम्पूज्य यात्राभिमतप्रदा स्यात् ॥ इति विष्णुधर्मोत्तरे चातुर्मास्ये कृतयात्रस्य राज्ञो ऽवस्थानविष्णुपूजनविधिः । अथ सामान्यतस्तिथिविशेषमासविशेषविहितो देवताविशेषपूजनविधिः । ' पूजयेच्चतुरो मासान् सुप्तं मधुनिषूदनम् । प्रौष्ठपादामले पक्षे पूजयेच्च शतक्रतुम् ॥ प्रौष्ठपादो भाद्रपदः । नवम्यामाश्वयुक्छुक्ले भद्रकालीं तु पूजयेत् । रवौ स्वातिमनुप्राप्ते कुर्यान्नीराजनं तथा ॥ सम्वत्सरात्कोटिहोमं कुर्याच्च घृतकम्बलम् । राज्यसंवत्सरग्रन्थोः कुर्यात्तुण्डुडुपूजनम् ॥

४१६ वीरमित्रोदयस्य राजनीतिप्रकाशे प्रौष्ठपादामले पक्षे शतक्रतुपूजाभिहिता सा च तत्पक्षीयाया- मष्टम्यामिन्द्रध्वजोच्छ्रायदिने कर्तव्येत्यभिधास्यते । एवं भद्रका- लीपूजानीराजनघृतकम्बला अग्रेऽभिधास्यन्ते । राज्येति । रा- ज्याभिषेकनक्षत्रपूजनं राज्ञो जन्मदिनविहितसंवत्सरग्रन्थिन- क्षत्रपूजनं च प्रतिसंवत्सरं कुर्यादित्यर्थः । कर्माण्यथैतानि नराधिपस्य नित्यानि ते राम मयोदितानि । एतानि कृत्वा विधिवन्नरेन्द्रश्चिरं समग्रं वसुधां प्रशास्ति ॥ इति विष्णुधर्मोत्तरोक्तस्तिथिविशेषमासविशेष- विहितो देवताविशेषपूजादिविधिः । अथ तिथिविशेषे मासविशेषे च विहिता ब्रह्म- पुराणोक्ता देवयात्रा । वैशाखादिषु मासेषु षट्सु देवगृहेषु च । यात्रोत्सवः सदा कार्यः प्रतिसंवत्सरेष्वपि ॥ कार्या च ब्रह्मणे यात्रा प्रतिपद्यपि सर्वदा । द्वितीयायां च देवेभ्यो विद्यारम्भे महोत्सवे ॥ भागीरथ्यै तृतीयायां कर्त्तव्या च सुशोभना । विनायकाय नागेभ्यश्चतुर्थ्यामथ कारयेत् ॥ स्कन्दाय षष्ठ्यां सप्तम्यां सूर्येभ्यश्च यथाक्रमम् । पुरन्दराय चाष्टम्यां रुद्राय सगणाय च ॥ दुर्गाभ्यश्चैव मातृभ्यो नवम्यामथ सर्वदा । भूम्यै दशम्यां कर्त्तव्या सर्वोपकरणान्विता ॥ एकादश्यां समासेन विधात्रे विश्वकर्मणे । द्वादश्यां विष्णवे कार्या सायुधाय महात्मने ॥ त्रयोदश्यां तु कामाय चतुर्दश्यां कपर्दिने । पौर्णमास्यां तु देवेभ्यस्तथा चन्द्रमसे तथा ॥