भारतकोश
वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)

Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary

महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा

DevanagariHindipublished490 पृष्ठ

पृष्ठ 404, कुल 490 में से

संदर्भ में पढ़ें
पृष्ठ 404

४०८ वीरमित्रोदयस्य राजनीतिप्रकाशे स शूरो जीवितं हित्वा इन्द्रलोकं प्रपद्यते ॥ इति । याज्ञवल्क्ये, पदानि क्रतुतुल्यानिभग्नेष्व विनिवर्तिनाम् । राजा सुकृतमादत्ते हतानां विपलायिनाम् ॥ इति । आदित्यपुराणे, प्रजार्थे निहता ये च राजानो धर्मतत्पराः । अग्निविद्युद्धता ये च सिंहव्याघ्रहताश्च ये ॥ प्राप्नुवन्ति च ते सर्वे पुरीमैरावतीमिमाम् । निहताः, शस्त्रादिना । अग्निविद्युद्धता इत्यादावपि प्रजा- र्थ इत्यनुषज्यते । मनौ, यदस्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम् । भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु ॥ इति । आदित्यपुराणे, सङ्ग्रामे प्रस्थितं भूपं भृत्यस्त्यजति यः क्षणात् । स तेन नृपदण्डेन मूढो नरकमृच्छति ॥ जित्वारिं भोगसम्पत्तिर्मृतस्य च परा गतिः । निष्कृतिः स्वामिपिण्डस्य नास्ति युद्धसमा गतिः ॥ शूराणां यद्विनिर्याति रक्तमाधावतां क्वचित् । तेनैव सह पाप्मानं सर्वं त्यजति वै मुने ॥ तथा व्रणचिकित्सायां वेदनां सहते तु याम् । ततो नास्त्यधिकं लोके तपः परमदारुणम् ॥ मृतस्य नास्ति संस्कारो नाशौचं नोदकक्रिया । कर्तुमिच्छति यस्येह सङ्ग्रामादधिकं हि किम् ॥ वराप्सरःसहस्राणि शूरमायोधने हतम् ।