वीरमित्रोदय: राजनीतिप्रकाश (महामहोपाध्याय मित्रमिश्र - प्राचीन भारतीय राजनीति एवं शासन कोष)
Viramitrodaya Rajanitiprakasha of Mitramishra with Commentary
महामहोपाध्याय मित्रमिश्र (सम्पादक: पं. विष्णुप्रसाद शर्मा) द्वारा
पृष्ठ 405, कुल 490 में से
संदर्भ में पढ़ेंयात्राप्रकरणे युद्धार्जितस्य कर्तव्यता । ४०९ अभिद्रवन्ति कामार्त्ता मम भर्त्ता भविष्यति ॥ यः सहायान् परित्यज्य स्वस्थः सन् गन्तुमिच्छति । अमून् हि तस्य कृन्तन्ति देवाः शक्रपुरोगमाः ॥ इति । तथा, तोषयित्वा नृपं युद्धे राज्ञां हत्वाग्रतः स्थितम् । जित्वा न हरति द्रव्यं स नरः स्वर्गमाश्रितः ॥ मृद्नाति यदि राष्ट्राणि यदा न हरते धनम् । यदि वध्येत तत्रैव स नरः स्वर्गमाश्रितः ॥ युद्धार्जितं यत् तत्किं कर्त्तव्यमित्यपेक्षायाम्— मनुः, रथाश्वं हस्तिनं छत्रं धनं धान्यं पशून्स्त्रियः । सर्वद्रव्याणि कुप्यं च यो यज्जयति तस्य तत् ॥ राज्ञश्च दद्युरुद्धारमित्येषा वैदिकी श्रुतिः । राज्ञा च सर्वयोधेभ्यो दातव्यमपृथग्जितम् ॥ सर्वद्रव्याणि, वस्त्रादीनि । कुप्यं, सुवर्णरजतान्यताम्रादि । अपृथग्जितं, योधैः सह सम्भूय जितम् । अत एव गौतमेन पृथग्जिते वाहनादौ च विशेष उक्तः— जेता लभेत साङ्ग्रामिकं वित्तं वाहनं तु राज्ञो योद्धॄंश्च पृथग्जये यथार्हं सभाजयेद्राजा । इति । पृथग्जये, स्वयमेकाकिनैवार्जिते वित्ते। योद्धॄन् यथार्हम्, यथोचितं पूर्वकृतमानसत्कारादिकमपेक्ष्य । सभाजयेत् पूजयेत् । पूर्वशत्रुविजयानन्तरं राज्ञः कर्त्तव्यमुक्तम्— मनुना, जित्वा सम्पूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् । प्रदद्यात्परिहारांश्च ख्यापयेदभयानि च ॥ ५२